कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

यान्तवर्गः · यपञ्चमम्

यपञ्चमम् ।

कालानुसार्यं कालेये शैलेये शिंशपाद्रुमे ।मतं तु दुग्धतालीयं दुग्धाम्रे दुग्धफेनके ॥ १४० ॥
27.5.140 · p. 276
अनुष्टुप्
स्याद्दुग्धचमसेऽप्येतत्खण्डकीटे पुमानयम् ।त्रिषु प्रवचनीयं स्यात्प्रवाच्येऽपि प्रवक्तरि ॥ १४१ ॥
27.5.141 · p. 276
अनुष्टुप्
वृषाकपायी श्रीगौरीजीवन्तीषु शतावरौ ।
27.5.3 · p. 276