All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
रान्तवर्गः · रद्वितीयम्
रद्वितीयम् ।
अग्रं त्रिषु प्रधाने स्यादग्रं मूर्द्धाधिकादिषु ॥ ४ ॥
28.2.4 · p. 277
पुरस्तात्पलमाने च व्रातेप्यालम्बनान्तयोः ।अङ्घ्रिः पुंस्येव चरणे मूलेऽपि च महीरुहे ॥ ५ ॥
28.2.5 · p. 277
अनुष्टुप्
अद्रिः शैले द्रुमे सूर्येऽप्यभ्रं खे गिरिजेऽम्बुदे ।स्वर्गेप्यथाऽरं शीघ्रे स्याच्चक्राङ्गे शीघ्रगे त्रिषु ॥ ६ ॥
28.2.6 · p. 278
अनुष्टुप्
अस्रं तु शोणिते लोभेऽप्यस्रः स्यात्कोणकेशयोः ।अस्त्रं प्रहरने चापेऽप्यार्द्रा भे स्तिमिते त्रिषु ॥ ७ ॥
28.2.7 · p. 278
अनुष्टुप्
आरा तु चर्म्मवेधन्यामारो भौमे शनैश्चरे ।आरुर्ना द्रुमभेदे स्यादपि कर्कटदंष्ट्रिणोः ॥ ८ ॥
28.2.8 · p. 278
अनुष्टुप्
इन्द्रः शक्रात्मसूर्येषु योगेऽपीन्द्रा फणिज्जके ।इरा तु मदिरावारिभारव्यसनभूमिषु ॥ ९ ॥
28.2.9 · p. 278
अनुष्टुप्
उग्रस्तीव्रे त्रिषु क्षात्त्राच्छूद्रापुत्रे हरे पुमान् ।उग्रा वचाछिक्किकयोरुष्ट्रस्तु स्यात्क्रमेलके ॥ १० ॥
28.2.10 · p. 278
अनुष्टुप्
उष्ट्री गोलकिकायां स्यादुष्ट्री करभयोषिति ।उस्रा गव्युपचित्रायामुस्रस्तु किरणे पुमान् ॥ ११ ॥
28.2.11 · p. 278
अनुष्टुप्
ऐन्द्रिः काके जयन्ते स्यादोड्रा जनपदान्तरे ।ओड्रो जने जवावृक्षे देशे पुष्पे तु न द्वयोः ॥ १२ ॥
28.2.12 · p. 279
अनुष्टुप्
अङ्घ्रिः पादे च बुध्ने च कद्रुः कनकपिङ्गले ।तद्वति त्रिषु कद्रुः स्यात्कद्रुः स्त्री नागमातरि ॥ १३ ॥
28.2.13 · p. 279
अनुष्टुप्
करस्तु पाणिप्रत्यायशुण्डारश्मिघनोपले ।कारो वधे तुषाराद्रौ निश्चये यतियत्नयोः ॥ १४ ॥
28.2.14 · p. 279
अनुष्टुप्
बलावप्यथ कारा स्याद्बन्धनागारबन्धयोः ।सुबन्ते कारिकापीडादूतिकासु प्रसेवके ॥ १५ ॥
28.2.15 · p. 279
अनुष्टुप्
कारुः शिल्पिनि शिल्पे च कारके विश्वकर्मणि ।कारिः क्रियानापिताद्यो कीरो जनपदे शुके ॥ १६ ॥
28.2.16 · p. 279
अनुष्टुप्
कुरुर्नृपान्तरे भक्ते कुरुः श्रीकण्ठजाङ्गले ।कृच्छ्रं तु कष्टे पापे च तथासान्तपनादिके ॥ १७ ॥
28.2.17 · p. 279
अनुष्टुप्
क्रूरस्त्रिषु नृशंसे स्यादपि निर्दयघोरयोः ।क्रोष्ट्री शृगालिकाक्षीरविदारीलाङ्गलीष्वथ ॥ १८ ॥
28.2.18 · p. 280
अनुष्टुप्
देवताडे द्वये तीक्ष्णे त्रिषु ना गर्द्दभे खरः ।खरुर्दशन ईशेऽश्वे दर्पे पुंसि सिते त्रिषु ॥ १९ ॥
28.2.19 · p. 280
अनुष्टुप्
खुरः शफे कोलदले खड्गादेश्चरणेऽपि च ।गरो विषे चोपविषे गरं करणरोगयोः ॥ २० ॥
28.2.20 · p. 280
अनुष्टुप्
गात्रं गजाग्रजङ्घादिविभागेऽप्यङ्गदेहयोः ।गिरिर्गीर्णौ गिरियकग्रावनेत्रगदेषु ना ॥ २१ ॥
28.2.21 · p. 280
अनुष्टुप्
गिरिः पूज्येऽन्यलिङ्गः स्याद्भारत्यां भाषणे च गीः ।गुरुर्निषेकादिकरे पित्रादिसुरमन्त्रिणोः ॥ २२ ॥
28.2.22 · p. 280
अनुष्टुप्
गुरुस्त्रिषु स्यान्महति दुर्जरे वाऽलघुन्यपि ।गुन्द्रस्तेजनके गुन्द्रा मुस्तके भद्रमुस्तके ॥ २३ ॥
28.2.23 · p. 280
अनुष्टुप्
कुटंनटे प्रियङ्गौ च गृध्रो लुब्धे खगान्तरे ।गोत्रः क्षोणीधरे गोत्रं कुले क्षेत्रे च नाम्नि च ॥ २४ ॥
28.2.24 · p. 281
अनुष्टुप्
सम्भावनीयबोधेऽपि वित्ते वर्त्मनि कानने ।गोत्रा भुवि गवां वृन्दे गौरः पुंसि निशाकरे ॥ २५ ॥
28.2.25 · p. 281
अनुष्टुप्
गौरः पीतारुणश्वेतविशुद्धेष्वभिधेयवत् ।गौरी तु पार्वतीनग्नकन्ययोर्वरुणस्त्रियाम् ॥ २६ ॥
28.2.26 · p. 281
अनुष्टुप्
नदीभिद्यामिनीपिङ्गारोचनीक्ष्माप्रियङ्गुषु ।गौरं तु विशदे श्वेतसर्षपे पद्मकेसरे ॥ २७ ॥
28.2.27 · p. 281
अनुष्टुप्
घस्रोऽह्नि हिंस्रे घोरस्तु हरे भीमेऽभिधेयवत् ।अथ पुंस्येव चक्रः स्याच्चक्रवाकसमूहयोः ॥ २८ ॥
28.2.28 · p. 281
अनुष्टुप्
चक्रं सैन्ये रथाङ्गेऽपि आम्रजालेऽम्भसाम्भ्रमे ।कुलालकृत्यनिष्पत्तिभाण्डे राष्ट्रास्त्रभेदयोः ॥ २९ ॥
28.2.29 · p. 281
अनुष्टुप्
चन्द्रः सुधांशुकर्पूरस्वर्णकम्पिल्लवारिषु ।चरश्चारे चले द्यूतप्रभेदे जङ्गमेऽपि च ॥ ३० ॥
28.2.30 · p. 282
अनुष्टुप्
चरुर्भाण्डेपि हव्यान्ने चारश्चरपियालयोः ।गतौ बन्धेऽपि चित्रं तु कर्बुराद्भुतयोस्त्रिषु ॥ ३१ ॥
28.2.31 · p. 282
अनुष्टुप्
चित्रमालेख्यतिलकव्योमसु स्यान्नपुंसकम् ।चित्राऽस्रवन्तीनक्षत्रभुजङ्गाऽप्सरसाम्भिदि ॥ ३२ ॥
28.2.32 · p. 282
अनुष्टुप्
चित्राऽखुपर्णीगोडुंबासुभद्रादन्तिकासु च ।चीरं तु वस्त्रे चूडायां त्रपुण्यालेखरेखयोः ॥ ३३ ॥
28.2.33 · p. 282
अनुष्टुप्
चीरी कच्छाटिकाझिल्योश्चुक्रस्त्वम्लेऽम्लवेतसे ।चुक्री चाङ्गेरिकायां स्याच्चुक्रं वृक्षाम्लके मतम् ॥ ३४ ॥
28.2.34 · p. 282
अनुष्टुप्
मासाद्रिभेदयोश्चैत्रश्चैत्रं मृतकचैत्यके ।चौरश्चौरे सुगन्धे च छत्रमातपवारणे ॥ ३५ ॥
28.2.35 · p. 282
अनुष्टुप्
छत्रा मधुरिकायां स्यात्कुस्तुम्बुरुशिलीन्ध्रयोः ।जारस्तूपपतौ जारी मता वश्यौषधीभिदि ॥ ३६ ॥
28.2.36 · p. 283
अनुष्टुप्
जीरस्तु जीरे खड्गे च टारो लिङ्गतुरङ्गयोः ।तन्त्रं प्रघाने सिद्धान्ते श्रुतिशास्त्रान्तरेऽपि च ॥ ३७ ॥
28.2.37 · p. 283
अनुष्टुप्
कुटुम्बधारणे शास्त्रे कारणे च परिच्छदे ।इतिकर्तव्यतायां च सूत्रवायेऽगदोत्तमे ॥ ३८ ॥
28.2.38 · p. 283
अनुष्टुप्
तन्त्रं द्विसाधके पात्रे तत्री स्याद्वल्लकी गुणे ।शिरायां च गुडूच्यां च तन्द्री निद्राप्रमीलयोः ॥ ३९ ॥
28.2.39 · p. 283
अनुष्टुप्
वस्त्रादिपेटके नावि दशायां च तरिः स्त्रियाम् ।ताम्रं शुल्बे त्रिष्वरुणे तारोऽत्युच्चध्वनौ त्रिषु ॥ ४० ॥
28.2.40 · p. 283
अनुष्टुप्
तारो मुक्तादिसंशुद्धौ तरुणे शुद्धमौक्तिके ।तारं तु रजते तारा सुग्रीवगुरुयोषितोः ॥ ४१ ॥
28.2.41 · p. 283
अनुष्टुप्
बुद्धदर्शनदेव्यां च दृग्मध्यतारके न ना ।तीरस्त्रपौ नटे तीरं तटे प्रादुत्तरं च तत् ॥ ४२ ॥
28.2.42 · p. 284
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध्य (wrong syllable)
तीव्रमत्यन्तकटुके नितान्ते तद्वतोस्त्रिषु ।तीव्रा तु कटुरोहिण्यामासुरीगण्डदूर्वयोः ॥ ४३ ॥
28.2.43 · p. 284
अनुष्टुप्
वेणुके प्राजने तोत्रं दरोऽस्त्री भीतिगर्त्तयोः ।दरी स्यात्कन्दरे स्त्री तदीषदर्थे दराऽव्ययम् ॥ ४४ ॥
28.2.44 · p. 284
अनुष्टुप्
दस्रः खरेऽप्याश्विनेये दारु स्याद्देवदारुणि ।अस्त्री त्वारेऽप्यथ क्लीबं द्वारं द्वाराऽभ्युपाययोः ॥ ४५ ॥
28.2.45 · p. 284
अनुष्टुप्
धरः कच्छपनाथे स्याद्गिरौ कर्प्पासतूलके ।धरा धरण्यां स्त्रीणा च गर्भाधारेऽपि मेदसि ॥ ४६ ॥
28.2.46 · p. 284
अनुष्टुप्
धात्री त्वामलकीक्षित्योरुपमातरि मातरि ।धारस्तु धारासम्पातवर्षणे स्यादृणेऽपि च ॥ ४७ ॥
28.2.47 · p. 284
अनुष्टुप्
धारा पङ्क्तौ द्रवद्रव्यस्रवेऽश्वगतिपञ्चके ।खड्गादीनां मुखे सेनाग्रिमस्कन्धपुरान्तरे ॥ ४८ ॥
28.2.48 · p. 285
अनुष्टुप्
भृङ्गारादेश्च नालायां धाराभ्यासे नुतावपि ।हरिद्रानिशयोश्चाथ धीरः स्यात्पुंसि पण्डिते ॥ ४९ ॥
28.2.49 · p. 285
अनुष्टुप्
धैर्यशालिनि मन्दे च त्रिषु धीरं तु कुङ्कुमे ।नक्रस्तु पुंसि कुम्भीरे नक्रं घ्राणेऽग्रदारुणि ॥ ५० ॥
28.2.50 · p. 285
अनुष्टुप्
नरः पार्थाजयोर्मर्त्ये रामकर्पूरके नरम् ।नारस्तु तन्दुके नीरे नीध्रः पुंसि निशापतौ ॥ ५१ ॥
28.2.51 · p. 285
अनुष्टुप्
नीध्रं वलीके नेमौ च रेवतीतारके वने ।नेत्रं विलोचने वृक्षमूले वस्त्रे गुणे मथि ॥ ५२ ॥
28.2.52 · p. 285
अनुष्टुप्
नेत्रं रथेऽपि नद्यां च नेत्रो नेतरि वाच्यवत् ।पत्रं पर्णे च पक्ष्मे च नृत्योद्यतनटेपि च ॥ ५३ ॥
28.2.53 · p. 285
अनुष्टुप्
ऋत्विगादौ पात्रं स्यात्पारः ? एरंजयन्तमाः ।कर्करीपूरयोः पारी पारी पूरपरागयोः ॥ ५४ ॥
28.2.54 · p. 286
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 दौ (syllables merged)
हस्तिनः पादरज्ज्वां च पुण्ड्राः स्युर्नीवृदन्तरे ।पुण्ड्रो वासन्तिकायां च दिक्षु दैत्यप्रभेदयोः ॥ ५५ ॥
28.2.55 · p. 286
अनुष्टुप्
पुण्ड्रस्तिलकभेदेपि पुण्डरीके कृमावपि ।पुरं पाटलिपुत्रे स्याद्गृहोपरिगृहे गृहे ॥ ५६ ॥
28.2.56 · p. 286
अनुष्टुप्
पुरं देहे गुग्गुलौ तु पुरः पुरि पुरं न ना ।दशपूर्वस्तु वालेये पूर्वकाले पुराऽव्ययम् ॥ ५७ ॥
28.2.57 · p. 286
अनुष्टुप्
पुरुः स्वर्गे परागे च पुरुः प्राज्यनृपान्तरे ।पूरो वारिप्रवाहे स्यात्पूरः स्यात्पिष्टकान्तरे ॥ ५८ ॥
28.2.58 · p. 286
अनुष्टुप्
पोत्रं वज्रे मुखाग्रे च सूकरस्य हलस्य च ।पौरः पुरभवे वाच्यलिङ्गं पौरं तु कत्तृणे ॥ ५९ ॥
28.2.59 · p. 286
अनुष्टुप्
वक्रः शनैश्चरे वक्रं पुटभेदेऽथ वाच्यवत् ।वक्रः स्यात्कुटिले क्रूरे वध्रं त्रपुवरत्रयोः ॥ ६० ॥
28.2.60 · p. 287
अनुष्टुप्
बभ्रुर्मुनौ कृशानौ च नकुले च हरीशयोः ।पिङ्गलेऽपि विशालेऽपि वभ्रुः स्यादभिधेयवत् ॥ ६१ ॥
28.2.61 · p. 287
अनुष्टुप्
त्रिफलायां वरा प्रोक्ता शतावर्यां मता वरी ।वारः सूर्यादिदिवसे द्वारेऽप्यवसरे हरे ॥ ६२ ॥
28.2.62 · p. 287
अनुष्टुप्
कुब्जवृक्षे च गन्धे च वारं स्यान्मद्यभाजने ।वारी तु गजबन्धन्यां घटिकायामपि स्मृता ॥ ६३ ॥
28.2.63 · p. 287
अनुष्टुप्
वारिः सरस्वतीदेव्यां वारि ह्रीवेरनीरयोः ।वास्रः पुंसि दिने वास्रं मन्दिरेऽपि चतुष्यथे ॥ ६४ ॥
28.2.64 · p. 287
अनुष्टुप्
वीरस्तु सुभटे श्रेष्ठे वीरं शृङ्ग्यां नते त्रिषु ।वीरा तु रम्भागम्भारीतामलक्यैलवालुषु ॥ ६५ ॥
28.2.65 · p. 287
अनुष्टुप्
स्त्री सुराक्षीरकाकोलीपतिपुत्रवतीष्वपि ।गोष्ठोदुम्बरिकाक्षीरविदार्योरपि सा स्मृता ॥ ६६ ॥
28.2.66 · p. 288
अनुष्टुप्
वृत्रो दानवशक्रादिध्वान्तवारिदवैरिषु ।भद्रो हरे रामबले वृषे मेरुकदम्बके ॥ ६७ ॥
28.2.67 · p. 288
अनुष्टुप्
लक्ष्मणाद्योऽवशः शीघ्रं यः प्रक्रुप्यति कोपितः ।गजे तत्राऽपि भद्रः स्याद्वाच्यवच्छ्रेष्ठसाधुनोः ॥ ६८ ॥
28.2.68 · p. 288
अनुष्टुप्
भद्रं तु करणप्रीतिमुस्तकक्षेमहेमसु ।भद्रा तु जाह्नवीरास्नाकृष्णानन्तासु कट्फले ॥ ६९ ॥
28.2.69 · p. 288
अनुष्टुप्
भद्रा भद्रालिकायां च गम्भार्यां हेमदुग्धके ।भरस्त्वतिशये भारे भरुर्भर्तरि काञ्चने ॥ ७० ॥
28.2.70 · p. 288
अनुष्टुप्
भारस्तु वीवधे स्वर्णपलानामयुतद्वये ।वाच्यवत्कातरे भीरु भीरुरिन्द्रीवरीस्त्रियोः ॥ ७१ ॥
28.2.71 · p. 288
अनुष्टुप्
भूरि प्राज्ये सुवर्णे च भूरिर्ब्रह्मेशशौरिषु ।मन्त्रो वेदान्तरे गुप्तवादे देवादिसाधने ॥ ७२ ॥
28.2.72 · p. 289
अनुष्टुप्
मरुर्धन्वनि शैले च मात्रं कार्त्स्न्येऽवधारणे ।मात्रा परिच्छदे वित्ते मानेऽल्पे कर्णभूषणे ॥ ७३ ॥
28.2.73 · p. 289
अनुष्टुप्
अक्षिभागेऽप्यथो मारो विघ्ने मृत्यौ स्मरे वृषे ।मारी जनक्षये चण्ड्यां मित्रं सख्यौ रवौ पुमान् ॥ ७४ ॥
28.2.74 · p. 289
अनुष्टुप्
मीरोब्धिशैलनीरेषु मुरो दैत्ये मुरौषधे ।यात्राऽनुवृत्तौ गमने यापने देवतोत्सवे ॥ ७५ ॥
28.2.75 · p. 289
अनुष्टुप्
विषयोत्पातयो राष्ट्रमस्त्री दैत्ये मृगे रुरुः ।रेत्रं रेतसि पीयूषे पारदे पटवासके ॥ ७६ ॥
28.2.76 · p. 289
अनुष्टुप्
रोध्रः सावरके लोध्रो रोध्रं पापापराधयोः ।रौद्री तु चण्ड्यां रौद्रस्तु त्रिषु तीव्रे भयानके ॥ ७७ ॥
28.2.77 · p. 289
अनुष्टुप्
रौद्रं स्यादातपे क्लीबं रौद्रो नाट्यरसान्तरे ।छन्दोभेदे मुखे वक्त्रं स्याद्वज्रा तंत्रिकौषधौ ॥ ७८ ॥
28.2.78 · p. 290
अनुष्टुप्
वज्रोऽस्त्री हीरके शम्बे वज्रो योगान्तरे पुमान् ।क्लीबं स्यादारनालेऽपि वक्रं वामेऽलकेपि च ॥ ७९ ॥
28.2.79 · p. 290
अनुष्टुप्
वप्रस्तातेऽस्त्रियां तीरे तु क्षेत्रचयरेणुषु ।वेरं शरीरकाश्मीरवार्ताकीषु नपुंसकम् ॥ ८० ॥
28.2.80 · p. 290
अनुष्टुप्
व्याकुलाशक्तयोर्व्यग्रो व्याघ्रो द्वीपिकरञ्जयोः ।शरस्तेजनके काण्डे शरं नीरे नपुंसकम् ॥ ८१ ॥
28.2.81 · p. 290
अनुष्टुप्
छुरिकायां मता शस्त्री शस्त्रमायुधलोहयोः ।शारस्तु शबले वाते शारिः शाकुनिकान्तरे ॥ ८२ ॥
28.2.82 · p. 290
अनुष्टुप्
युद्धार्थगजपर्याणे नाऽक्षोपकरणे पणे ।आज्ञायामागमे शास्त्रं शिग्रुः काक्षीवशाकयोः ॥ ८३ ॥
28.2.83 · p. 290
अनुष्टुप्
चक्राङ्गोशीरयोः शीघ्रं तूर्णेपि त्रिषु तद्वति ।शुक्रः काव्येऽनले ज्येष्ठे शुक्रं रेतोऽक्षिरोगयोः ॥ ८४ ॥
28.2.84 · p. 291
अनुष्टुप्
शुक्लेऽपि शुभ्रं त्वभ्रे स्यात्प्रदीप्तश्वेतयोस्त्रिषु ।शूरः शूरे भटे ख्यातः शूरः सूर्येपि दृश्यते ॥ ८५ ॥
28.2.85 · p. 291
अनुष्टुप्
सत्रं यज्ञे सदादाने कैतवे वसने वने ।शरो हारे शरे पुंसि दध्यग्रेऽपि शरः पुमान् ॥ ८६ ॥
28.2.86 · p. 291
अनुष्टुप्
क्लीबं तु कानने सान्द्रं सान्द्रं त्रिषु घने मृदौ ।सारः स्यान्मज्जनि बले स्थिरांशेऽपि पुमानयम् ॥ ८७ ॥
28.2.87 · p. 291
अनुष्टुप्
सारे न्याय्ये जले वित्ते सारं स्याद्वाच्यवद्वरे ।निदाघसलिले सिप्रः सिप्रा तु सरिदन्तरे ॥ ८८ ॥
28.2.88 · p. 291
अनुष्टुप्
सीरस्तु लाङ्गले पुंसि सीरो दिनपतावपि ।सुरो देवे सुरा तु स्यान्मदिरापानपात्रयोः ॥ ८९ ॥
28.2.89 · p. 291
अनुष्टुप्
सूत्रं तु सूचनाग्रन्थे सूत्रं तंतुव्यवस्थयोः ।स्थिरन्तु निश्चले मोक्षे शालापर्णीभुवोः स्थिरा ॥ ९० ॥
28.2.90 · p. 292
अनुष्टुप्
स्फारः साद्विकटे स्फारः करटादेश्च बुद्बुदैः ।स्वरोऽकाराद्युदात्तादिमध्यमादिषु निस्वने ॥ ९१ ॥
28.2.91 · p. 292
अनुष्टुप्
स्वरो नासासमीरेऽपि स्वैरं स्वच्छन्दमन्दयोः ।स्वरुर्वज्रे शरे यज्ञे यूपखण्डेऽपि च स्वरुः ॥ ९२ ॥
28.2.92 · p. 292
अनुष्टुप्
हरिर्गोविन्दवारीन्द्रचन्द्रवातेन्द्रभानुषु ।यमाऽहिकपिभेकाश्वशुके शोकान्तरे त्विषि ॥ ९३ ॥
28.2.93 · p. 292
अनुष्टुप्
त्रिषु पिङ्गेऽपि हरिते हारो मुक्तावलौ युधि ।हिंस्रा काकादनीमांस्योर्हिंस्रः स्याद्घातकेऽन्यवत् ॥ ९४ ॥
28.2.94 · p. 292
अनुष्टुप्
रक्तैरण्डेऽप्यथ व्याघ्री स्पृश्या श्रेष्ठे परस्थितः ।शक्रः पुलोमजाकान्ते कुटजेऽर्जुनपादपे ॥ ९५ ॥
28.2.95 · p. 292
अनुष्टुप्
शद्रिः शचीपतौ मेघे स्वरुः कुलिशकोपयोः ।हीरा पिपीलिकालक्ष्म्योर्हीरो वज्रेऽपि शङ्करे ॥ ९६ ॥
28.2.96 · p. 293
अनुष्टुप्
होरा रेखान्तरे शास्त्रभेदे राश्यर्द्धलग्नयोः ।क्षरो मेघे क्षरं नीरे क्षारः स्याद्भस्मकाचयोः ॥ ९७ ॥
28.2.97 · p. 293
अनुष्टुप्
चूर्णादौ धूर्तलवणे रसभेदेऽपि दृश्यते ।क्षीरं नीरेऽपि दुग्धेऽपि वटादीनां पयस्यपि ॥ ९८ ॥
28.2.98 · p. 293
अनुष्टुप्
क्षुद्रः स्वल्पाऽधमक्रूरकृपणेष्वभिधेयवत् ।क्षुद्रा वेश्यानटीव्यङ्गासरघाबृहतीष्वपि ॥ ९९ ॥
28.2.99 · p. 293
अनुष्टुप्
चाङ्गेर्यां कण्टकार्यां च हिंस्रामक्षिकयोरपि ।नापितस्योपकरणे गोक्षुरे च क्षुरे क्षुरः ॥ १०० ॥
28.2.100 · p. 293
अनुष्टुप्
क्षेत्रं शरीरे दारेषु केदारे सिद्धसंश्रये ।क्षौद्रं तु माक्षिके क्लीबं मतं क्षौद्रं पयस्यपि ॥ १०१ ॥
28.2.101 · p. 293
अनुष्टुप्