कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

धान्तवर्गः · धद्वितीयम्

धद्वितीयम् ।

अन्धं स्यात्तिमिरे दृष्टिहीने त्वन्धोऽभिधेयवत् ॥ १ ॥
20.2.1 · p. 176
अब्धिर्वारांनिधौ पुंसि पुंस्येवाऽब्धिः सरोवरे ।अर्द्धं समांशके क्लीबमर्द्धः खण्डे पुमानपि ॥ २ ॥
20.2.2 · p. 176
अनुष्टुप्
पुंस्याधिश्चित्तपीडायां प्रत्याशायां च बन्धके ।व्यसने चाप्यधिष्ठाने स्यादिद्धस्त्वातपे पुमान् ॥ ३ ॥
20.2.3 · p. 176
अनुष्टुप्
प्रदीप्ते त्रिषु ऋद्धं तु सम्पन्नान्नसमृद्धयोः ।ऋद्धिः स्यादौषधीभेदे योगशक्तौ च बन्धने ॥ ४ ॥
20.2.4 · p. 177
अनुष्टुप्
गन्धो गन्धकसम्बन्धलेशेष्वामोदगर्वयोः ।गाधः स्थानेऽपि लिप्सायां गोधा तलनिहाकयोः ॥ ५ ॥
20.2.5 · p. 177
अनुष्टुप्
दग्धा स्थितार्ककाष्ठायां दग्धं प्लुष्टेऽन्यलिङ्गकः ।दधि स्याच्छ्रीघने क्लीबं दधि श्रीवासवासयोः ॥ ६ ॥
20.2.6 · p. 177
अनुष्टुप्
विषाक्तविशिखे दिग्धो दिग्धं लिप्तार्थकेऽन्यवत् ।त्रिषु प्रपूरिते दुग्धं दुग्धं क्षीरेऽपि न द्वयोः ॥ ७ ॥
20.2.7 · p. 177
अनुष्टुप्
वत्से गोपे कवौ दोग्धा दोग्धाऽप्यर्थोपजीविनि ।सज्जे संपूर्वकं नद्धं नद्धं तद्वृतबद्धयोः ॥ ८ ॥
20.2.8 · p. 177
अनुष्टुप्
आधिबन्धनयोर्वेधो बन्धः संपूर्वकोऽन्वये ।बन्धूकपादपे बन्धुर्वधूभ्रातरि बान्धवे ॥ ९ ॥
20.2.9 · p. 177
अनुष्टुप्
बाधा दुःखे निषेधे च विपूर्वा तु विहेठने ।बुधस्तु सुगते धीरे सौम्ये च बुघिते त्रिषु ॥ १० ॥
20.2.10 · p. 178
अनुष्टुप्
बुधः स्यात्पण्डिते सौम्ये बुधः क्वापि तथागते ।ऋद्धिस्तु वर्द्धने ऋद्ध्यौषधे मुदि कलान्तरे ॥ ११ ॥
20.2.11 · p. 178
अनुष्टुप्
वृद्धिः कुरुण्डरोगे च वृद्धिर्योगेऽपि दृश्यते ।वृद्धो रूढे कवौ जीर्णे त्रिषु वृद्धं तु शैलजे ॥ १२ ॥
20.2.12 · p. 178
अनुष्टुप्
बोधिः समाधिभेदे स्याद्बोधिर्बोधिमहीरुहे ।मधु पुष्परसे क्षौद्रे मद्यक्षीराऽसु न द्वयोः ॥ १३ ॥
20.2.13 · p. 178
अनुष्टुप्
मधुर्म्मधूके सुरभौ चैत्रे दैत्यान्तरे पुमान् ।जीवाशाके स्त्रियामेवं मधु-शब्दः प्रयुज्यते ॥ १४ ॥
20.2.14 · p. 178
अनुष्टुप्
सिद्धं चित्ताभिसंक्षेपे सिद्धमालस्यनिद्रयोः ।सुन्दरे वाच्यवन्मुग्धो मुग्धो मूढेऽपि वाच्यवत् ॥ १५ ॥
20.2.15 · p. 178
अनुष्टुप्
मेघः क्रतौ मतौ मेधा मेधिस्तु खलदारुणि ।राधा तु वल्लवीभेदे चित्रभेदे च धन्विनाम् ॥ १६ ॥
20.2.16 · p. 178
अनुष्टुप्
स्याद्विशाखातडिद्विष्णुक्रान्तातिष्यफलासु च ।राधस्तु पुंसि वैशाखे लुब्धो मृगयुकांक्षिणोः ॥ १७ ॥
20.2.17 · p. 179
अनुष्टुप्
वधूः स्नुषायां भार्यायां वधूर्योषिन्नवोढयोः ।शट्यां च सारिवायां च स्पृक्कायां च मता वधूः ॥ १८ ॥
20.2.18 · p. 179
अनुष्टुप्
भवेद्विधं तु सादृश्ये वेधितक्षिप्तयोस्त्रिषु ।विधिर्वेधसि काले ना विधाने नियतौ स्त्रियाम् ॥ १९ ॥
20.2.19 · p. 179
अनुष्टुप्
विधा प्रकारे ऋद्धौ च गजान्ने वेतने विधौ ।विधुः शशाङ्के विष्णौ च कपूरे राक्षसान्तरे ॥ २० ॥
20.2.20 · p. 179
अनुष्टुप्
व्याधिः स्यादामये व्याप्ये व्याधो मृगयुदुष्ठयोः ।शुद्धं तु केवले पूते श्रद्धा श्राद्धोर्ध्वकाङ्क्षयोः ॥ २१ ॥
20.2.21 · p. 179
अनुष्टुप्
श्राद्धं निवापे श्राद्धस्तु त्रिषु श्रद्धासमन्विते ।सन्धा स्थितौ प्रतिज्ञायामवधानेऽपि सा स्मृता ॥ २२ ॥
20.2.22 · p. 179
अनुष्टुप्
सन्धिः पुंसि सुरङ्गायां रन्ध्रसंघट्टने भगे ।सन्धिर्भागेऽवकाशेऽपि वाटसंज्ञेऽपि पुंस्ययम् ॥ २३ ॥
20.2.23 · p. 180
अनुष्टुप्
साधुर्वार्द्धुषिके पुंसि चारुसज्जनयोस्त्रिषु ।सिद्धस्तु नित्ये निष्पन्ने प्रसिद्धे देवयोनिषु ॥ २४ ॥
20.2.24 · p. 180
अनुष्टुप्
योगेऽप्याडिप्रभेदे च सिद्धिर्न्निष्पत्तियोगयोः ।सद्व्याख्याभेषजे सिद्धिः सिद्धिवृद्ध्याख्यभेषजे ॥ २५ ॥
20.2.25 · p. 180
अनुष्टुप्
सिन्धुरब्धौ नदे देशीभेदे ना सरिति स्त्रियाम् ।सुधाऽमृते सुधा मूर्वास्नुहीगाङ्गेष्टिकासु च ॥ २६ ॥
20.2.26 · p. 180
अनुष्टुप्
सृधूर्वृद्धौ गुदेऽपि स्यात्स्कन्धः कायप्रकाण्डयोः ।बाहूमूले समूहे च समीहायां समीहतौ ॥ २७ ॥
20.2.27 · p. 180
अनुष्टुप्
स्कन्धो नराश्वमातङ्गवृन्दे भद्रादिकृत्यके ।स्निग्धो वात्सल्यसंपन्ने चिक्कणेऽप्यभिधेयवत् ॥ २८ ॥
20.2.28 · p. 180
अनुष्टुप्
स्पर्द्धा संहर्षणे साम्ये स्पर्द्धा क्रमसमुन्नतौ ।
20.2.29 · p. 181