कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

बान्तवर्गः · बतृतीयम्

बतृतीयम् ।

कदम्बं निकुरुम्बे स्यान्नीपसिद्धार्थयोः पुमान् ।गजाह्वा गजपिप्पल्यां गजाह्वं हस्तिनापुरे ॥ ८ ॥
24.3.8 · p. 235
अनुष्टुप्
गन्धर्वो मृगभेदे स्याद्गायने खेचरे हये ।अन्तराभवसिद्धे च रससिद्धे च कोकिले ॥ ९ ॥
24.3.9 · p. 235
अनुष्टुप्
गोडुम्बः शीर्णवृक्षेऽपि गवादिन्याः फलेपि च ।द्विजिह्वः पन्नगे पुंसि द्विजिह्वः पिशुने त्रिषु ॥ १० ॥
24.3.10 · p. 235
अनुष्टुप्
कटीचक्रे नितम्बः स्याच्छिखरिस्कंघरोधसोः ।प्रलम्बो लम्बने दैत्ये तालाङ्कुरकशाखयोः ॥ ११ ॥
24.3.11 · p. 235
अनुष्टुप्
प्रालम्बो हारभेदेऽपि त्रपुषेपि पयोधरे ।भूजम्बूरपि गोडुम्बे विकङ्कतफले स्त्रियाम् ॥ १२ ॥
24.3.12 · p. 235
अनुष्टुप्
हेरम्बो महिषे लम्बोदरशूरत्वगर्विते ।
24.3.6 · p. 235