कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

भान्तवर्गः · भैकम्

इति विश्वलोचने बान्तवर्गः ।

अथ भान्तवर्गः ।

भैकम् ।

भा स्यान्मयूषे शुक्रेऽपि पुंसि पुष्पंधये तु भः ।दीप्तौ च स्थानमात्रे भा भं नक्षत्रे भये तु भी ॥ १ ॥
25.1.1 · p. 236
अनुष्टुप्
भूर्भुवि स्थानमात्रेऽपि स्त्रियां भवितरि त्रिषु ।सम्बुद्धावव्ययं भो स्यात्-
25.1.2 · p. 236
अनुष्टुप्metre not read in every line