कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

लान्तवर्गः · लतृतीयम्

लतृतीयम् ।

स्यादङ्गुली तु मातङ्गकर्णिकाकरशाखयोः ।अचलः पर्वते कीले निश्चलेऽप्यचला भुवि ॥ ५८ ॥
29.3.58 · p. 339
अनुष्टुप्
अञ्जलिः पुंसि कुडवे करसंपुटकेऽञ्जलिः ।अनलो वसुभेदेऽग्नावनिलो वसुवातयोः ॥ ५९ ॥
29.3.59 · p. 339
अनुष्टुप्
अवेलः पूगरागेऽपि रवतोयचशालयोः ।अपलापेऽप्यवेलं स्यादवेला पूगचूर्णयोः ॥ ६० ॥
29.3.60 · p. 339
अनुष्टुप्
अमला कमलायां स्यादमलं विशदेऽभ्रके ।स्यादरालः पुमान्सर्जे मत्तेभे कुटिलेऽन्यवत् ॥ ६१ ॥
29.3.61 · p. 339
अनुष्टुप्
अन्तःकपाटयोर्दण्डे कल्लोलेऽप्यर्गलं त्रिषु ।आभीलं न द्वयोः कष्टे त्रिष्वाभीलं भयानके ॥ ६२ ॥
29.3.62 · p. 340
अनुष्टुप्
मृगशीर्षशिरस्तारास्विल्वलाः स्युरथेल्वलः ।मीने दैत्यप्रभेदे च शृङ्गार उज्ज्वलः पुमान् ॥ ६३ ॥
29.3.63 · p. 340
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
उज्ज्वलो वाच्यवद्दीप्ते परिव्यक्तविकाशिषु ।उत्तालो मर्कटे श्रेष्ठे विकरालोत्कटे त्रिषु ॥ ६४ ॥
29.3.64 · p. 340
अनुष्टुप्
उत्पलं कुवले कुष्ठे निर्म्मांसे तु त्रिषूत्पलम् ।उत्फुल्लः करणे स्त्रीणामुत्ताने विकचेऽन्यवत् ॥ ६५ ॥
29.3.65 · p. 340
अनुष्टुप्
उत्ताल उद्गते श्रेष्ठेप्यूर्ध्वनालेऽपि वाच्यवत् ।उपला शर्करायां स्यादुपलो ग्रावरत्नयोः ॥ ६६ ॥
29.3.66 · p. 340
अनुष्टुप्
कदलीभपताकायां पताकायां मृगान्तरे ।रम्भायां चाथ कदली पृश्न्यां डिम्ब्यां च शाल्मलौ ॥ ६७ ॥
29.3.67 · p. 340
अनुष्टुप्
कन्दलं कलहे युद्धे नवाङ्कुरकपालयोः ।कलध्वनौ चाथ तरौ मृगभेदेऽपि कन्दली ॥ ६८ ॥
29.3.68 · p. 341
अनुष्टुप्
कपिलो मुनिभेदेऽग्नौ शुनि पिङ्गे तु वाच्यवत् ।कपिला शिंशपागोत्रभिद्वह्निदिग्दन्तयोषिति ॥ ६९ ॥
29.3.69 · p. 341
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रेणुकायां च कपिला कपालोऽस्त्री शिरोस्थनि ।घटादिशकले कुष्ठरोगभेदे व्रजेऽपि च ॥ ७० ॥
29.3.70 · p. 341
अनुष्टुप्
कमलं जलजे नीरे क्लोम्नि तोषे च भेषजे ।कमलो मृगभेदे स्यात्कमला श्रीवरस्त्रियाम् ॥ ७१ ॥
29.3.71 · p. 341
अनुष्टुप्
कम्बलो नागराजे ना सास्नायां च कुथे कृमौ ।अपि स्यादुत्तरासङ्गे क्लीबं पयसि कम्बलम् ॥ ७२ ॥
29.3.72 · p. 341
अनुष्टुप्
करालो दन्तुरे तुङ्गे भीषणेऽप्यभिधेयचत् ।करालो धूनतैले स्यात्करालं तु कुठेरके ॥ ७३ ॥
29.3.73 · p. 341
अनुष्टुप्
कल्लोलः ख्यात उल्लोलः प्रमोदपरिपन्थिषु ।काकोलो द्रोणाकाके स्याद्विषभेदकुलालयोः ॥ ॥ ७४ ॥
29.3.74 · p. 342
अनुष्टुप्metre not read in every linedoubled daṇḍa: ॥ ॥nearly अनुष्टुप्: pāda 1, syllable 5 णा (wrong syllable)
अपि काकोलकाकोल्यौ स्यातामोषधिभेदयोः ।काकीलस्तु कलाजीवे कामकेलिप्रणालयोः ॥ ७५ ॥
29.3.75 · p. 342
अनुष्टुप्
अपाश्रयमनोहारितरुच्छायार्थकोप्ययम् ।कामलः कामुके रोगभेदे मरुवसन्तयोः ॥ ७६ ॥
29.3.76 · p. 342
अनुष्टुप्
काहली तु तरुण्यां स्यात्काहलं भृशशुष्कयोः ।काहला वाद्यभाण्डस्य विशेषे काहलः खले ॥ ७७ ॥
29.3.77 · p. 342
अनुष्टुप्
किट्टालस्ताम्रकलशे लोहगूथेऽप्ययं पुमान् ।कीलालं रुधिरेऽपि स्यात्पानीयेऽपि नपुंसकम् ॥ ७८ ॥
29.3.78 · p. 342
अनुष्टुप्
कुकूलं शङ्कुसङ्कीर्णश्वभ्रे पुंसि तुषानले ।कुचेला विद्धकर्ण्यां स्यात्कुचेलो मलिनांशुके ॥ ७९ ॥
29.3.79 · p. 342
अनुष्टुप्
कुटिलं वाच्यवद्दुर्गे कुटिला निम्नगान्तरे ।कुण्डलं कर्णभूषायां तथा वलयपाशयोः ॥ ८० ॥
29.3.80 · p. 343
अनुष्टुप्
काञ्चनद्रौ गुडूच्यां च कुण्डली वर्तते स्त्रियाम् ।कुद्दालो युगपत्रे स्यात्कुद्दालो भूमिदारणे ॥ ८१ ॥
29.3.81 · p. 343
अनुष्टुप्
कुन्तलाः स्युर्जनपदे देशे केशे च कुन्तलः ।कुन्तलो लाङ्गलेऽपि स्याद्यवे भालेऽपि दृश्यते ॥ ८२ ॥
29.3.82 · p. 343
अनुष्टुप्
श्लोकच्छायाहरे चौरे श्याले मीने च कुम्भिलः ।कुरलः पक्षिभेदे स्यात्कुरलश्चूर्णकुन्तले ॥ ८३ ॥
29.3.83 · p. 343
अनुष्टुप्
कुलालः कुम्भकारेऽपि कुक्कुभे कौशिकेपि च ।कुवलं तूत्पले मुक्ताफलेऽपि बदरीफले ॥ ८४ ॥
29.3.84 · p. 343
अनुष्टुप्
कुशलं धर्मपर्याप्तिक्षेमेषु त्रिषु शिक्षिते ।वाच्यवत्केवलस्त्वेककृत्स्नयोः कुहनेऽपि च ॥ ८५ ॥
29.3.85 · p. 343
अनुष्टुप्
निणींते केवलं ज्ञानभेदे स्यात्केवली न ना ।मतः कौ वारिके केशद्रुमजातेऽपि कैशिलः ॥ ८६ ॥
29.3.86 · p. 344
अनुष्टुप्
कोमलं मृदुले नीरे मुनौ मद्ये च कोहलः ।गन्धोली वरटायां स्याद्भद्राशट्योरपि स्मृता ॥ ८७ ॥
29.3.87 · p. 344
अनुष्टुप्
विषे मानेऽपि गरलं गरलं तृणपूलके ।गोकिलो मुसले सीरे गोपालो गोपभूपयोः ॥ ८८ ॥
29.3.88 · p. 344
अनुष्टुप्
गैरिलो लोहचूर्णे स्याद्गौरिलो गौरसर्षपे ।ग्रन्थिलस्त्रिषु संग्रन्थौ ना करीरे विकङ्कते ॥ ८९ ॥
29.3.89 · p. 344
अनुष्टुप्
चञ्चला च तडिल्लक्ष्म्योश्चञ्चलश्चलकामिनोः ।वाते पुंस्यथ चत्वालः स्याद्गर्मे हेमकुण्डले ॥ ९० ॥
29.3.90 · p. 344
अनुष्टुप्
चन्द्रिलश्चन्द्रमौलौ च वास्तूके नापितेऽपि च ।चपलः क्षणिके शीघ्रे चञ्चलेऽप्यभिधेयवत् ॥ ९१ ॥
29.3.91 · p. 344
अनुष्टुप्
चपलः पारदे मीने शिलाभेदेऽपि चोरके ।चपला कमला विद्युत्पुंश्चलीपिप्पलीष्वपि ॥ ९२ ॥
29.3.92 · p. 345
अनुष्टुप्
चूडाला चक्रलायां स्याद्वाच्यवच्चूडयान्विते ।छगली छागयोषायां छगली वृद्धदारके ॥ ९३ ॥
29.3.93 · p. 345
अनुष्टुप्
छगलस्तु मतश्छागे छगलं नीलवाससि ।जगलो मेदके मद्ये कैतवे मदनद्रुमे ॥ ९४ ॥
29.3.94 · p. 345
अनुष्टुप्
जङ्गलस्त्रिषु निर्वारिदेशेऽस्त्री जङ्गलं पले ।जटिलस्तु जटायुक्ते जटिला मांसिकौषधौ ॥ ९५ ॥
29.3.95 · p. 345
अनुष्टुप्
जम्भलः पुंसि जम्बीरे जम्भलो देवतान्तरे ।जम्बूलो जम्बुविटपे जम्बूलः क्रकचच्छदे ॥ ९६ ॥
29.3.96 · p. 345
अनुष्टुप्
जम्बालः शैवले पङ्के जाङ्गलस्तु कपिञ्जले ।वाच्यवज्जङ्गलोद्भूते शूकशिम्ब्यां तु जाङ्गली ॥ ९७ ॥
29.3.97 · p. 345
अनुष्टुप्
जाङ्गुली विषविद्यायां जाङ्गुलं जालिनीफले ।स्यात्तण्डुलस्तु धान्यादिनिकरेऽपि विडङ्गके ॥ ९८ ॥
29.3.98 · p. 346
अनुष्टुप्
तमालः खड्गे तापिच्छे तिलके वरुणद्रुमे ।तरलश्चञ्चले खड्गे भासुरे त्रिषु पुंसि तु ॥ ९९ ॥
29.3.99 · p. 346
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ड्गे (wrong syllable)
हारमध्यमणौ मद्ययवाग्वोस्तरला स्त्रियाम् ।ताम्बूली नागवल्ल्यां स्यात्ताम्बूलं क्रमुके मतम् ॥ १०० ॥
29.3.100 · p. 346
अनुष्टुप्
तुमुलं रणसङ्घट्टे तुमुलस्तु कलिद्रुमे ।तैतिलो गण्डके पुसि तैतिलं करणान्तरे ॥ १०१ ॥
29.3.101 · p. 346
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 पु (wrong syllable)
दुकूलमद्वयोः क्षौमे दुकूलः सूक्ष्मवाससि ।धवलः सुन्दरे श्वेते त्रिषु पुंसि महावृषे ॥ १०२ ॥
29.3.102 · p. 346
अनुष्टुप्
धवली सौरभेय्यां स्यान्नकुलः पाण्डवान्तरे ।बभ्रौ च नकुली तु स्यात्कुक्कुट्यां मांसिकौषधौ ॥ १०३ ॥
29.3.103 · p. 346
अनुष्टुप्
नाकुली कुक्कुटीकन्दे नाकुली चव्यरास्नयोः ।नाभीलं नाभिगर्भाण्डे वङ्क्षणे चोत्तमस्त्रियः ॥ १०४ ॥
29.3.104 · p. 347
अनुष्टुप्
निचुलस्तु निचोले स्यान्निचुलो हिज्जलद्रुमे ।निर्माल्येऽप्यभ्रके क्लीबं विमले त्रिषु निर्मलम् ॥ १०५ ॥
29.3.105 · p. 347
अनुष्टुप्
निष्कलस्तु कलाशून्ये नष्टबीजेऽपि वाच्यवत् ।निष्कला तु मता तस्यां या नारी विगतार्त्तवा ॥ १०६ ॥
29.3.106 · p. 347
अनुष्टुप्
वर्तुलेऽपि चलेऽपि स्यान्निस्तलं वाच्यलिङ्गकम् ।नैपाली नवमाल्यां स्यात्कुनटीसुवहाख्ययोः ॥ १०७ ॥
29.3.107 · p. 347
अनुष्टुप्
पञ्चाली पुत्रिकागीत्योः पञ्चालो जनदेशयोः ।पटलं तु छदिर्नेत्ररुक्पिटके परिच्छदे ॥ १०८ ॥
29.3.108 · p. 347
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
न पुंसि वृन्दे पटलं पटोलं कर्कशच्छदे ।पटोलं वस्त्रभेदे स्याज्ज्योत्स्निकायां पटोल्यपि ॥ १०९ ॥
29.3.109 · p. 347
अनुष्टुप्
तिलपूर्णे पले पङ्के पललं राक्षसे पुमान् ।पाकलं कुष्ठभैषज्ये पाकलः कुञ्जरज्वरे ॥ ११० ॥
29.3.110 · p. 348
अनुष्टुप्
कुटपूर्वश्च तत्रैव नवपाके तु पाकली ।पाचलो राधनद्रव्ये दहने पवनेऽपि च ॥ १११ ॥
29.3.111 · p. 348
अनुष्टुप्
पाटला पाटलितरौ पुष्पे स्यात्पाटला न ना ।पाटली पाटलायां स्यादाशुव्रीहौ तु पाटलः ॥ ११२ ॥
29.3.112 · p. 348
अनुष्टुप्
पाटलः श्वेतरक्तेऽपि तद्वति त्रिषु पाटलम् ।मृत्पात्रभेदे वामायां वागुरायां च पातिली ॥ ११३ ॥
29.3.113 · p. 348
अनुष्टुप्
पातालं भूतलेऽप्यौर्वे बन्धक्यां भुवि पांशुला ।पांशुलः पुंश्चले शम्भुखट्वाङ्गे पांशुसंयुते ॥ ११४ ॥
29.3.114 · p. 348
अनुष्टुप्
पिङ्गलो मुनिभेदेऽग्नौ चण्डांशोः पारिपार्श्विके ।निधिभेदे कपौ रुद्रे पिङ्गलः कपिलेऽन्यवत् ॥ ११५ ॥
29.3.115 · p. 348
अनुष्टुप्
स्त्रियां करायिकावेश्या कुमुदस्त्रीषु पिङ्गला ।पिचुलो झबुके पुंसि निचुले वारिवायसे ॥ ११६ ॥
29.3.116 · p. 349
अनुष्टुप्
पिच्छिला शाल्मलौ सिन्धुभेदशिंशपयोः स्त्रियाम् ।स्त्रियामुपोदिकायां च पिच्छिलो विजिले त्रिषु ॥ ११७ ॥
29.3.117 · p. 349
अनुष्टुप्
पिञ्जलं कुशपत्रे स्यात्पीतेऽपि त्रिषु पिञ्जलम् ।पित्तलं तैजसद्रव्ये पित्तयुक्ते तु वाच्यवत् ॥ ११८ ॥
29.3.118 · p. 349
अनुष्टुप्
पिप्पला जलपिप्पल्यां बोधिवृक्षे तु पिप्पलः ।निरंशुले पक्षिभेदे पिप्पलः पिप्पलं जले ॥ ११९ ॥
29.3.119 · p. 349
अनुष्टुप्
वसनच्छेदभेदेऽपि कणायां तु च पिप्पली ।पुद्गलः सुन्दराकारे देहे चात्मनि पुद्गलः ॥ १२० ॥
29.3.120 · p. 349
अनुष्टुप्
पेशलो रुचिरे दक्षे चारुशीलेऽपि वाच्यवत् ।प्रस्खलो वाजिसन्नाहे त्रिषु ह्यन्तश्चले चले ॥ १२१ ॥
29.3.121 · p. 349
अनुष्टुप्
प्रतलः स्यात्संहतयोर्वामदक्षिणहस्तयोः ।पाताललोके प्रतलस्तताङ्गुलिकरेऽपि च ॥ १२२ ॥
29.3.122 · p. 350
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सं (wrong syllable)
वीणादण्डे प्रवालोऽस्त्री विद्रुमे नवपल्लवे ।फेनिलोऽरिष्टवृक्षे स्यात्फेनिलं बदरीफले ॥ १२३ ॥
29.3.123 · p. 350
अनुष्टुप्
मदनद्रुफले चैव सफेने फेनिलस्त्रिषु ।बन्धलस्त्वामले पुञ्जे पल्वले मत्तकुञ्जरे ॥ १२४ ॥
29.3.124 · p. 350
अनुष्टुप्
बहुलं व्योम्नि बहुला त्वेलानीलिकयोर्भुवि ।बहुलाः कृत्तिकासु स्युः कृष्णपक्षेऽनले पुमान् ॥ १२५ ॥
29.3.125 · p. 350
अनुष्टुप्
वहुलस्तु मतः प्राज्ये कृष्णवर्णेऽपि वाच्यवत् ।वार्दलो दुर्दिने पुंसि मसीघानेऽपि वार्द्दलः ॥ १२६ ॥
29.3.126 · p. 350
अनुष्टुप्
मङ्गला श्वेतदूर्वायां मङ्गलस्तु महीसुते ।मङ्गलं श्रेयसि क्लीबं तथा लब्धार्थरक्षणे ॥ १२७ ॥
29.3.127 · p. 350
अनुष्टुप्
मञ्जुलो जलरङ्कौ स्यान्मञ्जौ तु त्रिषु पेषलः ।मञ्जुलं शैवले कुञ्जे बिम्बेषु त्रिषु मण्डलम् ॥ १२८ ॥
29.3.128 · p. 351
अनुष्टुप्
मण्डलं निकुरुम्बेऽपि देशे द्वादशराजके ।कुष्ठाहिभेदे परिधौ चक्रवाले च मण्डलम् ॥ १२९ ॥
29.3.129 · p. 351
अनुष्टुप्
मण्डलं स्यान्मण्डलके सारमेये तु मण्डलः ।महिला तु महेलायां महिलाऽभीरुगुन्द्रयोः ॥ १३० ॥
29.3.130 · p. 351
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्म (wrong syllable)
माचलो वन्दिचौरे स्यादामये ग्राहयादसोः ।धत्तूरे सामके व्रीहौ मदनद्रौ च मातुलः ॥ १३१ ॥
29.3.131 · p. 351
अनुष्टुप्
समन्तात्तालमूल्याखुकर्ण्योस्तु मुसली स्त्रियाम् ।मुसली गृहगोधायामयोग्रे मुसलं मतम् ॥ १३२ ॥
29.3.132 · p. 351
अनुष्टुप्
काञ्च्यां शैलनितम्बे च खड्गबन्धे च मेखला ।मेखला कटिदेशे च रसालः सरसे त्रिषु ॥ १३३ ॥
29.3.133 · p. 351
अनुष्टुप्
रसाल इक्षौ चूते च रसालं बेलिसिह्लयोः ।रसाला मार्जितायां स्याज्जिह्वादूर्वाविदारिषु ॥ १३४ ॥
29.3.134 · p. 352
अनुष्टुप्
रामिलो रमणे कामे लाङ्गूलं पुच्छशेफयोः ।लाङ्गली जलपिप्पल्यां लाङ्गलं कुसुमान्तरे ॥ १३५ ॥
29.3.135 · p. 352
अनुष्टुप्
गृहदारुविशेषे च सीरे ताले च लाङ्गलम् ।लोहलः शृङ्खलाधार्ये त्रिषु त्वव्यक्तभाषिणि ॥ १३६ ॥
29.3.136 · p. 352
अनुष्टुप्
वण्टालः शूरयोर्युद्धे पुंसि नौकाखनित्रके ।वातुलो वातसंघाते वातले मारुताऽसहे ॥ १३७ ॥
29.3.137 · p. 352
अनुष्टुप्
वातलं राजकूष्माण्डबीजकोलास्थिबीजयोः ।वामिलो दाम्भिकेऽपि स्यात्त्रिषु वामेऽपि वामिलः ॥ १३८ ॥
29.3.138 · p. 352
अनुष्टुप्
विडालः पुंसि मार्जारे विडालो विहगान्तरे ।विपुलः पृथुलेऽगाधे मेरुपश्चिमपर्वते ॥ १३९ ॥
29.3.139 · p. 352
अनुष्टुप्
विमला शातलाभूमिमेदयोर्निर्म्मले त्रिषु ।विशालो वृक्षभेदे स्याद्विशाले विपुलेऽन्यवत् ॥ १४० ॥
29.3.140 · p. 353
अनुष्टुप्
विशाला त्विन्द्रवारुण्यामुज्जयिन्यां च दृश्यते ।वृषलः पुंसि शूद्रे स्याच्चन्द्रगुप्तेऽपि राजनि ॥ १४१ ॥
29.3.141 · p. 353
अनुष्टुप्
शकलं वल्कले खण्डे रागवस्तुत्वचोरपि ।क्लीबं पाथेयकुलयोर्म्मत्सरे त्रिषु शम्बलम् ॥ १४२ ॥
29.3.142 · p. 353
अनुष्टुप्
शयालुः शुन्यजगरे निद्राशीले तु वाच्यवत् ।शरालं नीरसोपाने वास्तुपोतेऽपि पञ्जरे ॥ १४३ ॥
29.3.143 · p. 353
अनुष्टुप्
ऋजौ वक्रे च शीले च शार्दूलो राक्षसान्तरे ।अष्टापदेऽपि व्याघेऽपि श्रेष्ठे स्यादुत्तरस्थितः ॥ १४४ ॥
29.3.144 · p. 353
अनुष्टुप्
शाल्मलिस्तु द्वयोर्वृक्षभेदे द्वीपान्तरेऽपि च ।शीतलं शैलजे पुष्पे काशीशे मलयोद्भवे ॥ १४५ ॥
29.3.145 · p. 353
अनुष्टुप्
शीते चासनपर्ण्यां च शीतलः शीतले त्रिषु ।शेवाले शीतलं क्लीबं शैलेयेऽपि च शीतलम् ॥ १४६ ॥
29.3.146 · p. 354
अनुष्टुप्
शृगाली तु शिवाभीत्योः शृगालः फेरुदैत्ययोः ।शृङ्खला निगडेऽपि स्यात्पुंस्कटीवस्त्रबन्धने ॥ १४७ ॥
29.3.147 · p. 354
अनुष्टुप्
शेवाले पद्मकाष्ठेऽपि शैवलं मतमद्वयोः ।शौष्कलः शुष्कमांसस्य पाणिके पिशिताशिनि ॥ १४८ ॥
29.3.148 · p. 354
अनुष्टुप्
श्मामलस्त्वसितेऽस्वच्छे श्यामवर्णे तु वाच्यवत् ।श्रद्धालुर्दोहदिन्यां स्याद्वाच्यवच्छ्रद्धयान्विते ॥ १४९ ॥
29.3.149 · p. 354
अनुष्टुप्
श्रीफली नीलिकाधात्र्योर्म्मालूरे श्रीफली पुमान् ।पण्डाली तु सरोजिन्या कामुकीतैलमानयोः ॥ १५० ॥
29.3.150 · p. 354
अनुष्टुप्
सङ्कुलं वाच्यवद्व्याप्तेऽस्पष्टार्थवचनेऽपि च ।सन्धिला तु सुरङ्गायां नदीमदिरयोरपि ॥ १५१ ॥
29.3.151 · p. 354
अनुष्टुप्