All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
कान्तवर्गः · कचतुर्थम्
कचतुर्थम् ।
अस्त्री त्वङ्गारकोद्गारे पुंसि भौमे कुरण्टके ।अङ्गारिका त्विक्षुकाण्डे तथा किंशुककोरके ॥ १७६ ॥
1.4.176 · p. 30
अनुष्टुप्
पुमान(लि)लमको भेके मधुकेऽम्बुजके खरे ।पिकेऽप्यलिपकस्तु स्यात्पिकालिरतहिण्डके ॥ १७७ ॥
1.4.177 · p. 31
अनुष्टुप्
अथाऽश्मन्तकमुद्धाने मल्लिकाच्छदनेऽपि च ।आकालिकं क्षणध्वंस्यन्यकालकृतसम्भवे ॥ १७८ ॥
1.4.178 · p. 31
अनुष्टुप्
आकल्पकस्तमोमोहग्रन्थावुत्कलिकामुदोः ।विशेष्याखनिकस्तु स्याच्चोरमूषकदंष्ट्रिषु ॥ १७९ ॥
1.4.179 · p. 31
अनुष्टुप्
आक्षेपकस्तु पवनव्याधौ व्याधे च निन्दके ।भवेदुत्कलिका हेलोत्कण्ठासलिलबीचिषु ॥ १८० ॥
1.4.180 · p. 31
अनुष्टुप्
एडमूकस्त्रिषु ख्यातः शठे वाक्श्रुतिवर्जिते ।पुनर्नवाकारवेल्लपर्णासेषु कठिल्लकः ॥ १८१ ॥
1.4.181 · p. 31
अनुष्टुप्
कनिष्ठाऽङ्गुलिकानेत्रतारयोस्तु कनीनिका ।कपर्दकस्तु भूतेशे जटाजूटे वराटके ॥ १८२ ॥
1.4.182 · p. 31
अनुष्टुप्
कर्कोटकः काद्रवेयप्रभेदे श्रीफलेऽपि च ।कलबिङ्को भवेद्ग्रामचटकेऽपि कलिङ्गके ॥ १८३ ॥
1.4.183 · p. 32
अनुष्टुप्
काकरूक उलूकेऽश्वे स्त्रीजितेऽपि दिगम्बरे ।दम्भेऽपि काकरूकस्तु त्रिषु भीरुदरिद्रयोः ॥ १८४ ॥
1.4.184 · p. 32
अनुष्टुप्
कार्पटिकोऽन्यमर्मज्ञे छात्रे स्यात्कालदेशिनि ।कुरवकः पुंसि शोणझिण्टिकाऽम्लानभेदयोः ॥ १८५ ॥
1.4.185 · p. 32
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 टि (wrong syllable); pāda 3, syllable 3 व (wrong syllable)
कृकवाकुस्ताम्रचूडे कृकलासे च केकिनि ।कोशातकः कचे ज्योत्स्नीपटोल्यां घोषकेऽस्त्रियाम् ॥ १८६ ॥
1.4.186 · p. 32
अनुष्टुप्
कौकुट्टिको दाम्भिके स्याददूरप्रेरितेक्षणे ।कौलेयको भवेदिन्द्रे महाकामिकुलीनयोः ॥ १८७ ॥
1.4.187 · p. 32
अनुष्टुप्
ग्रामणीभण्डिनाराचोपधाने तु खरालिकः ।भवेद्गुणनिकाऽभ्यासे शून्याङ्के पाठनिश्चये ॥ १८८ ॥
1.4.188 · p. 32
अनुष्टुप्
नृत्यान्तरे त्वप्यथो गोकण्टको गोक्षुरे पुमान् ।गवां गमनसम्भूतशुष्कस्थपुटकेऽपि च ॥ १८९ ॥
1.4.189 · p. 33
अनुष्टुप्
गोकुणिकः केकरे स्यात्पङ्कस्थगव्युपक्षके ।गोमेदकः पीतमणौ काकोले पत्रकेऽपि च ॥ १९० ॥
1.4.190 · p. 33
अनुष्टुप्metre not read in every line
स्मृता घर्घरिका क्षुद्रघण्टिकावाद्यभेदयोः ।मृष्टधान्ये सरिद्भेदे तथा वादित्रदण्डके ॥ १९१ ॥
1.4.191 · p. 33
अनुष्टुप्
जटारुकस्तथा शाखाहरिणेऽपि तुलाधरे ।जर्जरीकस्त्रिषु भवेद्बहुच्छिद्रे जरातुरे ॥ १९३ ॥
1.4.193 · p. 33
अनुष्टुप्
जीवन्तिका तु जीवाख्यशाकबन्दागुडूचिषु ।जैवातृकः शशिन्यायुष्मति दिव्यौषधे कृशे ॥ १९४ ॥
1.4.194 · p. 33
अनुष्टुप्
तर्तरीकः पारगे स्यात्तर्तरीकं बहित्रके ।तिक्तशाकस्तु वरुणे खदिरे पत्रसुंदरे ॥ १९५ ॥
1.4.195 · p. 34
अनुष्टुप्
त्रिवर्णकं त्रिकटुके त्रिफलायां च गोक्षुरे ।दन्दशूकस्तु यक्षे स्याद्दन्दशूको भुजङ्गमे ॥ १९६ ॥
1.4.196 · p. 34
अनुष्टुप्
दलाढकः स्वयंजाततिले चाम्पेयकुन्दयोः ।शिरीषपृश्निकावात्याखातकेषु महत्तरे ॥ १९७ ॥
1.4.197 · p. 34
अनुष्टुप्
गैरिके करिकर्णे च फेनेऽग्निकणसंहतौ ।द्रोणे च कार्यकूटे च क्वचिद्दृष्टो दलाढकः ॥ १९८ ॥
1.4.198 · p. 34
अनुष्टुप्
दासेरकस्तु करभे दासीपुत्रेऽपि धीवरे ।नियामकः पोतवाहे कर्णधारे नियन्तरि ॥ १९९ ॥
1.4.199 · p. 34
अनुष्टुप्
निर्ग्रन्थिकस्तु क्षपणे निष्फलेऽप्यपरिच्छदे ।निश्चारकोऽनिले स्वैरे पुरीषस्य क्षयेऽपि च ॥ २०० ॥
1.4.200 · p. 34
अनुष्टुप्
पञ्चालिका भवेद्वम्बपुत्रिकागीतभेदयोः ।पिण्डीतकस्तु तगरे मदनाद्रौ फणिज्जके ॥ २०१ ॥
1.4.201 · p. 35
अनुष्टुप्
स्तनवृन्ते पिप्पलकः क्लीबं सीवनसूत्रके ।पुण्डरीकोऽग्निदीप्ताङ्गे व्याघ्रभेदेक्षुभेदयोः ॥ २०२ ॥
1.4.202 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
पुण्डरीकं सितच्छत्रे सिताम्भोजेऽपि भेषजे ।पुष्कलको गन्धमृगे कीलके क्षपणेऽपि च ॥ २०३ ॥
1.4.203 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ष्क (wrong syllable)
क्लीबं पूर्णानकं पूर्णपात्रे पटहपात्रयोः ।पोतक्यां विचलत्पोताधाने पोतीनकं मतन् ॥ २०४ ॥
1.4.204 · p. 35
अनुष्टुप्
प्रकीर्णकं ग्रन्थभेदे प्रशस्ते चामरे हये ।प्रवर्तकः शराघाते बर्हे पुष्पभुजङ्गयोः ॥ २०५ ॥
1.4.205 · p. 35
अनुष्टुप्
फर्फरीकश्चपेटे स्यात्फर्फरीकं तु मार्दवे ।बकेरुका बकीभेदे वातावर्जितपल्लवे ॥ २०६ ॥
1.4.206 · p. 35
अनुष्टुप्
कपर्दरज्जुराजीवबीजकोशे वराटकः ।वरण्डकस्तु मातङ्गवेद्यां यौवनकण्टके ॥ २०७ ॥
1.4.207 · p. 36
अनुष्टुप्
तथा संवर्त्तुले बर्त्तरूकस्तु सरिदन्तरे ।जलावटे काकनीडे दण्डवासिन्यपीष्यते ॥ २०८ ॥
1.4.208 · p. 36
अनुष्टुप्
बर्बरीको महाकाले केशविन्यासशाकयोः ।बलाहको वारिवाहे नागदैत्यान्तरे गिरौ ॥ २०९ ॥
1.4.209 · p. 36
अनुष्टुप्
वाणिजिको वणिज्यंके मृगाङ्के कामिनीरते ।और्वेऽनुरागबाह्ये च मतो वाणिज्यकः पुमान् ॥ २१० ॥
1.4.210 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 जि (wrong syllable)
वृन्दारकः सुरे श्रेष्ठे मनोज्ञे यूथघातिनि ।अथो बृहतिका कण्टकारीवस्त्रान्तरोरुषु ॥ २११ ॥
1.4.211 · p. 36
अनुष्टुप्
भट्टारकः सुरे पुंसि क्ष्मापाले च तपोधने ।भयानकस्तु शार्दूले सैंहिकेये विभीषणे ॥ २१२ ॥
1.4.212 · p. 36
अनुष्टुप्
भार्याटिको भवेद्भार्यानिर्जिते हरिणान्तरे ।भ्रमरकोऽभ्रे मधुपे च जाले चूर्णकुन्तले ॥ २१३ ॥
1.4.213 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 म (wrong syllable)
मण्डोदकं चित्ररागे भवेदालिम्पनेऽपि च ।मतं मण्डलकं बिम्बे कुष्ठभेदे च दर्पणे ॥ २१४ ॥
1.4.214 · p. 37
अनुष्टुप्
मयूरकोऽप्यपामार्गे तुत्थके तु मयूरकम् ।मदनद्रौ मरुबकः पुष्पभेदे फणिज्जके ॥ २१५ ॥
1.4.215 · p. 37
अनुष्टुप्
माणवको हारभेदे बाले कुपुरुषे वटौ ।मृष्टेरुको वदान्ये स्वान्गृष्टाशिन्यतिथिद्विषि ॥ २१६ ॥
1.4.216 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
रतर्द्धिकं सुखस्नानेऽप्यष्टमङ्गलके दिने ।राधरङ्कुन्तु ना सीरे श्रीकरे जलदोपले ॥ २१७ ॥
1.4.217 · p. 37
अनुष्टुप्
लतालिकस्तु लाटाम्रे वज्रमुस्तौ च पुंस्ययम् ।लालाटिकः स्यात्करणान्तरेऽप्यालिङ्गनान्तरे ॥ २१८ ॥
1.4.218 · p. 37
अनुष्टुप्
कार्याक्षमे प्रभोर्भावदर्शिन्यपि तु वाच्यवत् ।त्रिषु लेखीलको लेखहारे यश्च विलेखयेत् ॥ २१९ ॥
1.4.219 · p. 38
अनुष्टुप्
स्वहस्तपरहस्तेन लेखे लेखीलकः स च ।वितुन्नकं तु धान्याके मतं झाटामलेऽपि च ॥ २२० ॥
1.4.220 · p. 38
अनुष्टुप्
विदूषकश्चाटुवटौ परनिन्दाविधायिनि ।विनायको जिने बुद्धे तार्क्ष्ये हेरम्बविघ्नयोः ॥ २२१ ॥
1.4.221 · p. 38
अनुष्टुप्
गुरौ विमानकं तु स्यान्माने शून्येऽभिधेयवत् ।विमानकं देवयाने सप्तभूमगृहे स्त्रियाम् ॥ २२२ ॥
1.4.222 · p. 38
अनुष्टुप्
विशेषकोऽस्त्री तिलके विशेषावाहके द्रुमे ।वैतालिको बोधकरे खेट्टताले च कीर्तितः ॥ २२३ ॥
1.4.223 · p. 38
अनुष्टुप्
वैदेहको वाणिजके शूद्राद्वेश्यासुतेऽपि च ।वैनाशिकस्तु क्षणिके परतन्त्रोर्णनाभयोः ॥ २२४ ॥
1.4.224 · p. 38
अनुष्टुप्
शतानीको मुनेर्भेदे वृद्धे शालावृकः शुनि ।शृगाले वानरे वाऽथ बिले चान्द्रे शिलाटकः ॥ २२५ ॥
1.4.225 · p. 39
अनुष्टुप्
शृङ्गाटको भवेद्वारिकण्टके च चतुष्पथे ।सङ्घाटिका युगे नासाट्कुट्टिनीलजकण्टके ॥ २२६ ॥
1.4.226 · p. 39
अनुष्टुप्
सन्तानिका दधिक्षीरसारे मर्कटजालके ।संदंशिका तु मुकुटीलोहयन्त्रभेद्रयोः ॥ २२७ ॥
1.4.227 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्यात्सुप्रतीक ईशानदिग्गजे दिव्यविग्रहे ।शृगालिका शिवायां स्यात्त्रासादपि पलायने ॥ २२८ ॥
1.4.228 · p. 39
अनुष्टुप्
क्लीबे सैकतिकं मातृयात्रामङ्गलसूत्रयोः ।त्रिषु संन्यस्तसंदेहजीविक्षपणिकेष्विदम् ॥ २२९ ॥
1.4.229 · p. 39
अनुष्टुप्
पुमान् सैकतिको गन्धकुट्यां सिन्धोश्च सैकते ।स्वभार्यां परहस्तस्थां यो न साधयितुं क्षमः ॥ २३० ॥
1.4.230 · p. 39
अनुष्टुप्
तत्र संन्यासमात्रेण क्षुधा च कृतभोजने ।सोमवल्कः पुमान् श्वेतखदिरे कट्फलेऽपि च ॥ २३१ ॥
1.4.231 · p. 40
अनुष्टुप्
सौगन्धिकं तु कह्लारे पद्मरागे च कत्तृणे ।गन्धके गान्धिके पुंसि त्रिषु सौगन्धिकं क्रमात् ॥ २३२ ॥
1.4.232 · p. 40
अनुष्टुप्