All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
हान्तवर्गः · हतृतीयम्
हतृतीयम् ।
आरोहस्तु नितम्बे स्याद्दीर्घत्वे च समुच्छ्रये ॥ ११ ॥
34.3.11 · p. 397
अवरोहे हस्तिपके मानारोहणयोरपि ।उत्साहस्तूद्यमे सूत्रतन्तावपि पुमानयम् ॥ १२ ॥
34.3.12 · p. 398
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ह (wrong syllable)
कटाहो घृततैलादिपाकामत्रेऽपि कर्परे ।दीपेऽपि कूर्म्मपृष्ठेऽपि कटाहो महिषीशिशौ ॥ १३ ॥
34.3.13 · p. 398
अनुष्टुप्
कलहो भण्डने युद्धे खड्गकोषे वराटके ।दात्यूहः कालकण्ठेऽपि तथा वन्दिविहङ्गमे ॥ १४ ॥
34.3.14 · p. 398
अनुष्टुप्
नवाहो नूतनदिने नवाहः प्रतिपत्तिथौ ।निग्रहो भर्त्सने बन्धे मर्यादायां च निग्रहः ॥ १५ ॥
34.3.15 · p. 398
अनुष्टुप्
निर्यूहो द्वारि निर्यासे शिखरे नागदन्तके ।निरूहो बस्तिभेदे स्यात्तर्क्कनिश्चितयोरपि ॥ १६ ॥
34.3.16 · p. 398
अनुष्टुप्
पटहस्तु समारम्भे न स्त्री पटहमानके ।प्रग्रहस्तु तुलासूत्रे बन्धे च नियमे भुजे ॥ १७ ॥
34.3.17 · p. 398
अनुष्टुप्
रश्मौ हयादिरश्मौ च वन्द्यां स्वर्णालुनीपयोः ।प्रग्राहस्तु तुलासूत्रे वर्षादिप्रग्रहेऽपि च ॥ १८ ॥
34.3.18 · p. 399
अनुष्टुप्
प्रवाहो जलवेगे स्यात्पारंपर्यानुवर्त्तने ।वराहः किरिमुस्ताद्रिविष्णुमेघेषु मानके ॥ १९ ॥
34.3.19 · p. 399
अनुष्टुप्
वाराही मातृकाबुद्धदेव्योर्गृष्ट्याख्यभेषजे ।कायसङ्ग्रामविस्तारप्रविभागेषु विग्रहः ॥ २० ॥
34.3.20 · p. 399
अनुष्टुप्
विग्रहः स्यात्समासेऽपि विदेहो मिथिले पुमान् ।विदेहा मिथिलायां स्याद्देहशून्येऽपि वाच्यवत् ॥ २१ ॥
34.3.21 · p. 399
अनुष्टुप्
वैदेही रोचनासीतावणिग्योषित्सु पिप्पलौ ।सङ्ग्रहो बृहद्युत्तुङ्गे मुष्टौ सङ्ग्रहणेऽपि च ॥ २२ ॥
34.3.22 · p. 399
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ह (wrong syllable)
सुवहस्तु सुवाते स्यात्पुंसि सम्यग्वहे त्रिषु ।एलापर्ण्यां तु सुवहा सल्लकीरास्नयोपि ॥ २३ ॥
34.3.23 · p. 399
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सुवहा वल्लकीहंसपदीशेफालिकासु च ।
34.3.14 · p. 400