All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
क्षान्तवर्गः · क्षतृतीयम्
क्षतृतीयम् ।
अध्यक्षः स्यादधिकृते प्रत्यक्षेऽप्यभिधेयत् ।आरक्षं रक्षणीयेऽपि शिरोकर्म्मणि दन्तिनाम् ॥ १५ ॥
35.3.15 · p. 404
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उत्प्रेक्षा तु मता काव्याऽलङ्काराऽनवधानयोः ।गवाक्षी त्विन्द्रवारुण्यां पुंसि जालककीशयोः ॥ १६ ॥
35.3.16 · p. 404
अनुष्टुप्
गोरक्षो नागरङ्गे स्याद्गवां च परिरक्षके ।मृगाक्षी मृगनेत्रायामिन्द्रवारुणिकामिनोः ॥ १७ ॥
35.3.17 · p. 404
अनुष्टुप्
रक्ताक्षः सैरिभे क्रूरे पारावतचकोरयोः ।समीक्षा तत्त्वे बुद्धौ स्याद्ग्रन्थभेदे निभालने ॥ १८ ॥
35.3.18 · p. 404
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्त्वे (wrong syllable)