कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

ढान्तवर्गः · ढद्वितीयम्

ढद्वितीयम् ।

गूढं रहसि गुह्ये च सवृते त्वभिधेयवत् ।भवेद्दाढा तु दंष्ट्रायामिच्छायामप्यथ त्रिषु ॥ २ ॥
15.2.2 · p. 97
अनुष्टुप्
स्थाद्दृढः स्थूलवलिनोर्दृढं वाढप्रगाढयोः ।माढिः पत्रादिभङ्गौ स्याद् बलिनां दैन्यदीपने ॥ ३ ॥
15.2.3 · p. 97
अनुष्टुप्
मूढस्तु तन्द्रिते मूर्खे राढा स्याद्गुह्यशोभयोः ।बाढं भृशे प्रतिज्ञायां वोढा भारिकसूतयोः ॥ ४ ॥
15.2.4 · p. 98
अनुष्टुप्
व्यूढः पृथुलविन्यस्तसंहतेषु हते त्रिषु ।षण्डो वृषे वर्षवरे क्लीबे स्याद्वन्ध्यपूरुषे ॥ ५ ॥
15.2.5 · p. 98
अनुष्टुप्
वाच्यवन्मर्षणे सोढा सोढा शक्तेऽपि वाच्यवत् ।
15.2.5 · p. 98