All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
नान्तवर्गः · नचतुर्थम्
नचतुर्थम् ।
अथर्वा द्विजभेदे स्याद्वेदेऽथर्व नपुंसकम् ॥ १५५ ॥
21.4.155 · p. 210
अधिष्ठानं प्रभावेऽपि पुरेऽन्यासनचक्रयोः ।अनूचानो विनीतेऽपि साङ्गवेदविचक्षणे ॥ १५६ ॥
21.4.156 · p. 211
अनुष्टुप्
नयनाग्रेऽप्यनूचानः पुमानेव क्वचिन्मतः ।अन्वासनं तु सेवायां स्नेहवस्तावुपासने ॥ १५७ ॥
21.4.157 · p. 211
अनुष्टुप्
अपाचीनं त्रिषु विपर्यस्ते दक्षिणसम्भवे ।जन्मभूम्यामभिजनः कुले ख्यातौ कुलध्वजे ॥ १५८ ॥
21.4.158 · p. 211
अनुष्टुप्
अभिपन्नोऽपराद्धेऽभिद्रुते ग्रस्ते विपद्गते ।दक्षिणे स्वीकृतेऽपि स्यादभिपन्नोऽभिधेयवत् ॥ १५९ ॥
21.4.159 · p. 211
अनुष्टुप्
अभिमानः पुमान्गर्वेऽज्ञानेऽप्रणयहिंसयोः ।अर्यमा मिहिरे सूर्यमुक्तायां पितृदैवते ॥ १६० ॥
21.4.160 · p. 211
अनुष्टुप्
अवदानं मतमिति वृत्तकर्म्मणि खण्डने ।तनुमध्येऽवलग्नः स्यात्संलग्ने त्वभिधेयवत् ॥ १६१ ॥
21.4.161 · p. 211
अनुष्टुप्
स्यादाकलनमाकाङ्क्षापरिसङ्ख्याविबन्धने ।आच्छादनं पिधाने स्याद्वसनेनापवारणे ॥ १६२ ॥
21.4.162 · p. 212
अनुष्टुप्
आतञ्चनं प्रतीवापजवनाप्यायने मतम् ।आत्मयोनिर्विरिञ्चे स्यादात्मयोनिर्मनोभवे ॥ १६३ ॥
21.4.163 · p. 212
अनुष्टुप्
आवेशनं शिल्पिगृहे भूतावेशे प्रवेशने ।आयोधनं भवेद्युद्धे वधेप्यायोधनं मतम् ॥ १६४ ॥
21.4.164 · p. 212
अनुष्टुप्
आराधनं तु पूजायां पाकप्रापणयोरपि ।आस्कन्दनं तिरस्कारे तथा संशोषणे रणे ॥ १६५ ॥
21.4.165 · p. 212
अनुष्टुप्
उत्पतनं समुत्पत्तौ भवेदूर्द्ध्वगतावपि ।उत्सादनं समुल्लेखोद्वर्त्तनोद्वासनार्थकम् ॥ १६६ ॥
21.4.166 · p. 212
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
भवेदुदयनो वत्सराजे कलशसम्भवे ।उद्वर्त्तनमुत्पतनाऽपावर्त्तनविलेपने ॥ १६७ ॥
21.4.167 · p. 212
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
उद्वाहनं द्विसीत्ये स्याद्रज्ज्वावुद्वाहिनी मता ।अंशुके रूपधानं स्याद्विशेषप्रणयेपि च ॥ १६८ ॥
21.4.168 · p. 213
अनुष्टुप्
उपासनं शराभ्यासे शुश्रूषाहिंसयोरपि ।कञ्चुकी सौविदल्लेपि सर्प्पे खिड्गेऽपि जोङ्गके ॥ १६९ ॥
21.4.169 · p. 213
अनुष्टुप्
शिरीषाभ्रातकाश्वत्थगर्दभाण्डे कपीतनः ।कलध्वनिः कलरवे कपीतपिकबर्हिषु ॥ १७० ॥
21.4.170 · p. 213
अनुष्टुप्
कलापी प्लक्षवृक्षे स्यान्मेघनादानुलासिनि ।कात्यायनो वररुचौ गौर्यां कात्यायनी स्त्रियाम् ॥ १७१ ॥
21.4.171 · p. 213
अनुष्टुप्
काषायवस्त्रार्द्धवृद्धविधवायामपि स्मृता ।रक्तचन्दनपत्राङ्गद्रुमभेदे कुचन्दनम् ॥ १७२ ॥
21.4.172 · p. 213
अनुष्टुप्
कुण्डली वरुणे केकिमृगाहिषु सकुण्डले ।कुम्भयोनिरगस्त्ये स्यादर्जुनस्य गुरावपि ॥ १७३ ॥
21.4.173 · p. 213
अनुष्टुप्
केशरी सिंहपुन्नागनागकेशरवाजिषु ।क्रौञ्चादनस्तु पिप्पल्यां चिञ्चोटकमृणालयोः ॥ १७४ ॥
21.4.174 · p. 214
अनुष्टुप्
स्वकामिनी तु निर्दिष्टा चर्च्चिकाचिल्लयोषितोः ।खड्गधेनुः स्त्रियां खड्गपुत्रिकागण्डकस्त्रियोः ॥ १७५ ॥
21.4.175 · p. 214
अनुष्टुप्
गदयित्नुस्तु जल्पाके कामकामुकयोरपि ।गवादनीन्द्रवारुण्यां गवां घासादपाश्रये ॥ १७६ ॥
21.4.176 · p. 214
अनुष्टुप्
घनाघनौ वर्षुकाब्दे शक्रे मत्तद्विपे घने ।अन्योन्याद्घट्टके चैव घातुके तु घनाघनः ॥ १७७ ॥
21.4.177 · p. 214
अनुष्टुप्
घोषयित्नुः पिके विप्रे चित्रभानुरिनेऽनले ।चोलकी नागरङ्गे स्यात्करीरे किष्कुपर्वणि ॥ १७८ ॥
21.4.178 · p. 214
अनुष्टुप्
वर्त्तते कङ्कक…बुधाराटेषु जलाटनः ।जलाटनं जलभ्रान्तौ जलौकायां जलाटनी ॥ १७९ ॥
21.4.179 · p. 214
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जलमीनश्चिलिचिमे इञ्चाकशिशुमारयोः ।तपोधना तु मुण्डीर्यां तपस्विनि तपोधनः ॥ १८० ॥
21.4.180 · p. 215
अनुष्टुप्
तपस्वी तापसे चानुकम्प्ये चाथ तपस्विनी ।मासिकाकटुरोहिण्योस्तरस्वी वेगिशूरयोः ॥ १८१ ॥
21.4.181 · p. 215
अनुष्टुप्
दुर्न्नामा पङ्कशुक्तौ दुर्न्नाम क्लीबमर्शसि ।देवसेना तु गीर्वाणसेना देवेन्द्रकन्ययोः ॥ १८२ ॥
21.4.182 · p. 215
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्विजन्मा ब्राह्मणेऽपि स्याद् द्विजन्मा दशने खगे ।करिमुद्गरिकानागयष्ट्योर्नागाञ्जना स्त्रियाम् ॥ १८३ ॥
21.4.183 · p. 215
अनुष्टुप्
मतं भवेन्निधुवनं सुरते कम्पनेऽपि च ।स्यान्निरासे निरसनं वधे निष्ठीवने तथा ॥ १८४ ॥
21.4.184 · p. 215
अनुष्टुप्
निर्वासनं तु निर्वासहिंसयोर्गतवासरे ।निर्भत्सनं तु निर्दिष्टं खलीकारेऽप्यलक्तके ॥ १८५ ॥
21.4.185 · p. 215
अनुष्टुप्
दाने न्यासार्पणे वैरशुद्धौ निर्यातनं मतम् ।श्रुतौ दृष्टौ निशमनं दृष्ट्यालोचे निशामनम् ॥ १८६ ॥
21.4.186 · p. 216
अनुष्टुप्
तपस्विनी पुनर्मांसी कटुरोहिणिकाऽपि च ।परिज्वा तु पुमानिंदौ याज्ञिके परिचारके ॥ १८७ ॥
21.4.187 · p. 216
अनुष्टुप्
पलाशी राक्षसे वृक्षेऽप्यथ पुण्यजनः पुमान् ।रक्षःसज्जनयज्ञेषु मूर्खे नीचे पृथग्जनः ॥ १८८ ॥
21.4.188 · p. 216
अनुष्टुप्
भवेत्प्रजननं योनौ जन्मप्रजनयोरपि ।प्रणिधानं प्रयत्ने स्यात्समाधौ च प्रवेशने ॥ १८९ ॥
21.4.189 · p. 216
अनुष्टुप्
प्रतिमानं प्रतिकृतौ गजदन्तान्तरालके ।प्रतिपन्नः प्रतिज्ञाते विज्ञातेऽप्यभिधेयवत् ॥ १९० ॥
21.4.190 · p. 216
अनुष्टुप्
प्रतिपन्नस्तु संस्कारे लिप्सायामप्युपग्रहे ।प्रत्यर्थी वाच्यलिङ्गः स्याद्विद्वेषिप्रतिवादिनोः ॥ १९१ ॥
21.4.191 · p. 216
अनुष्टुप्
प्रयोजनं मतं कार्ये हेतौ च स्यात्प्रयोजनम् ।भवेत्प्रवचनं वेदे प्रकृष्टवचनेऽपि च ॥ १९२ ॥
21.4.192 · p. 217
अनुष्टुप्
प्रस्फोटनं तु सूर्पे स्यात्ताडनेऽपि प्रकाशने ।प्रसाधनी कंकतिकासिध्द्योर्वेशे प्रसाधनम् ॥ १९३ ॥
21.4.193 · p. 217
अनुष्टुप्
क्लीबं प्रहसनं भङ्गे प्रहासाक्षेपयोरपि ।फलकी राजसफरे तथा फलकपाणिके ॥ १९४ ॥
21.4.194 · p. 217
अनुष्टुप्
वर्द्धमानः शरावैरण्डयोः प्रश्नान्तरेऽच्युते ।दृश्यते वर्द्धमानस्तु वृद्धिमत्यपि वाच्यवत् ॥ १९५ ॥
21.4.195 · p. 217
अनुष्टुप्
वारकी द्विषि पाथौघौ पर्णाजीवे हयान्तरे ।वारासनं वाःसदने शूलापद्वारपालयोः ॥ १९६ ॥
21.4.196 · p. 217
अनुष्टुप्
परमेष्ठिनि भूतात्मा भूतात्मा पिङ्गलेऽपि च ।मदयित्नुर्मतो मेघे मदयित्नुस्तु शीधुनि ॥ १९७ ॥
21.4.197 · p. 217
अनुष्टुप्
महाधनं महामूल्ये चारुवस्त्रेऽपि सिह्लके ।महामुनिरगस्त्ये स्याद्धान्याकागस्त्ययोरपि ॥ १९८ ॥
21.4.198 · p. 218
अनुष्टुप्
महासेनो विशाखेऽपि महासेनापतावपि ।मातुलानी तु भङ्गायां कलाये मातुलस्त्रियाम् ॥ १९९ ॥
21.4.199 · p. 218
अनुष्टुप्
मालुधानश्चित्रसर्पे महापद्मे लतान्तरे ।मालुधान्यथ मेधावी वाच्यवन्मेधयान्विते ॥ २०० ॥
21.4.200 · p. 218
अनुष्टुप्
ब्राह्म्यां मेधाविनी ख्याता गरुडेपि रसायनः ।रसायनं जराव्याधिहरे विषविडङ्गयोः ॥ २०१ ॥
21.4.201 · p. 218
अनुष्टुप्
राजादनं प्रियालद्रौ क्षीरिकायां च किंशुके ।ललामवल्ललामं च चिह्ने रम्ये विभूषणे ॥ २०२ ॥
21.4.202 · p. 218
अनुष्टुप्
शृङ्गे प्रधाने लाङ्गूले प्रभावध्वजवाजिषु ।पुण्ड्रेऽपि लाङ्गली तु स्यान्नालिकेरे हलायुधे ॥ २०३ ॥
21.4.203 · p. 218
अनुष्टुप्
वनश्वा जम्बुके व्याघ्रे गन्धमार्जारकेऽपि च ।विरोचनोऽर्के दहने चन्द्रे प्रह्लादनन्दने ॥ २०४ ॥
21.4.204 · p. 219
अनुष्टुप्
तरलायां लसद्वेश्याङ्गनायां च विलेपनी ।विलासी भोगिनि व्याले विश्वप्सा वह्निचन्द्रयोः ॥ २०५ ॥
21.4.205 · p. 219
अनुष्टुप्
विषयि त्विन्द्रिये क्लीबं वाच्यवद्विषयान्विते ।विषयी स्यान्मनसिजे लव्धे वैषयिके नृपे ॥ २०६ ॥
21.4.206 · p. 219
अनुष्टुप्
अनधीते भुजिष्ये च विषाणी शृङ्गिनागयोः ।विष्वक्सेनोऽच्युते विष्वक्सेना तु फलिनीद्रुमे ॥ २०७ ॥
21.4.207 · p. 219
अनुष्टुप्
विसर्जनं परित्यागे दाने सम्प्रेषणे वधे ।विस्मापनो हरिश्चन्द्रपुरे ना कुहके स्मरे ॥ २०८ ॥
21.4.208 · p. 219
अनुष्टुप्
मतं विहननं घाते पिञ्जने तूलधूनने ।नानाविडम्बे हिंसाया मर्दनेऽपि विहेठनम् ॥ २०९ ॥
21.4.209 · p. 219
अनुष्टुप्
वृक्षादनी वृक्षरुहाविदारीकन्दयोर्मता ।वृक्षादनं मधुच्छत्रे कुठाराश्वत्थयोः पुमान् ॥ २१० ॥
21.4.210 · p. 220
अनुष्टुप्
वैरोचनस्तु बल्यर्कपुत्रयोः सुगतान्तरे ।व्यवायी द्रव्यभेदे स्यात्कामुकेऽप्यभिधेवत् ॥ २११ ॥
21.4.211 · p. 220
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शिखरी स्यादपामार्गे गिरौ कोट्टेऽपि शाखिनि ।शिखण्डी शरभिद्भीष्मद्विषोः केकिकलापयोः ॥ २१२ ॥
21.4.212 · p. 220
अनुष्टुप्
शिखण्डिनी तु गुञ्जायां यूथिकायां शिखण्डिनी ।शृङ्गारी चारुवेशेऽपि कामुके क्रमुके गजे ॥ २१३ ॥
21.4.213 · p. 220
अनुष्टुप्
मता श्लेष्मघना मल्ल्यां केतकीभक्तसज्जयोः ।सदादानोऽभ्रमातङ्गे हेरम्बे गन्धहस्तिनि ॥ २१४ ॥
21.4.214 · p. 220
अनुष्टुप्
सनातनो हरे विष्णौ पितॄणामतिथौ स्थिरे ।नित्येऽप्यथ समापन्नं प्राप्ते क्लिष्टसमाप्तयोः ॥ २१५ ॥
21.4.215 · p. 220
अनुष्टुप्
समापन्नं वधे क्लीबं समाप्तौ तु समापनम् ।समापनं परिच्छेदे समाधाने च मारणे ॥ २१६ ॥
21.4.216 · p. 221
अनुष्टुप्
समादानं समीचीनग्रहणे नित्यकर्म्मणि ।समुत्थानं मतं रोगनिर्णयेऽपि समुद्यमे ॥ २१७ ॥
21.4.217 · p. 221
अनुष्टुप्
सम्मूर्छनमभिव्याप्तौ सम्मूर्छायां च मोहने ।संवाहनं तु भारादेर्वाहनेऽप्यङ्गमर्दने ॥ २१८ ॥
21.4.218 · p. 221
अनुष्टुप्
स्यात्संवदनमालोचे संवादे च वशीकृतौ ।सरोजिनी तु पद्मिन्यां सरोजे च सरोवरे ॥ २१९ ॥
21.4.219 · p. 221
अनुष्टुप्
सामयोनिस्तु सामोत्थे मातङ्गे परमेष्ठिनि ।सामिधेनी ऋचि प्रोक्ता सामिधेनी समिध्यपि ॥ २२० ॥
21.4.220 · p. 221
अनुष्टुप्
मतं सारसनं काञ्च्यामुरस्त्रे च तनुत्रिणाम् ।सुकर्म्मा योगभेदेऽपि सुकर्मा देवशिल्पिनि ॥ २२१ ॥
21.4.221 · p. 221
अनुष्टुप्
सुदर्शनं सुरपुरे हरेश्चक्रे सुदर्शनः ।सुदर्शना मेरुजम्ब्वामाज्ञायामोषधीभिदि ॥ २२२ ॥
21.4.222 · p. 222
अनुष्टुप्
त्रिषु नेत्रानन्दकरे सुदामा त्वम्बुदे गिरौ ।सुधन्वा धीरधानुष्के सुधन्वा विश्वकर्मणि ॥ २२३ ॥
21.4.223 · p. 222
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न (wrong syllable)
सुपर्वा त्रिदशे वंशे शरे धूमे प्रपर्वणि ।सुयामुनो वत्सराजे सौधेऽप्यभ्रान्तरे हरौ ॥ २२४ ॥
21.4.224 · p. 222
अनुष्टुप्
सौदामिनी तडिद्भेदविद्युतोरप्सरोन्तरे ।यमपुर्यां संयमनी व्रते संयमनं मतम् ॥ २२५ ॥
21.4.225 · p. 222
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सं (wrong syllable)
स्तनयित्नुर्वने मेघस्तने मृत्यौ गदेऽपि च ।हर्षयित्नुः सुते पुंसि कनके तु नपुंसकम् ॥ २२६ ॥
21.4.226 · p. 222
अनुष्टुप्