कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

सान्तवर्गः · सतृतीयम्

सतृतीयम् ।

अलसा हंसपद्यां स्यादागः पापापराधयोः ॥ १५ ॥
33.3.15 · p. 387
आशीः स्त्री सर्प्पदंष्ट्रायां तथा स्त्री शुभशंसने ।आख्यायिकापरिच्छेदेऽप्यावासो निर्वृतावपि ॥ १६ ॥
33.3.16 · p. 387
अनुष्टुप्
इष्वासः स्याद्धनुर्म्मात्रे स्यादिष्वासो धनुर्धरे ।उच्छ्वासः शासनाश्वासगद्यबन्धगुणान्तरे ॥ १७ ॥
33.3.17 · p. 387
अनुष्टुप्
उत्तंसश्चावतंसश्च वतंसश्चेत्यमी त्रयः ।अस्त्रियामेव वर्त्तन्ते कर्णपूरेऽपि शेखरे ॥ १८ ॥
33.3.18 · p. 388
अनुष्टुप्
उरस्तु वक्षोवरयोरुषः सन्ध्याप्रभातयोः ।एनोऽपराधे कलुषेऽप्योकस्त्वाश्रयसद्मनोः ॥ १९ ॥
33.3.19 · p. 388
अनुष्टुप्
ओजो दीप्तौ च सामर्थ्येऽप्यवष्टम्भप्रकाशयोः ।ओजस्तेजसि धातूनामिति पञ्चसु दृश्यते ॥ २० ॥
33.3.20 · p. 388
अनुष्टुप्
कीकसः क्रिमिजातौ स्यात्कीकसं क्लीबमस्थनि ।चमसः पिष्टभेदे स्यात्पर्प्पटे चूर्णसंबले ॥ २१ ॥
33.3.21 · p. 388
अनुष्टुप्
छन्दः श्रुतीच्छयोः पद्ये स्वाच्छन्द्ये ना तु वर्त्तते ।ज्यायांस्त्रिष्विति वृद्धे स्यादपि श्रेष्ठातिशस्तयोः ॥ २२ ॥
33.3.22 · p. 388
अनुष्टुप्
गुणे कोपेऽप्यभिमतं तरः स्याद्बलवेगयोः ।तामसी चण्डिकायां स्यात्तामसः खलसर्प्पयोः ॥ २३ ॥
33.3.23 · p. 388
अनुष्टुप्
तेजः पराक्रमे दीप्तौ प्रभावे बलशुक्रयोः ।धनुः शरासने राशौ धनुर्द्धन्विपियालयोः ॥ २४ ॥
33.3.24 · p. 388
अनुष्टुप्
धनुर्धनुर्धरेऽपि स्याद्धनुरर्जुनभूरुहे ।नभो व्योम्नि नभो मेघे बिससूत्रे पतद्ग्रहे ॥ २५ ॥
33.3.25 · p. 389
अनुष्टुप्
वर्षासु श्रावणे घ्राणे नभाः पलितमस्तके ।पनसः कण्टकिफले कण्टके कपिरुग्भिदोः ॥ २६ ॥
33.3.26 · p. 389
अनुष्टुप्
दुग्धे नीरे वटादीनां क्षीरेऽपि क्षीरवत्पयः ।श्रीवासे पायसः पुंसि परमान्ने तु पायसम् ॥ २७ ॥
33.3.27 · p. 389
अनुष्टुप्
पुष्कसी कालिकानील्योः पुष्कसः श्वपचेऽधमे ।प्रहासः स्यान्नटवटौ हास्यतीर्थविशेषयोः ॥ २८ ॥
33.3.28 · p. 389
अनुष्टुप्
पुनरर्थेऽव्ययं भूयो भूयांस्तु बहुषु त्रिषु ।मनश्चित्ते मनीषायां महस्तूत्सवतेजसोः ॥ २९ ॥
33.3.29 · p. 389
अनुष्टुप्
मानसं स्वान्तसरसो रजः स्यादार्त्तवे गुणे ।रजः परागे रेणौ तु रजवद्दृश्यते रजः ॥ ३० ॥
33.3.30 · p. 389
अनुष्टुप्
हर्षे वेगे च रभसस्तत्त्वे गुह्ये रते रहः ।दंष्ट्रायां राक्षसी ख्याता राक्षसी राक्षसस्त्रियाम् ॥ ३१ ॥
33.3.31 · p. 390
अनुष्टुप्
रेतः शुक्रे रसे रेफाः क्रूरेऽपि कृपणेऽधमे ।रोदश्च रोदसी चैव दिवि भूमौ द्वयोरपि ॥ ३२ ॥
33.3.32 · p. 390
अनुष्टुप्
लालसस्तु द्वयोस्तृष्णाविष्टे चौत्सुक्ययाच्ञयोः ।वपुर्नपुंसकं देहे वपुर्भव्याकृतावपि ॥ ३३ ॥
33.3.33 · p. 390
अनुष्टुप्
वयस्तु यौवने बाल्यप्रभृतौ विहगे वयाः ।बर्हिस्तु पुंसि दहने बर्हिः पुंसि कुशेऽपि च ॥ ३४ ॥
33.3.34 · p. 390
अनुष्टुप्
वरासिः स्यादसिश्रेष्ठे वरासिः स्थूलशाटके ।वर्चो दीप्तौ पुरीषे च वर्चो रूपेऽपि न द्वयोः ॥ ३५ ॥
33.3.35 · p. 390
अनुष्टुप्
श्रीवासे वायसः पुंसि बलिपुष्टेऽपि वायसः ।काकोदुम्बरिकायां च काकमाच्यां च वायसी ॥ ३६ ॥
33.3.36 · p. 390
अनुष्टुप्
वासस्तु वसने ख्यातमोष्ठे दशनपूर्वकम् ।वाहसोऽजगरे वारिनिर्माणे सुनिषण्णके ॥ ३७ ॥
33.3.37 · p. 391
अनुष्टुप्
विद्वान्धीरात्मवित्प्राज्ञे विलासो हावलीलयोः ।वीतंसो बन्धनोपाये मृगाणां पक्षिणामपि ॥ ३८ ॥
33.3.38 · p. 391
अनुष्टुप्
तद्विश्वासाय वस्त्रे च वीतंसमपि न द्वयोः ।बीभत्सो नाऽर्जुने हिंस्रे विकृते सघृणे त्रिषु ॥ ३९ ॥
33.3.39 · p. 391
अनुष्टुप्
पितामहे बुधे वेधा वेधा दामोदरेऽपि च ।शिरस्तु मस्तके सेनाग्रभागेऽग्य्रप्रधानयोः ॥ ४० ॥
33.3.40 · p. 391
अनुष्टुप्
श्रेयस्तु मङ्गले धर्म्मे श्रेयाञ्शस्तेऽभिधेयवत् ।श्रेयसी करिपिप्पल्यामभयारास्नयोरपि ॥ ४१ ॥
33.3.41 · p. 391
अनुष्टुप्
श्रीवासो वृकधूपेऽपि श्रीवासो विष्णुपद्मयोः ।स्रोतोऽम्बुलेशे कर्णे च स्रोतो देहशिरास्वपि ॥ ४२ ॥
33.3.42 · p. 391
अनुष्टुप्
सङ्क्षेपेऽपि समासः स्यात्समासः स्यात्समर्थने ।द्वन्द्वादौ च समासाख्या सरस्तोयतडागयोः ॥ ४३ ॥
33.3.43 · p. 392
अनुष्टुप्
सहो ज्योतिष्मति बले सहा हेमन्तमार्गयोः ।सारसं पङ्कजे क्लीबं सारसः पक्षिचन्द्रयोः ॥ ४४ ॥
33.3.44 · p. 392
अनुष्टुप्
साहसं तु बलात्कारकरणे साहसं मदे ।सुरसौषधिभेदेऽपि हविस्तु घृतहव्ययोः ॥ ४५ ॥
33.3.45 · p. 392
अनुष्टुप्