कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

कान्तवर्गः · कतृतीयम् (1/2)

कतृतीयम् ।

अणुको निपुणेऽल्पेऽस्त्री त्वनीकं रणसैन्ययोः ।अनूकं शीलकुलयोरनूकं गतजन्मनि ॥ ३० ॥
1.3.30 · p. 6
अनुष्टुप्
अन्तिकं निकटे चुल्ल्यामन्तिका शातलौषधौ ।नाट्योक्तौ चांतिका ज्येष्ठभगिन्यां परिकीर्तिता ॥ ३१ ॥
1.3.31 · p. 7
अनुष्टुप्
अन्धिका कैतवे सिद्धे शर्वर्यामन्धयोषिति ।अभीको निर्भयक्रूरकविकामिषु वाच्यवत् ॥ ३२ ॥
1.3.32 · p. 7
अनुष्टुप्
अम्बिका पार्वती पाण्डुजननीजननीष्वपि ।तिन्तिडीकाचुक्रिकयोरम्लोद्गारेपि चाऽम्लिका ॥ ३३ ॥
1.3.33 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चु (wrong syllable)
अर्भकस्तु मतो डिम्भे मूर्खे भ्रूणे कृशेपि च ।कुबेरस्यालका पुर्यामलकश्चूर्णकुन्तले ॥ ३४ ॥
1.3.34 · p. 7
अनुष्टुप्
अलर्को धवलार्के स्याद्योगोन्मत्तककुक्कुरे ।अलीकं त्रिदिवे क्लीबं मिथ्यायामाप्रिये त्रिषु ॥ ३५ ॥
1.3.35 · p. 7
अनुष्टुप्
अशोको वञ्जुले माने द्रुमेऽशोकं तु पारदे ।अशोका कटुरोहिण्यां शोकशून्ये तु वाच्यवत् ॥ ३६ ॥
1.3.36 · p. 7
अनुष्टुप्
आढको मानभेदेऽस्त्री तुवर्यामाढकी स्मृता ।आतङ्को रोगसन्तापशङ्कासु मुरजध्वनौ ॥ ३७ ॥
1.3.37 · p. 8
अनुष्टुप्
आनकः पटहे भेर्यां मृदङ्गे ध्वनदम्बुदे ।आलोको दर्शनेऽपि स्यादुद्योते बंदिभाषणे ॥ ३८ ॥
1.3.38 · p. 8
अनुष्टुप्
आह्निकं दिननिर्वर्त्ये भोजने नित्यकर्मणि ।इक्ष्वाकुः कटुतुंब्यां स्त्री सूर्यान्वयनृपे पुमान् ॥ ३९ ॥
1.3.39 · p. 8
अनुष्टुप्
उदर्क एष्यत्कालीयफले मदनकण्टके ।उलूकः पेचके शक्रे कुरुयोधेऽपि सम्मतः ॥ ४० ॥
1.3.40 · p. 8
अनुष्टुप्
उष्णकस्त्वातुरे तप्ते क्षिप्रकारिनिदाघयोः ।उष्टिका मृत्तिकाभाण्डभेदे करभयोषिति ॥ ४१ ॥
1.3.41 · p. 8
अनुष्टुप्
ऊर्मिका त्वङ्गुलीये स्यात्तरङ्गे मधुपध्वनौ ।ऊर्मिका वस्त्रभङ्गेऽपि तथोद्बाहुलकेऽपि च ॥ ४२ ॥
1.3.42 · p. 8
अनुष्टुप्
अंशुकं सूक्ष्मवसने वस्त्रमात्रोत्तरीययोः ।कञ्चुकः कवचे वाणवारे निर्मोकचोलके ॥ ४३ ॥
1.3.43 · p. 9
अनुष्टुप्
हर्षादात्ताङ्गवस्त्रे च कञ्चुकी त्वौषधान्तरे ।कटकोस्त्री राजधान्यां सानौ सेनानितम्बयोः ॥ ४४ ॥
1.3.44 · p. 9
अनुष्टुप्
वलये सिन्धुलवणे दन्तिदन्तविभूषणे ।कटुकं कुटुरोहिण्यां व्योषेऽपि कटुमात्रके ॥ ४५ ॥
1.3.45 · p. 9
अनुष्टुप्
कटाकुस्तु दुराधर्षे दुःशीले ना विलेशये ।गोधूमचूर्णे कणिकः स्त्रियां सूक्ष्माऽग्निमन्थयोः ॥ ४६ ॥
1.3.46 · p. 9
अनुष्टुप्
कण्टकोऽस्त्री द्रुमाङ्गेऽथ दूषके कर्णिदूषके ।रोमाञ्चे क्षुद्रशत्रौ च मारौ मीनादिकीकसे ॥ ४७ ॥
1.3.47 · p. 9
अनुष्टुप्
कनकं हेम्नि धत्तूरे चम्पके नागकेसरे ।किंशुके काञ्चनारे च कालीयेऽपि क्वचिन्मतम् ॥ ४८ ॥
1.3.48 · p. 9
अनुष्टुप्
करकोऽस्त्री करङ्के स्यात्कुण्ड्या चाथ पुमान्खगे ।कुसुम्भे दाडिमे हस्ते करका तु घनोपले ॥ ४९ ॥
1.3.49 · p. 10
अनुष्टुप्
करङ्कः सस्यसन्त्यक्तनालिकेराऽस्थिमस्तके ।कर्णिका कर्णभूषायां गुवाकादिच्छटांशके ॥ ५० ॥
1.3.50 · p. 10
अनुष्टुप्
करिहस्ताग्रभागे च करमध्याङ्गुलावपि ।नलिनीबीजकोशे च कुट्टिन्यामपि कुत्रचित् ॥ ५१ ॥
1.3.51 · p. 10
अनुष्टुप्
कलङ्कोऽङ्के कालायसमले दोषाऽपवादयोः ।कावृकः कृकवाकौ स्यात्पीतमस्तककोकयोः ॥ ५२ ॥
1.3.52 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ला (wrong syllable)
कामुकः कामिनि ख्यातोऽशोकवृक्षाऽतिमुक्तयोः ।कारकः कर्तरि ज्ञेयः कर्मादौ कारकं मतम् ॥ ५३ ॥
1.3.53 · p. 10
अनुष्टुप्
कारिका विवृतिश्लोके यातनायां कृतावपि ।नटस्त्रियां नापितादिशिल्पे कर्त्र्यां च कारिका ॥ ५४ ॥
1.3.54 · p. 10
अनुष्टुप्
वंशे ना कार्मुकं चापे कर्मशक्ते तु वाच्यवत् ।कालिका चण्डिकायां स्याद्योगिनीभेदकार्ष्ण्ययोः ॥ ५५ ॥
1.3.55 · p. 11
अनुष्टुप्
पश्चाद्दातव्यमूल्ये च पटोलकलतान्तरे ।रोमालीधूमरीमांसीकाकीवृश्चिकपत्रके ॥ ५६ ॥
1.3.56 · p. 11
अनुष्टुप्
घनावलावलं धूमप्रभेदे नवनीरदे ।किम्पाकस्तु महाकालफले मूर्खे च कीचकः ॥ ५७ ॥
1.3.57 · p. 11
अनुष्टुप्
दैत्येवातध्वनिध्वंसे शुष्कवंशे द्रुमान्तरे ।कीटकः कृमिजातौ स्यान्निष्ठुरेऽपि च कीटकः ॥ ५८ ॥
1.3.58 · p. 11
अनुष्टुप्
कुलकस्तु कुलश्रेष्ठे वल्मीके काकतिन्दुके ।कुलकं श्लोकसम्बद्धगुच्छकेऽपि पटोलके ॥ ५९ ॥
1.3.59 · p. 11
अनुष्टुप्
कुलिको नागभेदे स्यात्कुलश्रेष्ठे द्रुमान्तरे ।कुशिकस्तु मुनौ तैलशेषे सर्जे कलिद्रुमे ॥ ६० ॥
1.3.60 · p. 11
अनुष्टुप्
कुषाकु मर्कटे भानौ बृहद्भानौ पुमांस्त्रिषु ।परोत्तापिन्यपि मतं कूर्चिका सूचिकान्तरे ॥ ६१ ॥
1.3.61 · p. 12
अनुष्टुप्
तूलिका क्षीरविकृतिकुञ्चिकाकुड्मलेषु च ।कूपको गुणवृक्षे स्यात्तैलपात्रे कुकुन्दरे ॥ ६२ ॥
1.3.62 · p. 12
अनुष्टुप्
कूपे जलस्थग्रावादौ स्याच्च तुर्या तु कूपिका ।कूलकः पुंसि वल्मीके स्तूपेऽस्त्री कूलकं तटे ॥ ६३ ॥
1.3.63 · p. 12
अनुष्टुप्
कृषकः कर्षके पुंसि फालेऽपि कृषके पुमान् ।पारदारकरक्तेऽपि निःस्वेऽपि त्रिषु कञ्चुकः ॥ ६४ ॥
1.3.64 · p. 12
अनुष्टुप्
कोरकः कुड्मले न स्त्री कक्कोलकमृणालयोः ।कोशाङ्कस्तु करीरे स्यादिक्षौ कीटान्तरेऽपि च ॥ ६५ ॥
1.3.65 · p. 12
अनुष्टुप्
कौतुकं त्वभिलाषेऽपि कुसुमे नर्महर्षयोः ।परम्परासमायाते मङ्गले चातिशायिनि ॥ ६६ ॥
1.3.66 · p. 12
अनुष्टुप्
विवाहसूत्रे विषयाभोगकाले समुत्सवे ।कौशिको गुग्गुलूलूकनकुलेष्वहितुण्डिके ॥ ६७ ॥
1.3.67 · p. 13
अनुष्टुप्
इन्द्रे च विश्वामित्रे च कोशज्ञे चाथ कौशिकी ।चण्डिकायां नदीभेदे क्रमुको भद्रमुस्तके ॥ ६८ ॥
1.3.68 · p. 13
अनुष्टुप्
गुवाकपट्टिकालोध्रकूर्पासब्रह्मदारुषु ।खट्टिकः सौनिकेऽपि स्यान्माहिषक्षीरफेनके ॥ ६९ ॥
1.3.69 · p. 13
अनुष्टुप्
खनकश्चित्ततत्त्वज्ञे सन्धिचौरेऽवदारके ।मूषके खुल्लकस्तु स्यात्स्वल्पे नीचे कनीयसि ॥ ७० ॥
1.3.70 · p. 13
अनुष्टुप्
खोलकः पाकवल्मीकपूगकोशे शिरस्त्रके ।गणिका यूथिकावेश्यातर्कारीकरिणीष्वपि ॥ ७१ ॥
1.3.71 · p. 13
अनुष्टुप्
अग्निमन्थेऽपि गणिका दैवज्ञे गणकः पुमान् ।गण्डकः खड्गिनि ख्यातः सङ्ख्याविद्याप्रभेदयोः ॥ ७२ ॥
1.3.72 · p. 13
अनुष्टुप्
गुह्यको गोपिते यक्षे गृह्यकश्छेकनिघ्नयोः ।गैरिकं धातुभेदे स्याद्धातुमात्रे च काञ्चने ॥ ७३ ॥
1.3.73 · p. 14
अनुष्टुप्
गोरङ्कुः पक्षिजातौ च नग्नके श्रुतिपाठके ।गोलको मणिके जाराद्विधवातनये गुडे ॥ ७४ ॥
1.3.74 · p. 14
अनुष्टुप्
ग्रन्थिकस्तु करीरे स्याद्दैवज्ञे गुग्गुलद्रुमे ।माद्रेयेप्यद्वयोर्ग्रन्थिपर्णीपिप्पलिमूलयोः ॥ ७५ ॥
1.3.75 · p. 14
अनुष्टुप्
ग्राहको घातिविहगे ग्रहीतरि तु वाच्यवत् ।चटकः कलविंकः स्यात्तत्पुत्रीयोषितोः स्त्रियाम् ॥ ७६ ॥
1.3.76 · p. 14
अनुष्टुप्
चतुष्की मशकहर्यां यष्टिकावेश्मभेदयोः ।चुलुकः प्रसृतौ च स्याच्चुलुका भाजनान्तरे ॥ ७७ ॥
1.3.77 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
चषकोऽस्त्री पानपात्रे मधुमद्यप्रभेदयोः ।चारकः पालकेऽश्वादेः स्यात्सञ्चारकबन्धयोः ॥ ७८ ॥
1.3.78 · p. 14
अनुष्टुप्
चित्रकं तिलके क्लीबं वह्निसंज्ञे तु चित्रकः ।एरण्डे चालवाले च चित्रकः श्वापदान्तरे ॥ ७९ ॥
1.3.79 · p. 15
अनुष्टुप्
चीरको विक्रियालेखे झिल्लिकायां तु चीरिका ।चुम्बकः कामुके धूर्ते बहुविद्योपजीवने ॥ ८० ॥
1.3.80 · p. 15
अनुष्टुप्
मतः पुंस्येव चुलुकः प्रसृते भाजनान्तरे ।चुल्लकी शिशुमारे स्यात्कुण्डीभेदे कुलान्तरे ॥ ८१ ॥
1.3.81 · p. 15
अनुष्टुप्
चूतकोऽन्धौ रसाले च कपिपूर्वः कपीतने ।चूलिका नाटकाङ्गे स्यात्कर्णमूले च हस्तिनाम् ॥ ८२ ॥
1.3.82 · p. 15
अनुष्टुप्
जतुकाऽजिनपत्रायां जतुकं हिङ्गुलाक्षयोः ।जनकः स्नातराजर्षौ जनकः करणान्तरे ॥ ८३ ॥
1.3.83 · p. 15
अनुष्टुप्
जम्बुकः फेरवेऽपि स्यान्नीचे पश्चिमदिक्पतौ ।जालकः कोरके दम्भप्रभेदे जालिनीफले ॥ ८४ ॥
1.3.84 · p. 15
अनुष्टुप्
गिरिसारे जलौकायां जालिका विधिवत्स्त्रियाम् ।भटानामश्मरचिताङ्गरक्षिण्यां च जालिका ॥ ८५ ॥
1.3.85 · p. 15
अनुष्टुप्
जाहको घोङ्खमार्जारखजाकातुण्डिकासु च ।जीवको वृक्षभेदे स्यात्प्राणकेऽप्यहितुण्डिके ॥ ८६ ॥
1.3.86 · p. 16
अनुष्टुप्
पीतशाले क्षपणके वृद्धिजीविनि सेवके ।जीविकामाहुराजीवे जीवन्त्यामपि जीविका ॥ ८७ ॥
1.3.87 · p. 16
अनुष्टुप्
झिल्लीका झिल्लिकाऽप्येव विलेपनमले स्मृतः ।चीरिकायामपि भवेदातपस्य च रोचिषि ॥ ८८ ॥
1.3.88 · p. 16
अनुष्टुप्
टुच्छको गन्धकुट्यां स्याद्व्यवहाराऽभ्यवकाशके ।टुण्टुकः शोणकेऽल्पे च क्रूरके त्वभिधेयवत् ॥ ८९ ॥
1.3.89 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 द्व्यव (syllable split)
डिण्डिको नग्नके दार्ये स्त्रीचोरे तु रतात्परः ।डिम्बिका जलबिम्बे स्यात्कोणके कामुकस्त्रियाम् ॥ ९० ॥
1.3.90 · p. 16
अनुष्टुप्
तण्डकोऽस्त्री तरुस्कन्धे समासप्रायवाचिके ।गृहदारौ पुमांस्तु स्यात्फेनखंजनमायिषु ॥ ९१ ॥
1.3.91 · p. 16
अनुष्टुप्
तर्ककः काङ्क्षिणि ख्यातस्तर्केऽर्के गृध्रपक्षिणि ।तक्षको नागभेदे स्याद्वर्द्धकिद्रुमभेदयोः ॥ ९२ ॥
1.3.92 · p. 17
अनुष्टुप्
तारको दैत्यभित्कर्णधारयोर्दशि तारकम् ।ऋक्षे कनीनिकायां च तारकं तारिकाऽपि च ॥ ९३ ॥
1.3.93 · p. 17
अनुष्टुप्
तिलकं द्रुमभेदे च रोगे च तिलकालके ।क्लीबं सौवर्चले क्लोम्नि ललामेऽस्त्री तु चित्रके ॥ ९४ ॥
1.3.94 · p. 17
अनुष्टुप्
तुलकः तुलकायां स्यात्तथा दधिकपक्षिणि ।तुरुष्कः सिह्लके म्लेच्छभेदस्त्रीवासयोरपि ॥ ९५ ॥
1.3.95 · p. 17
अनुष्टुप्
तूलिका चित्रविन्यासलेखन्यां तूलतल्पयोः ।त्रिशंकुर्नुपभेदेऽपि शलभे वृषदंशके ॥ ९६ ॥
1.3.96 · p. 17
अनुष्टुप्
दर्शकस्तु प्रतीहारे दर्शयितृप्रवीणयोः ।दारको भेदकेऽपत्ये कूपके तु विपूर्वकः ॥ ९७ ॥
1.3.97 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 यि (wrong syllable)
दीपको वागलङ्कारे प्रदीपे दीप्तिकारके ।दीप्यकं त्वजमोदे याद्यवानीवर्हिचूडयोः ॥ ९८ ॥
1.3.98 · p. 18
अनुष्टुप्
दूषिका लोचनमले तूलिका च दूषिका ।द्रावकस्तु शिलाभेदे विदग्धे घोषकेऽपि च ॥ ९९ ॥
1.3.99 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
धनिकः साधुधान्याकधवेषु धनिका स्त्रियाम् ।धावको जवके राजगतिकर्मणि योगिनि ॥ १०० ॥
1.3.100 · p. 18
अनुष्टुप्
धेनुका तु भवेद्धेनौ करिपत्नीप्रसूतयोः ।धेनुकं करणे स्त्रीणां धेनुवृन्देऽपि धेनुकम् ॥ १०१ ॥
1.3.101 · p. 18
अनुष्टुप्
नग्नको वन्दिनि ग्रन्थे नग्ने गौर्यां तु नग्निका ।नन्दको हरिखड्गेऽपि हर्षके कुलपालके ॥ १०२ ॥
1.3.102 · p. 18
अनुष्टुप्
नरको निरयेऽपि स्यान्नरको दानवान्तरे ।नर्तकः पोटगलके चारणे केलके नटे ॥ १०३ ॥
1.3.103 · p. 18
अनुष्टुप्
नर्तकी लासिकायां स्यात्करिण्यामपि नर्तकी ।नायको नेतरि श्रेष्ठे हारमध्यमणावपि ॥ १०४ ॥
1.3.104 · p. 19
अनुष्टुप्
नालीकः पिण्डजेऽप्यज्ञे नालीकः शरशल्ययोः ।नालीकं पद्मखण्डेऽपि नाडीकं सरसीरुहे ॥ १०५ ॥
1.3.105 · p. 19
अनुष्टुप्
निपाकः पवने खेदेऽप्यसत्कर्मफलेऽपि च ।निर्मोको व्योम्नि सन्नाहे मोचने सर्पकञ्चुके ॥ १०६ ॥
1.3.106 · p. 19
अनुष्टुप्
वारकोऽश्वे महामात्ये हस्तिसङ्ख्येऽपि नीटकः ।नीलिका नीलिकीक्षुद्ररोगसेफालिकासु च ॥ १०७ ॥
1.3.107 · p. 19
अनुष्टुप्
पताका स्याद्वैजयन्त्यां सौभाग्येङ्गध्वजेऽपि च ।पद्मकं पद्मकोशेऽपि करिबिन्दुषु पङ्कजे ॥ १०८ ॥
1.3.108 · p. 19
अनुष्टुप्
पराको व्रतमात्रेऽपि पराकः शयकेऽपि च ।उभौ पर्यङ्कपल्यङ्कौ वृप्यां पर्यस्तिखण्डयोः ॥ १०९ ॥
1.3.109 · p. 19
अनुष्टुप्
पार्श्वद्वारि सपक्षे च पक्षे पार्श्वे च पक्षकः ।पाटकस्तु महाकिष्कौ वाद्येऽपि कटकान्तरे ॥ ११० ॥
1.3.110 · p. 20
अनुष्टुप्
अक्षादिचालने मूलद्रव्यापचयकूलयोः ।पातुकः पतयालौ स्यात्प्रपाते जलहस्तिनि ॥ १११ ॥
1.3.111 · p. 20
अनुष्टुप्
पालंकः शाकभेदेऽपि शल्लकीवाजिपक्षिणि ।पावकोऽग्नौ सदाचारे भल्लातकवितङ्कयोः ॥ ११२ ॥
1.3.112 · p. 20
अनुष्टुप्
चित्रकेऽप्यग्निमन्थेऽपि त्रिषु पाचनकारिणि ।पिण्याकः शिह्लके हिङ्गौ तिलकल्केऽपि कुङ्कुमे ॥ ११३ ॥
1.3.113 · p. 20
अनुष्टुप्
पिनाको हरकोदण्डे शूलेऽस्त्री पांसुवर्षणे ।पिष्टको यवधान्यादिचमसे चक्षुषो रुजि ॥ ११४ ॥
1.3.114 · p. 20
अनुष्टुप्
पुत्रकः शरभे पुत्रे धूर्ते वृक्षनगान्तरे ।पुत्रिका पुत्तलीपुत्र्योस्तथा यावकतूलिके ॥ ११५ ॥
1.3.115 · p. 20
अनुष्टुप्
पुलकः कृमिभेदे स्यान्मणिदोषे शिलान्तरे ।गजान्नपिण्डे रोमाञ्चे गल्वर्कहरितालयोः ॥ ११६ ॥
1.3.116 · p. 21
अनुष्टुप्
पुलाकस्तुच्छधान्ये स्यात्संक्षेपे भक्तशिक्थके ।पुष्पकं तु कुबेरस्य विमाने रत्नकङ्कणे ॥ ११७ ॥
1.3.117 · p. 21
अनुष्टुप्
नेत्ररोगे च कासीसे चीरिकायां रसाञ्जने ।मृदङ्गारशकट्या च लोहकास्ये च पुष्पकम् ॥ ११८ ॥
1.3.118 · p. 21
अनुष्टुप्
पूर्णकः स्वर्णचूडे स्यान्नासच्छित्त्या च पूर्णिका ।पृथुकश्चिपिटे बाले पृदाकुस्तु सरीसृपे ॥ ११९ ॥
1.3.119 · p. 21
अनुष्टुप्
पृदाकुर्वृश्चिकेऽपि स्याद्व्याघ्रचित्रकयोरपि ।उलूके गजलाङ्गूलमूलप्रान्तेऽपि पेचकः ॥ १२० ॥
1.3.120 · p. 21
अनुष्टुप्
पेटकोऽस्त्री पुस्तकादेर्मञ्जूषायां कदम्बके ।प्रतीकः प्रतिकूले त्रिष्वेकदेशविलोमयोः ॥ १२१ ॥
1.3.121 · p. 21
अनुष्टुप्
प्रमादेऽवयवे चाथ प्रसेकः सेचने च्युतौ ।प्राणकः सत्त्वजातीये बोलके जीवकद्रुमे ॥ १२२ ॥
1.3.122 · p. 21
अनुष्टुप्
प्रियकस्तु कदम्बे स्यादलिचित्रकुरङ्गयोः ।प्रियङ्गौ पीतशाले च कुङ्कुमप्रिययोरपि ॥ १२३ ॥
1.3.123 · p. 22
अनुष्टुप्
फलकं चित्रविन्यासे पट्टिकाव्रणभेदयोः ।वराको वाच्यवच्छोच्येऽनुकम्प्ये सङ्गरे पुमान् ॥ १२४ ॥
1.3.124 · p. 22
अनुष्टुप्
वसुकः शिवमल्ल्यां स्यादर्कपर्णेऽपि रौमके ।बहुकोऽर्के कर्कटके दात्यूहे जलखादके ॥ १२५ ॥
1.3.125 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
वारकोऽश्वविशेषे च गतावपि निषेधके ।वार्द्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि ॥ १२६ ॥
1.3.126 · p. 22
अनुष्टुप्
वालकोग्नौ शिशौ केशे वाजिवारणवालधौ ।स्याद्बालकं तु ह्रीवेरे पारिहार्यांगुलीयके ॥ १२७ ॥
1.3.127 · p. 22
अनुष्टुप्
वालिका वालुका वाला पिंछोलाकर्णभूषणे ।वालुका सिकताऽपि स्याद्वालुकं त्वेलवालुके ॥ १२८ ॥
1.3.128 · p. 22
अनुष्टुप्
वृश्चिकः शूककीटेऽपि द्रुणे राश्योषधीभिदोः ।भस्मकं भस्मरोगे स्याद्विडङ्गकलधौतयोः ॥ १२९ ॥
1.3.129 · p. 23
अनुष्टुप्
भालाङ्को रोहिते शाकप्रभेदे कच्छपे हरे ।महालक्षणसम्पूर्णपुरुषे करपत्रके ॥ १३० ॥
1.3.130 · p. 23
अनुष्टुप्
स्याद्भूतीकं तु भूनिम्बमालातृणककत्तृणे ।यवान्यामपि कर्पूरे भूतीकं कट्फलेऽद्वयोः ॥ १३१ ॥
1.3.131 · p. 23
अनुष्टुप्
भूमिका रचनायां स्यान्मूर्त्त्यन्तरपरिग्रहे ।भ्रामकः फेरवे धूर्ते सूर्यावर्तशिलान्तरे ॥ १३२ ॥
1.3.132 · p. 23
अनुष्टुप्
मण्डूको दर्दुरे बन्धप्रभेदे शोणकेऽप्यथ ।मण्डूकपर्ण्यां मण्डूकी मधुको यष्टिकाह्वये ॥ १३३ ॥
1.3.133 · p. 23
अनुष्टुप्
बन्दिपक्षिप्रभेदे च मधुपर्ण्यां स्त्रियामपि ।मल्लिको मल्लिका चैव राजहंसान्तरे द्वयम् ॥ १३४ ॥
1.3.134 · p. 23
अनुष्टुप्
मल्लिका तृणशून्येऽपि मीनमृत्पात्रभेदयोः ।मशकः क्षुद्रजन्तूनां प्रभेदेऽपि गदान्तरे ॥ १३५ ॥
1.3.135 · p. 24
अनुष्टुप्
मातृका धात्रिकायां स्यात्करणे मातरि स्वरे ।मामकं ममतायुक्तं मातृभ्रातरि मामकः ॥ १३६ ॥
1.3.136 · p. 24
अनुष्टुप्
मालिका पुष्पमालायां मालिका सरिदन्तरे ।मालिको गरुडेऽपि स्यान्मालिका कण्ठभूषणे ॥ १३७ ॥
1.3.137 · p. 24
अनुष्टुप्
मेचकः श्यामले बर्हिचन्द्रे ध्वान्तेऽथ मेचकम् ।वाच्यवत्कृष्णवर्णे स्यान्मोचकः कदलीतरौ ॥ १३८ ॥
1.3.138 · p. 24
अनुष्टुप्
तत्प्रसूनेऽपि शिग्रौ च निर्मोचकविरागिणोः ।मोदको न स्त्रियां खाद्यप्रभेदे हर्षकेऽन्यवत् ॥ १३९ ॥
1.3.139 · p. 24
अनुष्टुप्
यमकं संयमे शब्दाऽलङ्कारे यमजे त्रिषु ।याजको यागशीले स्यात्पूजके राजकुञ्जरे ॥ १४० ॥
1.3.140 · p. 24
अनुष्टुप्
याज्ञिको याजके दर्भे यज्ञकार्योपजीविनि ।युतकं यौतके युग्मे चलनाग्रेऽपि संशये ॥ १४१ ॥
1.3.141 · p. 25
अनुष्टुप्
वस्त्रान्तरे वधूवस्त्राञ्चले युक्ते तु वाच्यवत् ।यूथिका तु मता यूथ्यामम्लानकुसुमे क्वचित् ॥ १४२ ॥
1.3.142 · p. 25
अनुष्टुप्
रक्तकोऽम्लानबन्धूकरक्तवस्त्रे तु रागिणि ।रजको धावके पुंसि कीरेऽपि रजकः पुमान् ॥ १४३ ॥
1.3.143 · p. 25
अनुष्टुप्
रसिका तु रसालायां काञ्चीरसनयोरपि ।लेखाकेदारयो राजसर्षपेऽपि च राजिका ॥ १४४ ॥
1.3.144 · p. 25
अनुष्टुप्
रात्रकस्तत्र यो वेश्यागृहे गमितवत्सरः ।रात्रकं पञ्चरात्रेऽथ रुचको मातुलुङ्गके ॥ १४५ ॥
1.3.145 · p. 25
अनुष्टुप्
रुचकं मातुलद्रव्ये दन्ते सौवर्चलस्रजि ।उत्कटे चाश्वभूषायां विडङ्गे कण्ठभूषणे ॥ १४६ ॥
1.3.146 · p. 25
अनुष्टुप्
बीजपूरेऽपि दीनारे रोचनादेववृक्षयोः ।रुण्डिका रणभूर्द्वारपिण्डिकादूतिकार्थिका ॥ १४७ ॥
1.3.147 · p. 26
अनुष्टुप्
जमदग्निप्रियायां च हरेण्वामपि रेणुका ।लम्पाकः पुंसि देशे स्याल्लम्पको लम्पटे त्रिषु ॥ १४८ ॥
1.3.148 · p. 26
अनुष्टुप्
लासको लसके लास्यकारकेऽपि मयूरके ।लूनकः स्यात्पशौ भिन्ने लोचको नेत्रतारके ॥ १४९ ॥
1.3.149 · p. 26
अनुष्टुप्