All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
क्षान्तवर्गः · क्षचतुर्थम्
क्षचतुर्थम् ।
देववृक्षः सप्तपर्णे मन्दारादिषु गुग्गुले ।वीरवृक्षस्तु भल्लातपादपे ककुभद्रुमे ॥ १९ ॥
35.4.19 · p. 405
अनुष्टुप्
भूतवृक्षस्तु शाखोटयक्षश्योनाकपादपे ।विख्यातो राजवृक्षस्तु सुवर्णालुपियालयोः ॥ २० ॥
35.4.20 · p. 405
अनुष्टुप्
विशालाक्षो हरे तार्क्ष्ये विशालाक्षी वरस्त्रियाम् ।सकटाक्षो धवद्रौ स्यात्कटाक्षसहिते त्रिषु ॥ २१ ॥
35.4.21 · p. 405
अनुष्टुप्
अणादितव्यादिगुणादियोगात्पदं बहुव्रीहिमतं च वीक्ष्य ।अनुक्तलिङ्गं च समूहनीयं कृतं यदि क्वापि बहुत्वभीतेः ॥ २२ ॥
35.4.22 · p. 405
उपेन्द्रवज्रा