कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

दान्तवर्गः · दचतुर्थम्

दचतुर्थम् ।

अपवादस्तु निद्रायामाज्ञाविश्वासयोरपि ॥ ४० ॥
19.4.40 · p. 173
अभिष्यन्दो विवृद्धौ स्यादास्तावे लोचनामये ।अभिमर्द्दस्तु पुंस्येव रणमन्थानदण्डयोः ॥ ४१ ॥
19.4.41 · p. 174
अनुष्टुप्
अष्टापदं शारिफले क्लीबमस्त्री तु काञ्चने ।शरभे मर्कटे पुंसि चन्द्रमल्ल्यां स्त्रियामपि ॥ ४२ ॥
19.4.42 · p. 174
अनुष्टुप्
एकपदं स्यात्तत्काले क्लीबमेकपदी पथि ।कटुकन्दः पुमान् शृङ्गवेरे शिग्रुरसोनयोः ॥ ४३ ॥
19.4.43 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 क (wrong syllable)
कुरुविन्दस्तु मुस्तायां कुल्माषव्रीहिभेदयोः ।कुरुविन्दं तु मुकुरे पद्मरागे च हिङ्गुले ॥ ४४ ॥
19.4.44 · p. 174
अनुष्टुप्
क्लीबं कोकनदं रक्तकैरवे रक्तपङ्कजे ।चक्रबुन्दस्तु भाकूटे पृष्ठशृङ्गे मृषान्तरे ॥ ४५ ॥
19.4.45 · p. 174
अनुष्टुप्
चतुष्पदो गवाश्वादिपशौ स्त्रीकरणान्तरे ।पुमाञ्जनपदो देशे तथा जनपदो जने ॥ ४६ ॥
19.4.46 · p. 174
अनुष्टुप्
तमोनुदस्तमोनुच्च चन्द्रसूर्यकृशानुषु ।परीवादोऽपवादे स्याद्वीणावादनवस्तुनि ॥ ४७ ॥
19.4.47 · p. 175
अनुष्टुप्
पृष्ठमर्द्दोऽतिधृष्टे स्यान्नाट्योक्त्यां नायकप्रिये ।पुटभेदो नदीवक्रे नगरातोद्ययोरपि ॥ ४८ ॥
19.4.48 · p. 175
अनुष्टुप्
प्रतिपत्तु स्त्रियामाद्यतिथौ संविदि सा स्मृता ।प्रियंवदः खेचरे स्यात्प्रियवाचि तु वाच्यवत् ॥ ४९ ॥
19.4.49 · p. 175
अनुष्टुप्
महानादो महाशब्दे वर्षुकाब्दे शयानके ।गजे च मुचुकुन्दस्तु मुनिदैत्यद्रुमान्तरे ॥ ५० ॥
19.4.50 · p. 175
अनुष्टुप्
मेघनादो दशग्रीवसुते पश्चिमदिक्पतौ ।विशारदः पण्डिते स्यात्त्रिषु धृष्टे विशारदः ॥ ५१ ॥
19.4.51 · p. 175
अनुष्टुप्
पृत्वाकूटे प्रपञ्चे च मृगे शूके पदे मतम् ।समर्यादं समीपे स्यान्मर्यादिन्यपि वाच्यत् ॥ ५२ ॥
19.4.52 · p. 175
अनुष्टुप्metre not read in every linenearly अनुष्टुप्