All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
अव्ययानि · तान्तानि
त०
त्वति स्तुतौ ।नितान्ताऽसंप्रतिक्षेपप्रकर्षे लङ्घनेप्यति ॥ १७ ॥
36.8.17 · p. 408
अनुष्टुप्metre not read in every line
अतोऽपदेशे निर्देशे पञ्चम्यन्ते च कारणे ।अन्ततः शासने पंचम्यर्थे सम्भावनाङ्गयोः ॥ १८ ॥
36.8.18 · p. 409
अनुष्टुप्
अस्तु स्यादभ्यनुज्ञानेऽप्यसूयामात्रयोरपि ।अहोबत मतं खेदे सम्बुद्धौ चानुकम्पने ॥ १९ ॥
36.8.19 · p. 409
अनुष्टुप्
अहोबताद्भुतेऽपि स्यादाराद्दूरसमीपयोः ।इतस्तु पञ्चम्यर्थे स्यादिते नियमभागयोः ॥ २० ॥
36.8.20 · p. 409
अनुष्टुप्
इति हेतौ प्रकारे च प्रकाशाद्यनुकर्षयोः ।इति प्रकरणेऽपि स्यात्समाप्तौ च निदर्शने ॥ २१ ॥
36.8.21 · p. 409
अनुष्टुप्
उत प्रश्ने वितर्केर्थेऽप्युतात्यर्थविकल्पयोः ।किन्तु स्यात्प्रश्नमात्रेऽपि किन्तु कामवितर्कयोः ॥ २२ ॥
36.8.22 · p. 409
अनुष्टुप्
किमुताऽतिशये प्रश्ने विकल्पार्थेऽपि कीर्त्तितः ।कुतः स्यान्निह्नुते प्रश्ने पञ्चम्यर्थे कुतः स्मृतम् ॥ २३ ॥
36.8.23 · p. 409
अनुष्टुप्
ते तवार्थे त्वयार्थे च मे च मममयार्थयोः ।तु पादपूरणे भेदाऽवधारणसमुच्चये ॥ २४ ॥
36.8.24 · p. 410
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 च (wrong syllable)
पक्षान्तरे नियोगे च प्रशंसायां विनिग्रहे ।तत आदौ परिप्रश्ने पञ्चम्यर्थे कथान्तरे ॥ २५ ॥
36.8.25 · p. 410
अनुष्टुप्
आनन्तर्येऽपि तावत्तु कार्त्स्न्ये मानावधारणे ।परिच्छदे तु पश्चात्तु प्रतीच्यां चरमेऽपि च ॥ २६ ॥
36.8.26 · p. 410
अनुष्टुप्
पुरस्तात्प्रथमे प्राच्यामग्रतोऽर्थपुरार्थयोः ।प्रति स्यात्प्रतिदाने च प्रति प्रतिनिधावपि ।प्रधाने सम्भवे वीप्सालक्षणादौ प्रयोगतः ॥ २७ ॥
36.8.27 · p. 410
अनुष्टुप्
मात्रार्थे चाभिमुख्ये च प्रकाशे च स्मृतं प्रति ।बत खेदे कृपानिन्दासन्तोषाऽऽमन्त्रणाद्भुते ॥ २८ ॥
36.8.28 · p. 410
अनुष्टुप्
यतःशब्दस्तु नियमे पञ्चम्यर्थविभागयोः ।यद्वत्प्रश्ने वितर्के च यावन्मानेऽवधारणे ॥ २९ ॥
36.8.29 · p. 410
अनुष्टुप्
सीम्नि कार्त्स्न्ये परिच्छेदे शश्वत्पुनःसहार्थयोः ।स्वित्प्रश्ने च वितर्के च सकृत्सहैकवारयोः ॥ ३० ॥
36.8.30 · p. 411
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त्पु (wrong syllable); pāda 4, syllable 3 त्स (wrong syllable)
युक्तार्थे बहुमात्रार्थेप्यधुनार्थेऽपि सम्प्रति ।प्रत्यक्षवाचकः साक्षात्साक्षात्तुल्यार्थवाचकः ॥ ३१ ॥
36.8.31 · p. 411
अनुष्टुप्
स्वस्त्याशीःक्षेमपुण्येषु मतं स्वस्ति सुखादिषु ।हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ ३२ ॥
36.8.32 · p. 411
अनुष्टुप्
विवादे शोभनार्थे च हन्तशब्दः प्रयुज्यते ।
36.8.17 · p. 411