All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
यान्तवर्गः · यचतुर्थम्
यचतुर्यम् ।
दीर्घद्वेषानुतापानुबन्धेष्वनुशयः पुमान् ॥ १२१ ॥
27.4.121 · p. 273
अन्तशय्या तु मरणे भूमिशय्याश्मशानयोः ।अपसव्यमवामे स्यात्प्रतिकूले तु वाच्यवत् ॥ १२२ ॥
27.4.122 · p. 273
अनुष्टुप्
गर्वेऽपि तुहिनेपि स्यादवश्यायः पुमानयम् ।उपकार्या नृपावासेऽप्युपकारोचितेऽन्यवत् ॥ १२३ ॥
27.4.123 · p. 273
अनुष्टुप्
उपक्रयश्चिकित्सायामारम्भवधयोरपि ।काद्रवेयः पुमान्नागे तथा सीसकरङ्गयोः ॥ १२४ ॥
27.4.124 · p. 273
अनुष्टुप्
चन्द्रोदयो विताने स्यात्स्त्रियामेवोषधीभिदि ।जलाशयो जलाधारे जलदे तु जलाशयम् ॥ १२५ ॥
27.4.125 · p. 273
अनुष्टुप्
तण्डुलीयो विडङ्गद्रावल्पमारिषताप्ययोः ।तृणशून्यं तु केतक्याः फले मल्ल्यां च निस्तृणे ॥ १२६ ॥
27.4.126 · p. 274
अनुष्टुप्
धनजंयोऽग्नौ ककुभे नागदेहानिलेऽर्जुने ।निरामयं हुडुक्के स्यात्कल्पे त्रिषु निरामयः ॥ १२७ ॥
27.4.127 · p. 274
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग्नौ (wrong syllable)
परिधायो जलस्थाने नितम्बे च परिच्छदे ।पाञ्चजन्यो हरेः शङ्खे शङ्खपोटगलेऽनले ॥ १२८ ॥
27.4.128 · p. 274
अनुष्टुप्
पौरुषेयस्तु पुरुषविकारेऽपि पदान्तरे ।पुंसः समूहवधयोः पुरुषेण कृते त्रिषु ॥ १२९ ॥
27.4.129 · p. 274
अनुष्टुप्
क्लीबं प्रतिभयं भीतौ वाच्यवत्तु भयानके ।प्रतिश्रयः सभायां स्यादाश्रयेऽपि प्रतिश्रयः ॥ १३० ॥
27.4.130 · p. 274
अनुष्टुप्
फलानामुदये लाभे त्रिदिवेऽपि फलोदयः ।मतो विलेशयः पुंसि मूषिकेऽपि भुजङ्गमे ॥ १३१ ॥
27.4.131 · p. 274
अनुष्टुप्
भागधेयं स्मृतं भाग्ये पुंसि स्यात्करभागयोः ।भूतेन्द्रियं तु करणशब्दगोचरसंहतौ ॥ १३२ ॥
27.4.132 · p. 275
अनुष्टुप्
महोदयः समुदये कान्यकुब्जापवर्गयोः ।महालयो विहारेऽपि तीर्थेऽपि परमात्मनि ॥ १३३ ॥
27.4.133 · p. 275
अनुष्टुप्
महामूल्यं पद्मरागे महार्घे त्वभिधेयवत् ।मार्जारीयस्तु शूद्रे स्याद्बिडाले कायशोधने ॥ १३४ ॥
27.4.134 · p. 275
अनुष्टुप्
रौहिणेयः प्रलम्बघ्ने वुधे वत्से तु वाच्यवत् ।वैनतेयस्तु कथितो गरुडे गरुडाग्रजे ॥ १३५ ॥
27.4.135 · p. 275
अनुष्टुप्
उत्सेधेऽपि विरोधेपि पुमानेव समुच्छ्रयः ।मतः समुदयो वृन्दे संयुगे समुपक्रमे ॥ १३६ ॥
27.4.136 · p. 275
अनुष्टुप्
समुदायः समूहे स्यात्समुद्भूतौ रणेऽपि च ।संपरायस्तु सङ्ग्रामे विपदुत्तरकालयोः ॥ १३७ ॥
27.4.137 · p. 275
अनुष्टुप्
समाह्वयो रणे नाम्नि क्रीडायां पशुपक्षिभिः ।स्थूलोच्चयस्त्वसाकल्ये गण्डोपलवरण्डयोः ॥ १३८ ॥
27.4.138 · p. 275
अनुष्टुप्
स्थूलोच्चयो मतङ्गानां स्यान्मध्यमगतेऽपि च ।हिरण्मयः स्वर्णमये लोकधात्रन्तरे पुमान् ॥ १३९ ॥
27.4.139 · p. 276
अनुष्टुप्