All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
खान्तवर्गः · खपञ्चमम्
खपञ्चमम् ।
स्यान्मलिनमुखः प्रेते गोलाङ्गूले खलेऽनले ।मतः शीतमयूखोऽपि शशिकर्पूरयोरयम् ॥ १७ ॥
2.5.17 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable)
सर्वतोमुखमाख्यातं क्लीबमाकाशपाथसोः ।क्षेत्रज्ञविधिरुद्रेषु स पुमान् सर्वतोमुखः ॥ १८ ॥
2.5.18 · p. 46
अनुष्टुप्