कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

चान्तवर्गः · चतृतीयम्

चतृतीयम् ।

अवीचिर्नरके घूर्मिविरहे घूर्मिवर्जिते ।भवेदुदक् त्रिषूदीच्ये दिग्देशकालतोऽव्ययम् ॥ १४ ॥
6.3.14 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
कणीचिः पुष्पितलतागुञ्जयोः शकटेऽपि च ।कवचो वारवाणे स्यात्पटहे गर्दभाण्डके ॥ १५ ॥
6.3.15 · p. 62
अनुष्टुप्
क्रकचः करपत्रेऽपि ग्रन्थिलाख्यमहीरुहे ।नमुचिर्मदने दैत्ये नाराचो जलहस्तिनि ॥ १६ ॥
6.3.16 · p. 63
अनुष्टुप्
लोहबाणेऽपि नाराचो नाराची स्यात्तुलान्तरे ।प्रत्यक् प्रतीच्ये दिग्देशकाले तु मतमव्ययम् ॥ १७ ॥
6.3.17 · p. 63
अनुष्टुप्
स्यात्प्रपञ्चस्तु विस्तारे सञ्चये च प्रतारणे ।मरीचिर्नाद्ययोर्दीप्तौ मुनौ ना कृपणेऽपि च ॥ १८ ॥
6.3.18 · p. 63
अनुष्टुप्
मारीचो याजकद्विजे कक्कोले राक्षसान्तरे ।मरीचो देवताभेदे प्रफुल्ले विकचस्त्रिषु ॥ १९ ॥
6.3.19 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्वि (wrong syllable)
केशशून्ये च ह्रीके तु पुंसि केतुग्रहेऽपि च ।विपञ्ची वल्लकीकेल्योः सङ्कोचं कुङ्कमे मतम् ॥ २० ॥
6.3.20 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
सङ्कोचो मत्स्यभेदेऽपि सङ्कोचो बन्धनेऽपि च ।सत्यवत्सत्ययोः सम्यक् सम्यक् सङ्गतहृद्ययोः ॥ २१ ॥
6.3.21 · p. 63
अनुष्टुप्