All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
षान्तवर्गः · षद्वितीयम्
षद्वितीयम् ।
उषा बाणसुतायां स्यात्प्रभातेऽपि विभावरौ ।उषस्तु कामुके पुंसि गुग्गुलादावुषः पुमान् ॥ १ ॥
32.2.1 · p. 378
अनुष्टुप्
ऋषिश्छन्दे वसिष्ठादौ दीधितौ तु ऋषिः स्त्रियाम् ।कर्षः पलचतुर्थांशे कर्षः स्यात्कर्षणेऽपि च ॥ २ ॥
32.2.2 · p. 378
अनुष्टुप्
कर्षूः पुंसि करीषाग्नौ कर्षूः कुल्याभिधायिनी ।कोषोऽस्त्री कुड्मले दिव्ये पेश्यां शब्दादिसङ्ग्रहे ॥ ३ ॥
32.2.3 · p. 379
अनुष्टुप्
अर्थौघे जातिकोशे च पात्रखड्गपिधानयोः ।पनसादिफलस्यापि कोषः स्यान्मध्यवर्त्तिनि ॥ ४ ॥
32.2.4 · p. 379
अनुष्टुप्
घोषा तु शतपुष्पायां घोषः कांस्येम्बुदध्वनौ ।घोषः स्याद्घोषकाभीरनिस्वनाभीरपल्लिषु ॥ ५ ॥
32.2.5 · p. 379
अनुष्टुप्
झषा नागबलायां स्याज्झषो वैसारिणि स्मृतः ।पिपासालिक्षयोस्तर्षस्तुषो धान्यत्वगक्षयोः ॥ ६ ॥
32.2.6 · p. 379
अनुष्टुप्
तृट् तृषा च पिपासायां लिप्सायां च स्त्रियामुभे ।त्विट् कान्तौ रुचि भारत्यां व्यवसायजिगीषयोः ॥ ७ ॥
32.2.7 · p. 379
अनुष्टुप्
दोषस्तु दूषणे पापे दोषा रात्रौ भुजेऽपि च ।पौषो मासविशेषे स्यात्पौषमुद्धवयुद्धयोः ॥ ८ ॥
32.2.8 · p. 379
अनुष्टुप्
पौषी तु पौषपौर्णम्यां पुष्ययुक्ता भवेद्यदि ।प्रैषस्तु प्रेषणोन्मानमर्द्दनक्लेशवाचकः ॥ ९ ॥
32.2.9 · p. 380
अनुष्टुप्
भाषा गिरि सरस्वत्यां विकल्पार्थे विपूर्वके ।माषो व्रीह्यन्तरे माने मूर्खे त्वग्दूषणान्तरे ॥ १० ॥
32.2.10 · p. 380
अनुष्टुप्
मिषस्तु स्पर्द्धने व्याजे निमेषे तु निपूर्वकः ।मेषः स्यादुरणे राशिभेदभैषज्यभेदयोः ॥ ११ ॥
32.2.11 · p. 380
अनुष्टुप्
मेष उत्पूर्वको वेधे वर्षाः स्युः प्रावृषि स्त्रियाम् ।वर्षमस्त्री वर्षणेऽब्दे जम्बूद्वीपे घने पुमान् ॥ १२ ॥
32.2.12 · p. 380
अनुष्टुप्
विषा त्वतिविषायां स्याद्विषं तु गरले जले ।विड्व्यापने पुरीषे च वृषो मूषकधर्म्मयोः ॥ १३ ॥
32.2.13 · p. 380
अनुष्टुप्
वृषभे वासके श्रेष्ठे राशौ शृङ्ग्यां च शुक्रले ।शुक्रे पुरुषभेदेऽपि व्रतिनामासने वृषी ॥ १४ ॥
32.2.14 · p. 380
अनुष्टुप्
वृषा मूषकपर्ण्यां स्यात्कपिकच्छ्वामपि स्मृता ।शुषिः शोषे बिले ख्यातः शेषः सङ्कर्षणे वधे ॥ १५ ॥
32.2.15 · p. 381
अनुष्टुप्
अनन्तेऽप्यवशिष्टेऽपि शेषा निर्म्माल्यभिद्यपि ।
32.2.16 · p. 381