All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
तान्तवर्गः · तद्वितीयम्
तद्वितीयम् ।
अन्तं विशुद्धे व्याप्ते स्यादन्तो नाशे मनोहरे ॥ १ ॥
17.2.1 · p. 119
स्वरूपेऽन्तं मतं क्लीबं न स्त्री प्रान्तेऽन्तिके त्रिषु ।अर्त्तिः पीडाघनुष्कोट्योरस्तः प्रत्यङ्महीधरे ॥ २ ॥
17.2.2 · p. 119
अनुष्टुप्
त्रिषु क्षिप्ते गतेऽप्यस्तमाप्तः सत्यगृहीतयोः ।आप्तिः संवरणे प्राप्तौ विज्ञातगतयोर्गतम् ॥ ३ ॥
17.2.3 · p. 120
अनुष्टुप्
ईतिः स्यादतिवृष्ट्यादिपट्टे डिम्बप्रवासयोः ।उक्तमेकाक्षरच्छन्दस्युक्तस्तु त्रिषु भाषिते ॥ ४ ॥
17.2.4 · p. 120
अनुष्टुप्
स्फूर्तिरक्षणयोरूतिर्ऋतमुञ्छशिले जले ।मतं त्रिलिङ्गकं सत्ये गतौ दीप्तेऽभिपूजिते ॥ ५ ॥
17.2.5 · p. 120
अनुष्टुप्
ऋतिर्गतौ जुगुप्सायां स्पर्द्धायामप्यमङ्गले ।ऋतुः स्वादार्त्तवे वीरे वसन्तादिषु मासि च ॥ ६ ॥
17.2.6 · p. 120
अनुष्टुप्
एतस्तु कर्बुरे वाच्यलिङ्गः स्यादागतेऽपि च ।शोभाऽभिलाषयोः कान्तिः कान्तो रम्ये प्रिये त्रिषु ॥ ७ ॥
17.2.7 · p. 120
अनुष्टुप्
कान्तोऽश्मनि पुमान्कान्ता प्रियङ्गौ नायिकान्तरे ।कीर्त्तिर्यशसि विस्तारे प्रसादेऽपि च कर्दमे ॥ ८ ॥
17.2.8 · p. 120
अनुष्टुप्
कुन्तो गवेधुके प्रासे दण्डभावेऽल्पजन्तुषु ।कुन्ती स्यात्पाण्डुकान्तायां शल्लक्यां गुग्गुलुद्रुमे ॥ ९ ॥
17.2.9 · p. 121
अनुष्टुप्
कृतिर्वधेऽपि करणे क्लीबं सत्ययुगे कृतम् ।त्रिषु हिंसितपर्याप्तविहिते निष्फलेऽव्ययम् ॥ १० ॥
17.2.10 · p. 121
अनुष्टुप्
कृत्तं तु कथितं छिन्ने वेष्ठितेऽप्यभिधेयवत् ।कृत्तिस्त्वक्चर्मभूर्जेषु कृत्तिकायां च कीर्तिता ॥ ११ ॥
17.2.11 · p. 121
अनुष्टुप्
केतुर्ग्रहान्तरोत्पातद्युतिलक्ष्मध्वजादिषु ।क्रतुर्यज्ञे मुनेर्भेदे गतं स्याज्जातयादसोः ॥ १२ ॥
17.2.12 · p. 121
अनुष्टुप्
गतिर्दशायां गमने ज्ञाने मर्म्माऽभ्युपाययोः ।नाडीव्रणे सरण्यां च गतिर्जन्मान्तरेऽपि च ॥ १३ ॥
17.2.13 · p. 121
अनुष्टुप्
गर्तस्त्रिगर्त्तदेशे स्याद् भूश्वभ्रेऽपि कुकुन्दरे ।गातुर्गन्धर्वरोलम्बरोषणे कोकिलापतौ ॥ १४ ॥
17.2.14 · p. 121
अनुष्टुप्
गीतिश्छन्दोन्तरे ज्ञाने गीतं गाने च शब्दिते ।गुप्तस्तु रक्षिते गूढे वृषले चन्द्रपूर्वकः ॥ १५ ॥
17.2.15 · p. 122
अनुष्टुप्
गुप्तिः कारागृहे गर्त्ते गोपाये रक्षणे युगे ।ग्रस्तं ग्रासीकृतेऽपि स्याल्लुप्तवर्णपदोदिते ॥ १६ ॥
17.2.16 · p. 122
अनुष्टुप्
घातः प्रहारे काण्डे च घृतं दीप्ताज्यवारिषु ।चितिः समूहे चित्यायामुपादुपचये चितिः ॥ १७ ॥
17.2.17 · p. 122
अनुष्टुप्
चितः कूटीकृतेऽपि स्याच्चिता सहतिचित्ययोः ।चिता छन्ने चुल्लिकायां जातं जन्मौघजन्तुषु ॥ १८ ॥
17.2.18 · p. 122
अनुष्टुप्
जातिः सामान्यमालत्योश्छन्दोभिद्गोत्रजन्मसु ।तातोऽनुकम्प्ये जनके तिक्तो रससुगन्धयोः ॥ १९ ॥
17.2.19 · p. 122
अनुष्टुप्
तिक्ता तु कटुरोहिण्यां तिक्तं पर्पटके मतम् ।त्रेता युगेऽग्नित्रितये दत्तं विश्राणितेऽविते ॥ २० ॥
17.2.20 · p. 122
अनुष्टुप्
दन्तः कुञ्जे रदे सानौ दन्ती स्यादौषधीमिदि ।दान्तस्त्रिषु तपःक्लेशसहेऽपि दमितेऽपि च ॥ २१ ॥
17.2.21 · p. 123
अनुष्टुप्
दितिर्दनौ खण्डने च दीप्तं ज्वलितदग्धयोः ।त्रिषु निर्वासितेऽपि स्याद्दृतिश्चर्मपुटे कषे ॥ २२ ॥
17.2.22 · p. 123
अनुष्टुप्
दृप्तो निवारिते शक्ते द्युतिर्दीधितिशोभयोः ।द्रुतं शीघ्रे च विद्राणे विलीने शीघ्रगे त्रिषु ॥ २३ ॥
17.2.23 · p. 123
अनुष्टुप्
धाता तु ब्रह्मणि रवौ त्रिषु स्यात्परिपालके ।धातुः क्रियार्थे शुक्रेपि विषयेष्विन्द्रियेषु च ॥ २४ ॥
17.2.24 · p. 123
अनुष्टुप्
श्लेष्मादिरसरक्तादिभूतादिवसुधादिषु ।मनःशिलादिके लोहे विशेषाद्गैरिकेस्थिनि ॥ २५ ॥
17.2.25 · p. 123
अनुष्टुप्
धुतं विधूते त्यक्ते च धूतः कम्पितभर्त्सिते ।धूर्त्तं तु खण्डलवणे धत्तूरे नाविटे त्रिषु ॥ २६ ॥
17.2.26 · p. 123
अनुष्टुप्
धृतिर्धारणसंतुष्टिधैर्ये योगान्तरेऽध्वरे ।नतस्तगरवृक्षे स्यात् कुटिलानतयोस्त्रिषु ॥ २७ ॥
17.2.27 · p. 124
अनुष्टुप्
नीतिर्न्नये प्रापणे च नृत्तः स्यान्नर्तने क्रिमौ ।पक्तिः स्त्री गौरवे पाके पङ्क्तिः श्रेणौ दशस्वपि ॥ २८ ॥
17.2.28 · p. 124
अनुष्टुप्
स्याद्दशाक्षरवृत्तेपि स्त्रियां मूल्ये गतौ पतिः ।पत्तिः पदातौ वीरे ना गतौ सेनान्तरे स्त्रियाम् ॥ २९ ॥
17.2.29 · p. 124
अनुष्टुप्
पातस्तु पतने त्राते पीतमाचान्तगौरयोः ।त्रिषु पीता तु पर्णिन्यां पीतं पाने नपुंसकम् ॥ ३० ॥
17.2.30 · p. 124
अनुष्टुप्
पीतिः पाने सपूर्वा तु सहपाने हये पुमान् ।पुस्तं तु पुस्तके क्लीबं विज्ञाने लेप्यकर्म्मणि ॥ ३१ ॥
17.2.31 · p. 124
अनुष्टुप्
पूतं पवित्रे शब्दे च त्रिषु स्याद्बहुलीकृते ।पूरितच्छन्नयोः पूर्त्तं पूर्त्तं खातादिकर्म्मणि ॥ ३२ ॥
17.2.32 · p. 124
अनुष्टुप्
पोतो बाले बहित्रे च प्रातिः पूर्त्तिप्रदेशयोः ।प्राप्तिर्महोदये लाभे प्राप्तं लब्धसमञ्जसे ॥ ३३ ॥
17.2.33 · p. 125
अनुष्टुप्
प्रीतिः स्मरसुतायोगभेदयोः प्रेममोदयोः ।हर्षिते नर्म्मणि प्रीतं प्रेतो भूतान्तरे मृते ॥ ३४ ॥
17.2.34 · p. 125
अनुष्टुप्
प्रोतं तु ग्रथिते वस्त्रे प्लुतस्तु स्यात्त्रिमातृके ।प्लुतमश्वस्य गमने प्लुतं सप्तवने त्रिषु ॥ ३५ ॥
17.2.35 · p. 125
अनुष्टुप्
भक्तिर्विभागे सेवायां भर्ता स्वामिनि धारके ।भित्तिः कुड्ये च काशे च प्रदेशे भेदभागयोः ॥ ३६ ॥
17.2.36 · p. 125
अनुष्टुप्
भीतं भयेऽपि समये भीतिः साध्वसकंपयोः ।अथ भृतः पुमान्देवयोनिभेदेऽपि देवले ॥ ३७ ॥
17.2.37 · p. 125
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 भृ (wrong syllable)
त्रिषु प्राप्ते विवृत्ते च भूतं स्यान्न्याय्यसत्ययोः ।उपमाने पृथिव्यादौ पिशाचादौ समे त्रिषु ॥ ३८ ॥
17.2.38 · p. 125
अनुष्टुप्
भूतिर्म्मातङ्गशृङ्गारे भस्मसम्पत्तिजन्मसु ।भृतिस्तु भरणे ख्याता तथा वेतनमूल्ययोः ॥ ३९ ॥
17.2.39 · p. 126
अनुष्टुप्
भ्रान्तिः स्याद्भ्रमणेऽपि स्यान्मतौ वाऽप्यनवस्थितौ ।मतोऽर्चितेऽप्यनुमते मतिर्बुद्धौ स्मृतीच्छयोः ॥ ४० ॥
17.2.40 · p. 126
अनुष्टुप्
मन्तुः स्यादपराधेऽपि मानवे परमेष्ठिनि ।माता ब्राह्म्यादिगोकादिप्रसूगौरीष्वपि क्षितौ ॥ ४१ ॥
17.2.41 · p. 126
अनुष्टुप्
त्रिषु स्यान्मापके माता गीताध्यक्षे प्रपूर्वकः ।मितिर्मानेऽप्यवच्छेदे मुक्तिर्मोक्षेऽपि मोचने ॥ ४२ ॥
17.2.42 · p. 126
अनुष्टुप्
मुक्तो मोक्षगतेऽप्युक्तस्त्रिषु मुक्ता तु मौक्तिके ।मूर्त्तं मूर्त्त्यन्विते मूर्च्छाऽन्विते काठिन्यवत्यपि ॥ ४३ ॥
17.2.43 · p. 126
अनुष्टुप्
मूर्त्तिः कायेऽपि काठिन्ये मृत्युयाचितयोर्म्मतम् ।मृतं मृत्युपरिप्राप्ते विज्ञेयमभिधेयवत् ॥ ४४ ॥
17.2.44 · p. 126
अनुष्टुप्
यतिर्यतिनि पुंसि स्त्री पाठभेदनिकारयोः ।यन्ता सादिनि सूते च निपूर्वोऽसौ नियामके ॥ ४५ ॥
17.2.45 · p. 127
अनुष्टुप्
युक्तं स्यादुचिते युक्तं संयुतेऽप्यभिधेयवत् ।युक्तिर्न्नियोजने न्याये पृथक्संयुक्तयोर्मतम् ॥ ४६ ॥
17.2.46 · p. 127
अनुष्टुप्
युतं हस्तचतुष्केऽपि संख्याभेदे नपूर्वकम् ।रक्तोनुरक्ते नील्यादिरञ्जिते लोहितेऽन्यवत् ॥ ४७ ॥
17.2.47 · p. 127
अनुष्टुप्
रिक्तं शून्ये वनेऽपि स्यादशरीतिर्गिरां पथि ।रीतिः स्यन्दे प्रचारे च लोहकिट्टारकूटयोः ॥ ४८ ॥
17.2.48 · p. 127
अनुष्टुप्
लता तु माधवीवल्लीशाखास्पृक्काप्रियङ्गुषु ।लता कस्तूरिकाज्योतिष्मतीदूर्वासु च स्मृता ॥ ४९ ॥
17.2.49 · p. 127
अनुष्टुप्
लिप्तं विलेपिते भुक्ते विषाक्तविशिषादिषु ।लूता पिपीलिकायां स्यादूर्णनाभे गदान्तरे ॥ ५० ॥
17.2.50 · p. 127
अनुष्टुप्
लोप्तं तु चोरिते बाष्पे वक्ता वाग्ग्मिनि पण्डिते ।वप्ता पितरि तन्तूनां वापके बीजवापके ॥ ५१ ॥
17.2.51 · p. 128
अनुष्टुप्
वर्त्तिर्गात्रानुलेपन्यां वर्त्तिर्दीपदशासु च ।दीपे भेषजनिर्म्माणे लोचनाञ्जनलेखयोः ॥ ५२ ॥
17.2.52 · p. 128
अनुष्टुप्
नीरुग्वृत्तिमतोर्वार्तो वार्त्तमारोग्यफल्गुनोः ।वार्त्ता कृष्यादिवृत्तान्तवार्त्ताकीवृत्तिषु स्थिता ॥ ५३ ॥
17.2.53 · p. 128
अनुष्टुप्
वित्तं तु विभवे ज्ञातख्यातलव्धविचारिते ।वित्तिर्ज्ञानेपि लाभेऽपि विचारे सम्भवेऽपि च ॥ ५४ ॥
17.2.54 · p. 128
अनुष्टुप्
वीतं त्वसारहस्त्यश्वे त्यक्तेप्यङ्कुशकर्म्मणि ।वीतिस्त्यागे गतौ दीप्तौ प्रजने धावनेऽशने ॥ ५५ ॥
17.2.55 · p. 128
अनुष्टुप्
वृत्तिः प्रवृत्तौ वृत्तौ च कौशिक्यादिप्रवर्त्तने ।वृत्तस्तु वर्तुलेऽतीते मृते ख्याते दृढे वृते ॥ ५६ ॥
17.2.56 · p. 128
अनुष्टुप्
त्रिषु वृत्तं तु चरिते वृत्तं छन्दसि वर्त्तते ।वृतिर्विवरणे वाटे वेष्टिते वरणे वृतम् ॥ ५७ ॥
17.2.57 · p. 129
अनुष्टुप्
वृन्तं प्रसवबन्धेऽपि कुचाग्रे घटधारयोः ।शस्तं क्षेमे प्रशस्ते च शातः शकुनिशातयोः ॥ ५८ ॥
17.2.58 · p. 129
अनुष्टुप्
शातं शर्म्मणि शान्तस्तु रसे दान्तेऽपि मुक्तके ।शान्तिः शमेऽपि कल्याणे शास्ता शासकबुद्धयोः ॥ ५९ ॥
17.2.59 · p. 129
अनुष्टुप्
शितः कृष्णे सिते भूर्जे शितं शकुनिशान्तयोः ।वानीरबहुवारे च शीतः शीतं तु चन्दने ॥ ६० ॥
17.2.60 · p. 129
अनुष्टुप्
हिमसम्भूतजाड्येऽपि शीतलालसयोस्त्रिषु ।शुक्तिः शङ्खनखे शङ्खे मुक्तास्फोटेऽपि कम्बुनि ॥ ६१ ॥
17.2.61 · p. 129
अनुष्टुप्
दीर्घकोशीयावर्त्ते कपालशकले स्त्रियाम् ।शुक्तोऽम्ले कर्कशे पूते शास्त्रावघृतयोः श्रुतम् ॥ ६२ ॥
17.2.62 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 शी (syllables merged)
श्रुतिः श्रोत्रे च वेदे च वार्तायां श्रौतकर्म्मणि ।श्वेतं रूप्यं त्रिषु सिते श्वेतो द्वीपाद्रिभेदयोः ॥ ६३ ॥
17.2.63 · p. 130
अनुष्टुप्
श्वेता वराटिकायां स्याच्छङ्खिन्यां काष्ठपाटलौ ।सत्साधौ विद्यमानेऽपि प्रशस्ते पूजिते त्रिषु ॥ ६४ ॥
17.2.64 · p. 130
अनुष्टुप्
सती साध्वीचण्डिकयोः सत्तु सत्येऽभिधेयवत् ।सातिर्दानेवसानेऽपि सितं श्वेतसमाप्तयोः ॥ ६५ ॥
17.2.65 · p. 130
अनुष्टुप्
त्रिषु ज्ञातेऽपि बद्धेऽपि शर्करायां सिता मता ।सीता तु जानकीव्योमगङ्गालाङ्गलवर्त्त्मसु ॥ ६६ ॥
17.2.66 · p. 130
अनुष्टुप्
सुतस्तु पार्थिवे पुत्रे सुप्तिर्विश्वासघातिनि ।स्वापे स्पर्शाज्ञतायां च सुखस्वापे सुपूर्विका ॥ ६७ ॥
17.2.67 · p. 130
अनुष्टुप्
सूतस्तु पारदे तक्ष्णि सूतः सारथिबन्दिनोः ।प्रसूते प्रेरिते सूतः क्षत्रियाद्ब्राह्मणीसुते ॥ ६८ ॥
17.2.68 · p. 131
अनुष्टुप्
सृतिः स्त्री गमने मार्गे कुपूर्वा निकृतौ सृतिः ।सेतुर्न्नालौ च वरुणे स्थितमूर्द्ध्वेऽपि संस्थिते ॥ ६९ ॥
17.2.69 · p. 131
अनुष्टुप्
निश्चिते सप्रतिज्ञेऽपि गत्यभावे तु न द्वयोः ।मर्यादायामवस्थाने स्थाने सीमनि च स्थितिः ॥ ७० ॥
17.2.70 · p. 131
अनुष्टुप्
स्मृतिस्तु धर्मशास्त्रे स्यात् स्मरणे धीच्छयोरपि ।संततौ सीवने स्यूतिः स्यूतः क्षतप्रसेवयोः ॥ ७१ ॥
17.2.71 · p. 131
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्ष (wrong syllable)
स्वान्तं नपुंसकं वित्ते स्वान्तं स्यादपि गह्वरे ।द्वयोस्तु हस्तो नक्षत्रे हस्तः करिकरे करे ॥ ७२ ॥
17.2.72 · p. 131
अनुष्टुप्
सप्रकोष्ठाततकरे हस्तः केशात्परश्चये ।हितं गते धृते पथ्ये हेतिर्ज्वालार्कतेजसोः ॥ ७३ ॥
17.2.73 · p. 131
अनुष्टुप्
स्त्रियां शस्त्रेप्यथ क्षत्ता सारथिद्वाःस्थधातृषु ।भुजिष्यजे नियुक्ते च शूद्राच्च क्षत्रियासुते ॥ ७४ ॥
17.2.74 · p. 132
अनुष्टुप्
क्षमायां तु मता क्षान्तिः क्षान्तिः स्यान्नियमेऽपि च ।क्षितिः पृथिव्यां वासे च स्थानमात्रे क्षये क्षितिः ॥ ७५ ॥
17.2.75 · p. 132
अनुष्टुप्