कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

नान्तवर्गः · नैकम्

इति विश्वलोचने धान्तवर्गः ।

अथ नान्तवर्गः ।

नैकम् ।

नास्तु नेतरि नावि स्त्री नकारो जिनपूज्ययोः ।नुः स्तोतरि नुतौ स्त्री च स्यादन्नं भक्तमुक्तयोः ॥ १ ॥
21.1.1 · p. 185
अनुष्टुप्