कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

णान्तवर्गः · णपञ्चमम्

णपञ्चमम् ।

अवग्रहणमाख्यातं प्रतिरोधेऽप्यनादरे ।अथाऽवतारणं भूताद्यावेशेप्यम्बरेऽर्चने ॥ १११ ॥
16.4.111 · p. 118
अनुष्टुप्
आख्येयभागेऽध्याहारग्रन्थे स्यादवतारणा ।निन्दोपालम्भनियमालापेषु परिभाषणम् ॥ ११२ ॥
16.4.112 · p. 118
अनुष्टुप्
प्रविदारणमित्येतत्सम्मतं दारणे रणे ।मण्डूकपर्णः स्योनाकेऽप्यलके च कपीतने ॥ ११३ ॥
16.4.113 · p. 118
अनुष्टुप्
मण्डूकपर्णी मञ्जिष्ठाब्राह्मीगोजिह्विकास्वपि ।स्यान्मत्तवारणः पुंसि मददुर्दान्तवारणे ॥ ११४ ॥
16.4.114 · p. 118
अनुष्टुप्
क्लीबं प्रासादवीथीनां वरण्डे चाप्यपाश्रये ।विभीतकतरौ पुंसि रोमाञ्चे रोमहर्षणम् ॥ ११५ ॥
16.4.115 · p. 118
अनुष्टुप्
वातरायण उन्मत्ते मतः कूटे च मार्गणे ।शरसंक्रमणे किञ्चित्करेपि करपत्रके ॥ ११६ ॥
16.4.116 · p. 119
अनुष्टुप्