All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
कान्तवर्गः · कद्वितीयम्
अकं दुःखाघयोरङ्को रेखायां चिह्नलक्ष्मणोः ।नाटकादिपरिच्छेदोत्सङ्गयोरपि रूपके ॥ ४ ॥
1.2.4 · p. 2
अनुष्टुप्
चित्रयुद्धेऽन्तिके मन्तौ स्थानभूषणयोरपि ।अर्कः सूर्येऽर्कपर्णेऽपि शक्रे स्फटिकताम्रयोः ॥ ५ ॥
1.2.5 · p. 2
अनुष्टुप्
एकस्तु स्यात्त्रिषु श्रेष्ठे केवलेतरयोरपि ।कंकः खगे लोहपृष्ठे कृतान्ते कपटद्विजे ॥ ६ ॥
1.2.6 · p. 2
अनुष्टुप्
कर्कः कर्केतने वह्नौ श्वेताश्वे मुकुरे घटे ।कल्कोऽस्त्री पापविट्किट्टदोषदम्भबिभीतके ॥ ७ ॥
1.2.7 · p. 3
अनुष्टुप्
पापाश्रयेऽपि काकस्तु वायसे पीठसर्पिणि ।शिरोवक्षालने धृष्टे मानद्वीपद्रुमान्तरे ॥ ८ ॥
1.2.8 · p. 3
अनुष्टुप्
काकं काकसमूहे स्यात्स्त्रीणां च रतबन्धने ।किष्कुर्वितस्तौ हस्ते च प्रकोष्ठे कुत्सिते पुमान् ॥ १० ॥
1.2.10 · p. 3
अनुष्टुप्
कोकश्चक्रे वृके ज्यैष्ठ्यां खर्जूरीभेकविष्णुषु ।छेकस्तु गृहसंसक्तविश्वस्तमृगपक्षिणोः ॥ ११ ॥
1.2.11 · p. 3
अनुष्टुप्
नागरे त्रिषु वक्रे च टङ्कोऽस्त्री ग्रावदारणे ।टङ्कर्णे ग्रावभित्तौ च मानभेदाऽभिधानयोः ॥ १२ ॥
1.2.12 · p. 3
अनुष्टुप्
कपित्थान्तरजङ्घाऽसिकोषकोषखनित्रके ।तर्कः काङ्क्षावितर्कोहे कर्मशास्त्रप्रभेदयोः ॥ १३ ॥
1.2.13 · p. 4
अनुष्टुप्
तोकं त्वपत्ये पुत्रे च तोका दुहितरि स्त्रियाम् ।त्रिका कूपस्य नेमौ स्यात्त्रिकं पृष्ठधरे त्रये ॥ १४ ॥
1.2.14 · p. 4
अनुष्टुप्
द्विकः स्याच्चक्रवाकेऽपि नाङ्के काकेऽपि सम्मतः ।नाकुः पुंसि मुनेर्भेदे नाकुर्वल्मीकशैलयोः ॥ १५ ॥
1.2.15 · p. 4
अनुष्टुप्
नाकः स्वर्गेऽन्तरिक्षे च निष्कोऽस्त्री हेमकर्षयोः ।अष्टाधिकस्वर्णशते वक्षोऽलङ्करणे पले ॥ १६ ॥
1.2.16 · p. 4
अनुष्टुप्
हेम्नः पलेऽपि दीनारे न्यङ्कुर्झषे मुनौ मृगे ।पङ्कोऽस्त्री कर्दमे पापे पाकस्तु पवने शिशौ ॥ १७ ॥
1.2.17 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्झ (wrong syllable)
पाको जरापरीपाके स्थाल्यादौ क्लेदनिष्ठयोः ।बकः कङ्के शिवमल्ल्यां रक्षोभेदकुबेरयोः ॥ १८ ॥
1.2.18 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
वङ्कस्तु पुंसि नद्यादिभङ्गपर्याणभागयोः ।भङ्गुरे वाच्यवद्वङ्को वल्कं वल्कलखण्डयोः ॥ १९ ॥
1.2.19 · p. 5
अनुष्टुप्
भूकश्छिद्रेऽवकाशे च भेको मण्डूकमेघयोः ।मुष्कोऽण्डकोशे वृन्दे च मुष्को मोक्षकशाखिनि ॥ २० ॥
1.2.20 · p. 5
अनुष्टुप्
मूकस्त्ववाङ्मतो दीने रङ्कः कृपणमन्दयोः ।अथ राका दृष्टरजःकन्यायां सरिदन्तरे ॥ २१ ॥
1.2.21 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दृ (wrong syllable)
पूर्णेन्दुपूर्णिमायां च कच्छूरोगेऽपि दृश्यते ।रेको विरेके शङ्कायामधमे त्वभिधेयवत् ॥ २२ ॥
1.2.22 · p. 5
अनुष्टुप्
रोकं दत्त्वा क्रये रन्ध्रे नावि रोकस्तु रोचिषि ।लङ्का रक्षःपुरे शाखाकुलटाशाकिनीष्वपि ॥ २३ ॥
1.2.23 · p. 5
अनुष्टुप्
लोको जनेऽपि भुवने स्यादवात्तु विलोकने ।शङ्कुः कीले शिवे सङ्ख्यायादोऽस्त्रभिदि किल्विषे ॥ २४ ॥
1.2.24 · p. 5
अनुष्टुप्
शङ्का त्रासे वितर्के च शल्कं शकलवल्कयोः ।चूर्णे शाकस्तु शक्तौ स्याद्वृक्षद्वीपनृपान्तरे ॥ २५ ॥
1.2.25 · p. 6
अनुष्टुप्
शाकं हरितके क्लीबे पत्रपुष्पफलादिके ।शुकः कीरे व्यासपुत्रे रावणस्य च मन्त्रिणि ॥ २६ ॥
1.2.26 · p. 6
अनुष्टुप्
शुकं तु ग्रन्थिपर्णे स्याच्छिरीषे शोणकेऽपि च ।शुल्कं घट्टादिदेयेऽस्त्री जामातुरपि बन्धके ॥ २७ ॥
1.2.27 · p. 6
अनुष्टुप्
शूकः स्यादनुकम्पायां शूकः शुङ्गेऽपि पुंस्ययम् ।शोकः स्याच्छुमसङ्घाते स्त्रीणां च करणान्तरे ॥ २८ ॥
1.2.28 · p. 6
अनुष्टुप्
श्लोको यशसि पद्ये स्यादुपहास्य उपात्परः ।सृको वातोत्पलशरे स्तोकः स्याच्चातकाल्पयो ॥ २९ ॥
1.2.29 · p. 6
अनुष्टुप्