All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
जान्तवर्गः · जतृतीयम्
जतृतीयम् ।
अङ्गजः केशकन्दर्पे पदे पुत्रे गदे स्वजे ॥ १६ ॥
8.3.16 · p. 68
अङ्गजं रुधिरेऽथ स्यादण्डजः पक्षिमीनयोः ।कृकलासे भुजङ्गे च कस्तूर्यामण्डजाऽपि च ॥ १७ ॥
8.3.17 · p. 69
अनुष्टुप्
अम्बुजो निचुले पुंसि क्लीबं तु सरसीरुहे ।कम्बोजो देशमातङ्गशंखभेदेषु देशितः ॥ १८ ॥
8.3.18 · p. 69
अनुष्टुप्
करजस्तु करञ्जे स्यादपि व्याघ्रनखे नखे ।काम्बोजः सोमवल्के स्याच्छङ्खपुन्नागवाजिषु ॥ १९ ॥
8.3.19 · p. 69
अनुष्टुप्
माषपर्णीहिङ्गुपर्ण्योः काम्बोजी तद्भवे त्रिषु ।कारुजः शिल्पिनां चित्रे स्वयञ्जाततिलेऽपि च ॥ २० ॥
8.3.20 · p. 69
अनुष्टुप्
वल्मीके गैरिके फैने कलभे नागकेशरे ।कुटजः शाखिनाम्भेदे स्याद्द्रोणे कुम्भसम्भवे ॥ २१ ॥
8.3.21 · p. 69
अनुष्टुप्
गिरिजा शैलतनयामातुलिङ्ग्योरुदाहृता ।गिरिजं त्वभ्रके लौहे शिलाजतुसुगन्धयोः ॥ २२ ॥
8.3.22 · p. 69
अनुष्टुप्
जलजं पङ्कजे शङ्खे नीरजं पद्मकुष्ठयोः ।परञ्जस्तैलयन्त्रासिफेनेषु छुरिकाफले ॥ २३ ॥
8.3.23 · p. 70
अनुष्टुप्
वणिक् पुंस्येव वाणिज्यजीवके करणान्तरे ।वाणिज्ये तु वणिक् स्त्रीत्वे वलजा वल्गयोषिति ॥ २४ ॥
8.3.24 · p. 70
अनुष्टुप्
क्षितौ तु वलजं तु स्यात्क्षेत्रसस्यादिगोपुरे ।स्याद्भूमिजा तु जानक्यां भूमिजो नरके कुजे ॥ २५ ॥
8.3.25 · p. 70
अनुष्टुप्
वनजा मुद्गपर्ण्यां स्याद् वनजो गजमुस्तयोः ।वनजं पङ्कजे क्लीबं वाच्यवद्वनसम्भवे ॥ २६ ॥
8.3.26 · p. 70
अनुष्टुप्
बाहुजः क्षत्रिये ख्यातः स्वयञ्जाततिले शुके ।सहजस्तु निसर्गे स्यात्सहजातेऽन्यलिङ्गकः ॥ २७ ॥
8.3.27 · p. 70
अनुष्टुप्
सामजः सामसम्भूते वाच्यलिङ्गः पुमान् गजे ।हिमजा पार्वतीशच्योर्मैनाके हिमजः पुमान् ॥ २८ ॥
8.3.28 · p. 70
अनुष्टुप्