कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

चान्तवर्गः · चद्वितीयम्

चद्वितीयम् ।

अर्च्चा पूजाप्रतिमयोरुच्चो महति चोन्नते ।कचः केशेऽपि ह्रीबेरे कचो गीष्पतिनन्दने ॥ १ ॥
6.2.1 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
कचः शुष्कव्रणे बन्धे करिण्यां तु कचा स्त्रियाम् ।काचस्तु स्यान्मणौ शिक्ये नेत्ररोगे मृदन्तरे ॥ २ ॥
6.2.2 · p. 60
अनुष्टुप्
काञ्ची तु मेखलादाम्नि नीवृदन्तरगुञ्जयोः ।कूर्चमस्त्री भ्रुवोर्मध्ये शोथश्मश्रुविकत्थने ॥ ३ ॥
6.2.3 · p. 60
अनुष्टुप्
क्रौञ्चस्तु पक्षिभेदे स्यान्नगद्वीपप्रभेदयोः ।चञ्चो नालादिनिर्माणे चञ्चा तु तृण पूरुषे ॥ ४ ॥
6.2.4 · p. 61
अनुष्टुप्
चञ्चुः पञ्चाङ्गुले त्रोट्यां गोनाडीचकलिञ्चयोः ।चर्चा तु स्थासके तर्के चर्चिकाचिन्तयोस्तले ॥ ५ ॥
6.2.5 · p. 61
अनुष्टुप्
त्वक् स्त्रियां वल्कलेऽपि स्याच्चर्ममात्रे गुडत्वचि ।नीचस्तु पामरे निम्ने वामनेऽप्यभिधेयवत् ॥ ६ ॥
6.2.6 · p. 61
अनुष्टुप्
न्यग्निम्ने पामरे कार्त्स्न्ये पिचुः स्यात्पुंसि तूलके ।कृष्णे दैत्यान्तरे कर्षे भैरवस्याननान्तरे ॥ ७ ॥
6.2.7 · p. 61
अनुष्टुप्
प्राक् प्राच्ये वाच्यवत् काले दिग्देशे त्वव्ययं मतम् ।मोचः सौभाञ्जने पुंसि मोचा शाल्मलिरम्भयोः ॥ ८ ॥
6.2.8 · p. 61
अनुष्टुप्
रुचिरिच्छा रुचा रुक्ता शोभाभिष्वङ्गयोरपि ।रुक् शोभायां च किरणे स्त्रियामपि मनोरथे ॥ ९ ॥
6.2.9 · p. 61
अनुष्टुप्
वचः शुके वचा तूग्रगन्धासारिकयोः स्त्रियाम् ।वाग्भारतीगिरोर्वीचिर्द्वयोः स्वल्पतरङ्गयोः ॥ १० ॥
6.2.10 · p. 62
अनुष्टुप्
अवकाशे सुखे चाथ शचीन्द्राणी शतावरी ।शुचिः पुंस्युपधाशुद्धमन्त्रिण्याषाढवर्हिषोः ॥ ११ ॥
6.2.11 · p. 62
अनुष्टुप्
शृङ्गारग्रीष्मयोः श्वेतमध्यानुपहते त्रिषु ।सूची कराद्यभिनये वेधनीशिखयोरपि ॥ १२ ॥
6.2.12 · p. 62
अनुष्टुप्
सूची सीमन्तिनीनां च कथिता करणान्तरे ॥ १३ ॥
6.2.13 · p. 62