कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

नान्तवर्गः · नतृतीयम् (2/2)

सूचनाऽभिनये दृष्टौ गन्धने व्यधनेऽपि च ।सेचनं सेकपात्रे स्यात्सेकरक्षणयोरपि ॥ १४८ ॥
21.3.148 · p. 209
अनुष्टुप्
सेनापतौ तु सेनानीः सैनानीः शरजन्मनि ।सेवनं सीवने क्लीबं सेवायामपि सेवनम् ॥ १४९ ॥
21.3.149 · p. 209
अनुष्टुप्
संस्थानमाकृतौ सन्निवेशे मृत्यौ चतुष्पथे ।स्तननं जलदध्वाने ध्वनिमात्रेऽपि कुञ्चने ॥ १५० ॥
21.3.150 · p. 210
अनुष्टुप्
स्थापनं स्यात्पुंसवने समाधावर्पणेऽपि च ।स्पर्शनः पवने पुंसि स्पर्शनं स्पर्शदानयोः ॥ १५१ ॥
21.3.151 · p. 210
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्पुं (wrong syllable)
स्यन्दनं प्रस्रवे नीरे स्यन्दनस्तिनिशे रथे ।स्रंसनं रेचने पाते पृथग्भावातिसारयोः ॥ १५२ ॥
21.3.152 · p. 210
अनुष्टुप्
स्वामी प्रभौ विशाखे च हली स्यात्कर्षके बले ।अङ्गारधान्यां हसनी हसनं हसिते मतम् ॥ १५३ ॥
21.3.153 · p. 210
अनुष्टुप्
हस्तिनी नायिकाभेदे हस्तिनी हस्तियोषिति ।हायनो वत्सरे न स्त्री व्रीहिभेदार्च्चिषोः पुमान् ॥ १५४ ॥
21.3.154 · p. 210
अनुष्टुप्
हिण्डनं सुरते केलौ ह्रादिनी वज्रविद्युतोः ।
21.3.128 · p. 210