कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

थान्तवर्गः · थद्वितीयम्

थद्वितीयम् ।

अर्थः प्रयोजने चित्ते हेत्वभिप्रायवस्तुषु ॥ १ ॥
18.2.1 · p. 162
शब्दाभिधेये विषये स्यान्निवृत्तिप्रकारयोः ॥ २ ॥
18.2.2 · p. 162
आस्था त्वालम्बनापेक्षायत्नास्थानेषु दृश्यते ।कन्था तु मृत्तिकाभित्तौ कन्था प्रावरणान्तरे ॥ ३ ॥
18.2.3 · p. 162
अनुष्टुप्
कुथः स्त्रीपुंसयोर्वर्णकम्बले पुंसि बर्हिषु ।कोथस्तु नेत्ररुग्भेदे मथने शटितेऽपि च ॥ ४ ॥
18.2.4 · p. 162
अनुष्टुप्
क्वाथः स्याद्व्यसने पुंसि द्रवनिष्पाकदुःखयोः ।गाथा वृत्तेऽपि वाग्भेदे ग्रन्थस्तु धनशास्त्रयोः ॥ ५ ॥
18.2.5 · p. 162
अनुष्टुप्
ग्रन्थः स्याद्ग्रन्थनायां च द्वात्रिंशद्वर्णनिर्म्मितौ ।ग्रन्थिर्ना पर्वणि ग्रन्थिपर्णे रुग्भिदि च स्त्रियाम् ॥ ६ ॥
18.2.6 · p. 162
अनुष्टुप्
कौटिल्ये बन्धभेदे च तीर्थं शास्त्रावतारयोः ।पुण्यक्षेत्रमहापात्रोपायोपाध्यायदर्शने ॥ ७ ॥
18.2.7 · p. 163
अनुष्टुप्
ऋषिजुष्टे जले यज्ञे जातौ च वनितार्त्तवे ।नीलीसूक्ष्मैलयोस्तुत्था तुत्थोग्नौ तुत्थमञ्जने ॥ ८ ॥
18.2.8 · p. 163
अनुष्टुप्
दुःस्थस्तु दुर्गते मूर्खे पार्थः स्यात्ककुभेऽर्जुने ।पाथो दिवाकरे पुंसि पाथः पयसि न द्वयोः ॥ ९ ॥
18.2.9 · p. 163
अनुष्टुप्
पृथुर्नृपे कृष्णजीरे वाप्यां स्त्री महति त्रिषु ।सानौ मानेऽस्त्रियां प्रस्थः स्यादप्युन्मितवस्तुनि ॥ १० ॥
18.2.10 · p. 163
अनुष्टुप्
प्रोथः पान्थेऽश्वघोणायामस्त्री ना कटिगर्भयोः ।वीथी गृहतटीपङ्क्तौ नाट्यरूपकवर्त्मनोः ॥ ११ ॥
18.2.11 · p. 163
अनुष्टुप्
मन्थो मन्थानदण्डे स्याद्द्वादशात्मनि साक्तवे ।मन्थो नयनरोगेऽपि यूथं तिर्यक्चये चये ॥ १२ ॥
18.2.12 · p. 163
अनुष्टुप्
अस्त्री यूथी तु मागध्यां पुष्पभेदे कुरण्टके ।रथस्तु स्यन्दने काये वेतसे चरणेऽपि च ॥ १३ ॥
18.2.13 · p. 164
अनुष्टुप्
सार्थः स्याद्वणिजां वृन्दे वृन्दमात्रेऽपि दृश्यते ।सिक्थं नील्यां मधूच्छिष्टे सिक्थो नौदनसम्भवे ॥ १४ ॥
18.2.14 · p. 164
अनुष्टुप्
संस्था नाशे व्यवस्थायां व्यक्तिसादृश्ययोः स्थितौ ।संस्था क्रतौ समाप्तौ च चरे च निजराष्ट्रगे ॥ १५ ॥
18.2.15 · p. 164
अनुष्टुप्