All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
हान्तवर्गः · हद्वितीयम्
हद्विवीयम् ।
अहिर्वृत्राऽसुरे सर्प्पे स्यादीहा तूद्यमेच्छयोः ॥ १ ॥
34.2.1 · p. 396
नष्टेन्दुकलादर्शेपि पिकालापे स्त्रियां कुहूः ।गह्वरे सिंहपुष्प्यां च गुहा स्कन्दे गुहः पुमान् ॥ २ ॥
34.2.2 · p. 396
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ला (wrong syllable)
गृहाः पुंसि गृहे पत्न्यां ग्राहो जलचरे पुमान् ।ग्रहः सूर्यादिनिर्बन्धोपरागेषु रणोद्यमे ॥ ३ ॥
34.2.3 · p. 396
अनुष्टुप्
ग्रहणे पूतनादौ च सैंहिकेयेऽप्यनुग्रहे ।नाहस्तु बन्धने कूटेऽप्युपाद्वैरानुबन्धने ॥ ४ ॥
34.2.4 · p. 396
अनुष्टुप्
प्राहो निपुणतर्केऽपि प्रौहो हस्त्यांघ्रिपर्वणोः ।बहुः स्यात्त्र्यादिसंख्यासु बहुः स्याद्विपुलेऽन्यवत् ॥ ५ ॥
34.2.5 · p. 396
अनुष्टुप्
वाहावाहौ हये वाहौ वाहः स्याद्वृषमानयोः ।मही क्षितौ च नद्यां च मह उत्सवतेजसोः ॥ ६ ॥
34.2.6 · p. 397
अनुष्टुप्
मोहो मूढत्वमात्रेऽपि स्यादहम्मतिमूर्च्छयोः ।लोहस्तु शस्त्रे लोहं तु जोङ्गके सर्वतैजसे ॥ ७ ॥
34.2.7 · p. 397
अनुष्टुप्
वर्हं मयूरपिच्छेऽपि दलेऽपि स्यान्नपुंसकम् ।वहो गन्धवहे स्कन्धदेशे स्याद्वृषभस्य च ॥ ८ ॥
34.2.8 · p. 397
अनुष्टुप्
व्यूहस्तु बलविन्यासे वृन्दे निर्माणतर्कयोः ।सहो बले च भूम्यां तु मुद्गपर्ण्यां नखौषधे ॥ ९ ॥
34.2.9 · p. 397
अनुष्टुप्
सहदेवाकुमार्योश्च सहः क्षान्तियुते त्रिषु ।सिंहः कण्ठीरवे राशिभेदे श्रेष्ठे परस्थितः ॥ १० ॥
34.2.10 · p. 397
अनुष्टुप्
सिंही बृहत्यां वार्त्ताकौ राहुमातरि वासके ।
34.2.11 · p. 397