कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

अव्ययानि · थान्तानि

थ०

अथाऽथो च शुभे प्रश्ने साकल्यारम्भसंशये ॥ ३३ ॥
36.9.33 · p. 411
अनन्तरेऽप्यन्यथात्वपरार्थवितथार्थयोः ।तथा सादृश्यनिर्देशनिश्चयेषु समुच्चये ॥ ३४ ॥
36.9.34 · p. 411
अनुष्टुप्
कारणस्योपपत्तावप्युद्देशप्रतिवाक्ययोः ।यथाऽनुमाने सादृश्ये निर्देशोद्देशयोरपि ॥ ३५ ॥
36.9.35 · p. 412
अनुष्टुप्
कारणस्योपपत्तौ च वृथा तु विधिवर्जिते ।वृथा निष्कारणे वन्ध्ये सर्वथा हेतुवादयोः ॥ ३६ ॥
36.9.36 · p. 412
अनुष्टुप्
उत्प्राधान्ये प्रकाशे च मोक्षबन्धोर्द्ध्वकर्म्मसु ।प्राबल्यलाभभावेषु विभागाऽस्वास्थ्यशक्तिषु ॥ ३७ ॥
36.9.37 · p. 412
अनुष्टुप्
तत्कारणे तदात्वे च हेतुयद्यर्थयोस्तु यत् ।
36.9.6 · p. 412