कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

मान्तवर्गः · मचतुर्थम्

मचतुर्थम् ।

सुन्दरेऽप्युपमाशून्ये भवेदनुपमोऽन्यवत् ॥ ६२ ॥
26.4.62 · p. 251
गौरीनायकदिङ्नागयोषित्यनुपमा मता ।अभ्यागमोऽन्तिके घाते विरोधेऽप्युद्गमे युधि ॥ ६३ ॥
26.4.63 · p. 251
अनुष्टुप्
उपक्रमश्चिकित्सायामुपधाने च विक्रमे ।भवेदुपगमः पार्श्वगमनेऽङ्कीकृतावपि ॥ ६४ ॥
26.4.64 · p. 252
अनुष्टुप्
जलगुल्मो जलावर्त्तजलचत्वरकच्छपे ।दण्डयामस्तु दिवसे कीनाशे कुम्भसम्भवे ॥ ६५ ॥
26.4.65 · p. 252
अनुष्टुप्
पराक्रमस्तु सामर्थ्ये विक्रमोद्योगयोरपि ।प्लवङ्गमः कपौ भेके महापद्मं तु मानके ॥ ६६ ॥
26.4.66 · p. 252
अनुष्टुप्
महापद्मः पुमान्सङ्ख्यानिधिनागान्तरे मतः ।यातयामो मतो जीर्णे परिभुक्तोज्झिते त्रिषु ॥ ६७ ॥
26.4.67 · p. 252
अनुष्टुप्
सार्वभौमस्तु दिग्नागभेदे सर्वमहीपतौ ।अभ्युपगमः स्वीकारे समीपागमनेऽपि च ॥ ६८ ॥
26.4.68 · p. 252
अनुष्टुप्metre not read in every line