कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

पान्तवर्गः · पचतुर्थम्

पचतुर्थम् ।

अपलापोऽपलपने प्रेमापह्नवयोरपि ॥ २३ ॥
22.4.23 · p. 231
अभिरूपो बुधे रम्ये प्राप्तरूपसुरूपवत् ।अवलेपस्तु दोषे स्याद्गर्वे लेपे च सङ्गमे ॥ २४ ॥
22.4.24 · p. 231
अनुष्टुप्
उपतापो मतः पुंसि गदोत्तापत्वरार्थकः ।उपयापो विक्षेपे स्यात्तथा भेदेऽवदारणे ॥ २५ ॥
22.4.25 · p. 231
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
जलकूपी पुष्करिण्यां कूपगर्भेऽपि सा स्मृता ।नागपुष्पस्तु पुन्नागे चम्पके नागकेसरे ॥ २६ ॥
22.4.26 · p. 231
अनुष्टुप्
परिकम्पे मतो भीतौ परिकम्पः प्रकम्पने ।परीवापो जलस्थाने पर्युप्तौ च परिच्छदे ॥ २७ ॥
22.4.27 · p. 231
अनुष्टुप्
पिण्डपुष्पमशोके स्याज्जपापुष्पेऽपि पंकजे ।बहुरूपः स्मरहरे स्वभूसरटधूनके ॥ २८ ॥
22.4.28 · p. 232
अनुष्टुप्
मेघपुष्पं तु पिण्डाभे जलनादेययोरपि ।विप्रलापो विरोधोक्तावपार्थवचनेऽपि च ॥ २९ ॥
22.4.29 · p. 232
अनुष्टुप्
वीजपुष्पं मरुबके मतं दमनकद्रुमे ।वृकधूपस्तु सरलद्रवकृत्रिमधूपयोः ॥ ३० ॥
22.4.30 · p. 232
अनुष्टुप्
वृषाकपिर्महादेवे कृष्णपावकयोरपि ।हेमपुष्पमशोके स्याज्जवापुष्पेऽपि चम्पके ॥ ३१ ॥
22.4.31 · p. 232
अनुष्टुप्