कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

वान्तवर्गः · वचतुर्थम्

वचतुर्थम् ।

अनुभावः प्रभावे स्यान्निश्चये भावसूचके ।अपह्नवोऽपलापेऽपि पुंसि स्नेहेऽप्यपह्नवः ॥ ५६ ॥
30.5.56 · p. 368
अनुष्टुप्
स्नानेऽपि मद्यसन्धाने यज्ञे चाभिषवः पुमान् ।आदीनवस्तु दोषे स्यात्परिक्लिष्टदुरन्तयोः ॥ ५७ ॥
30.5.57 · p. 369
अनुष्टुप्
उत्पाते विप्लवे चैव सैंहिकेयेऽप्युपप्लवः ।वल्मीकजन्मनि नटे याचके च कुशीलवः ॥ ५८ ॥
30.5.58 · p. 369
अनुष्टुप्
एकयोक्त्या मतौ रामपुत्रयोश्च कुशीलवौ ।जलबिल्वो मतः कूर्म्मे कर्क्कटे जलचत्वरे ॥ ५९ ॥
30.5.59 · p. 369
अनुष्टुप्
जीवंजीवश्चकोरे स्यात्पक्षिभेदे द्रुमान्तरे ।दोलाजीवो वार्द्धुषिके मिथ्याज्ञानप्रहर्षिते ॥ ६० ॥
30.5.60 · p. 369
अनुष्टुप्
धामार्गवस्त्वपामार्गे देवदाल्यामपि स्मृतः ।चञ्चले व्याकुलेऽपि स्याद्वाच्यलिङ्गः परिप्लवः ॥ ६१ ॥
30.5.61 · p. 369
अनुष्टुप्
पराभवस्तिरस्कारे विनाशे च पराभवः ।मतः पारशवः पारस्त्रैणे शूद्रासुते द्विजात् ॥ ६२ ॥
30.5.62 · p. 369
अनुष्टुप्
शस्त्रेऽप्यथ पुटग्रीवो गर्गरीताम्रकुम्भयोः ।वार्द्धुषिके वलदेवः स्याद्बलदेवो बलेऽनिले ॥ ६३ ॥
30.5.63 · p. 370
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रोहिताश्वो हरिश्चन्द्रतनये जातवेदसि ।शैलेये सैन्धवे क्लीबं मिश्यां शीतशिवः पुमान् ॥ ६४ ॥
30.5.64 · p. 370
अनुष्टुप्
सहदेवा बलादण्डोत्पलयोः शारिवौषधौ ।सहदेवी भुजङ्गाक्ष्यां सहदेवस्तु पाण्डवे ॥ ६५ ॥
30.5.65 · p. 370
अनुष्टुप्