All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
वान्तवर्गः · वतृतीयम्
वतृतीयम् ।
अभावः स्यादसत्तायामभावो मरणेऽपि च ।अक्षीवस्त्रिष्वमन्दे स्यादक्षीवोऽवसरे पुमान् ॥ २९ ॥
30.4.29 · p. 364
अनुष्टुप्
आर्त्तवं पुष्परजसोः समुद्भूते तु वाच्यवत् ।आश्रवः स्यात्प्रतिज्ञायां क्लेशेऽपि वचनस्थिते ॥ ३० ॥
30.4.30 · p. 364
अनुष्टुप्
आहवस्तु पुमान्यागे सङ्गरेऽप्याहवस्तथा ।उत्सवो मह उत्सेध इच्छाप्रसरकोपयोः ॥ ३१ ॥
30.4.31 · p. 364
अनुष्टुप्
उद्धवस्तूत्सवे कृष्णमातुले यज्ञपावके ।कारवी दीप्यमधुरात्वक्पत्रीकृष्णजीरके ॥ ३२ ॥
30.4.32 · p. 364
अनुष्टुप्
कितवः पुंसि धुस्तूरे मत्तवञ्चकयोरपि ।पुन्नागे माधवे पुंसि केशाढ्ये त्रिषु केशवः ॥ ३३ ॥
30.4.33 · p. 365
अनुष्टुप्
कैतवं तु छले द्यूते कैरवः शत्रुधूर्त्तयोः ।कैरवं कुमुदे क्लीबं चन्द्रिकायां तु कैरवी ॥ ३४ ॥
30.4.34 · p. 365
अनुष्टुप्
कौट्टवी चण्डिकायां स्यात्तथा नग्नस्त्रियामपि ।गाण्डीवगाण्डिवौ न स्त्री कार्मुकेऽर्जुनकार्मुके ॥ ३५ ॥
30.4.35 · p. 365
अनुष्टुप्
गालवस्तु मुनौ लोध्रे ताण्डवं तृणनृत्ययोः ।स्वर्गेऽन्तरिक्षे त्रिदिवस्त्रिदिवा सरिदन्तरे ॥ ३६ ॥
30.4.36 · p. 365
अनुष्टुप्
दीदिविस्त्रिदशाचार्ये भवेदन्नेऽपि दीदिविः ।द्विजिह्वः पन्नगे पुंसि सूचके त्वभिधेयवत् ॥ ३७ ॥
30.4.37 · p. 365
अनुष्टुप्
निष्पावः शूर्प्पपवने पचने च कडङ्गरे ।निष्पावो निर्विकल्पेऽपि शिम्बिकाराजमाषयोः ॥ ३८ ॥
30.4.38 · p. 365
अनुष्टुप्
अपलापेऽपि निकृतावविश्वासेऽपि निह्नवः ।पञ्चत्वं स्यात्तु पञ्चानां भावेऽपि निधनेऽपि च ॥ ३९ ॥
30.4.39 · p. 365
अनुष्टुप्
पल्लवो विस्तरे खङ्गे शृङ्गारेलक्तरागयोः ।चलेऽप्यस्त्री तु किसले विटपेऽपि च पल्लवः ॥ ४० ॥
30.4.40 · p. 366
अनुष्टुप्
तुगायां पार्थिवी भूपे पुमान्भूविकृतौ त्रिषु ।पुङ्गवो वृषभे श्रेष्ठे गवोमेषजलान्तरे ॥ ४१ ॥
30.4.41 · p. 366
अनुष्टुप्
प्रभवो जन्महेतौ स्यादपांमूले पराक्रमे ।प्रभवः किंवदन्तीनां सञ्चारगतिकारके ॥ ४२ ॥
30.4.42 · p. 366
अनुष्टुप्
आद्योपलब्धये स्थाने प्रभावः शक्तितेजसोः ।प्रसवो गर्भमोक्षे स्याद्वृक्षाणां फलपुष्पयोः ॥ ४३ ॥
30.4.43 · p. 366
अनुष्टुप्
परंपराप्रसङ्गे च लोकोत्पादे च पुत्रयोः ।प्रसेवो वल्लकीवाद्यकाष्ठे स्यूतेऽपि दृश्यते ॥ ४४ ॥
30.4.44 · p. 366
अनुष्टुप्
फेरवो राक्षसे फेरौ वल्लवः सूदगोपयोः ।भीमसेनेऽप्यथ पुमान्बन्धौ सुहृदि बान्धवः ॥ ४५ ॥
30.4.45 · p. 366
अनुष्टुप्
भार्गवः शुक्रगजयोः परशुरामे सुधन्वनि ।भार्गवी पार्वतीलक्ष्मीसितदूर्वासु सम्मता ॥ ४६ ॥
30.4.46 · p. 367
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 पर (syllable split)
भैरवः पुंसि भर्गे स्याद्भैरवं भीषणे त्रिषु ।माधवः केशवे राधे वसन्तेऽथ माधवी ॥ ४७ ॥
30.4.47 · p. 367
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मधूत्थशर्क्करामद्यकुट्टनीष्वतिमुक्तके ।राघवस्तु महामीनप्रभेदे रघुवंशजे ॥ ४८ ॥
30.4.48 · p. 367
अनुष्टुप्
राजीवो मत्स्यमृगयोस्त्रिषु राजोपजीविनि ।क्लीबं पद्मे रौरवस्तु नरके त्रिषु भैरवे ॥ ४९ ॥
30.4.49 · p. 367
अनुष्टुप्
वडवाऽश्वाकुम्भदास्योः स्त्रीविशेषे द्विजस्त्रियाम् ।वाडवा वडवासङ्घे स्त्रीणां च करणान्तरे ॥ ५० ॥
30.4.50 · p. 367
अनुष्टुप्
पाताले न स्त्रियामौर्वं विप्रे च नरि वाडवः ।पद्रवोऽपक्रमे बुद्धौ विभवो निर्वृतौ घने ॥ ५१ ॥
30.4.51 · p. 367
अनुष्टुप्
विभावः स्यात्परिचये कामस्योद्दीपनेऽपि च ।शत्रूणां भावसंहत्योः शात्रवं शात्रवो द्विषि ॥ ५२ ॥
30.4.52 · p. 368
अनुष्टुप्
सुषवी कारवेल्ले स्याज्जीरके कृष्णजीरके ।षाडवस्तु रसे नागेऽप्याशुव्रीहिप्रसूनयोः ॥ ५३ ॥
30.4.53 · p. 368
अनुष्टुप्
नौकायां वासने चाथ सचिवो भृत्यमन्त्रिणोः ।सम्भवः स्मृत उत्पत्तौ हेतौ सत्त्वे च मेलके ॥ ५४ ॥
30.4.54 · p. 368
अनुष्टुप्
आधारानतिरक्तत्वे आधेयस्य च सम्भवः ।सुग्रीवो वानरपतौ चारुग्रीवे तु वाच्यवत् ॥ ५५ ॥
30.4.55 · p. 368
अनुष्टुप्
सैन्धवो माणिमन्थेऽश्वे सिन्धुदेशभवे त्रिषु ।
30.4.28 · p. 368