All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
शान्तवर्गः · शचतुर्थम्
शचतुर्थम् ।
अपदेशः स्मृतो लक्ष्ये निमित्तव्याजयोरपि ॥ ३७ ॥
31.4.37 · p. 376
अपभ्रंशो दुष्पतने भाषाभेदापशब्दयोः ।आश्रयाशो बृहद्भानौ त्रिष्वेवाश्रयनाशके ॥ ३८ ॥
31.4.38 · p. 377
अनुष्टुप्
उपदंशः पुमान्मेढ्रे पीडायां च विदंशने ।उपस्पर्शस्तु संस्पर्शे स्नानाचमनयोरपि ॥ ३९ ॥
31.4.39 · p. 377
अनुष्टुप्
क्रूरदृक् स्यात्खले वक्रे खण्डपर्शुः पिनाकिनि ।राहौ खण्डामलकयोर्लेपकृत्पर्शुरामयोः ॥ ४० ॥
31.4.40 · p. 377
अनुष्टुप्
जीवितेशो यमे कान्ते जीवातौ जीवितेश्वरे ।नागपाशः स्मृतः स्त्रीणां करणे वरुणायुधे ॥ ४१ ॥
31.4.41 · p. 377
अनुष्टुप्
वसेत्पञ्चदशी पौर्णमास्यमावस्ययोर्मता ।परिवेशः परिवृतौ भानोश्चाभ्यर्णमण्डले ॥ ४२ ॥
31.4.42 · p. 377
अनुष्टुप्
पलंकशा तु मुण्डीर्यां लाक्षायां पुंसि गुग्गुले ।पादपाशी चटुकायां शृङ्खलाकटुकेऽपि च ॥ ४३ ॥
31.4.43 · p. 377
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 टु (wrong syllable)
पुरोडाशो हविर्भेदे तथा सोमलतारसे ।पिष्टकस्य चमस्यां च हुतशेषे च सम्मतः ॥ ४४ ॥
31.4.44 · p. 378
अनुष्टुप्
वार्ताहरे पुरोगे च सहाये च प्रतिष्कशः ।भूमिस्पृक् सम्मतो वैश्ये भूमिस्पृग्मनुजेपि च ॥ ४५ ॥
31.4.45 · p. 378
अनुष्टुप्