कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

खान्तवर्गः · खचतुर्थम्

खचतुर्थम् ।

भवेदग्निमुखो देवे द्विजे पावकसम्भवे ।भल्लातके त्वग्निमुखी क्वचिदग्निमुखोऽपि च ॥ १३ ॥
2.4.13 · p. 45
अनुष्टुप्
लाङ्गलिक्यां त्वग्निशिखा कुङ्कुमेऽग्निशिखं स्मृतम् ।इन्दुलेखा शशिकलाऽमृतासोमलतास्वपि ॥ १४ ॥
2.4.14 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्व (wrong syllable)
पुंसि पञ्चनखः कूर्मे गजे गौधादिषु क्वचित् ।बद्धशिखोच्चटायां स्याद्बाले बद्धशिखस्त्रिषु ॥ १५ ॥
2.4.15 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 शि (wrong syllable)
महाशङ्खो नरास्थि स्यान्निधिसङ्ख्याप्रभेदयोः ।शिलीमुखो भवेद्भृङ्गे मार्गणे च शिलीमुखः ॥ १६ ॥
2.4.16 · p. 46
अनुष्टुप्