कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

अव्ययानि · सान्तानि

स०

अग्रतः प्रथमेऽग्रे स्यादञ्जसा तत्त्वतूर्णयोः ।अभितोऽन्तिकसाकल्यसम्मुखोमयतो द्रुते ॥ ७४ ॥
36.20.74 · p. 418
अनुष्टुप्
तिरोऽन्तर्द्धौ तिर्यगर्थे निस् निश्चयनिषेधयोः ।साकल्यातीतयोश्चाथ नीचैः स्वैराल्पयोर्म्मतम् ॥ ७५ ॥
36.20.75 · p. 419
अनुष्टुप्
पुरोऽग्रे प्रथमे च स्यात्पुरतः प्रथमाग्रयोः ।प्रातर्द्दिनेऽपि पूर्वेद्युः पूर्वेद्युर्द्धर्म्मवासरे ॥ ७६ ॥
36.20.76 · p. 419
अनुष्टुप्
पूर्वत्रार्थेऽपि पूर्वेद्युर्भूयस्तु स्यात्पुनःपुनः ।अनव्ययं प्रभूतार्थे मिथोन्योन्यं मिथो रहः ॥ ७७ ॥
36.20.77 · p. 419
अनुष्टुप्
प्रादुः स्यात्प्रकटीभावे प्रादुः सम्भाव्यमात्रके ।शनैः शनैश्चरे ख्यातं स्वैरेऽपि च शनैरिति ॥ ७८ ॥
36.20.78 · p. 419
अनुष्टुप्
सु पूजायां भृशार्थाऽनुमतिकृच्छ्रसमृद्धिषु ।तत्कालमात्रे सहसा सहसाऽऽकस्मिकेऽपि च ॥ ७९ ॥
36.20.79 · p. 419
अनुष्टुप्