कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

सान्तवर्गः · सद्वितीयम्

सद्वितीयम् ।

कासूर्विकलवाचि स्यात्कासूः शक्त्यायुधे स्त्रियाम् ।कंसो दैत्यान्तरे कांस्ये कांस्यभाजनमानयोः ॥ २ ॥
33.2.2 · p. 385
अनुष्टुप्
स्याद्गुत्सः स्तबके स्तम्बे हारभिद्ग्रन्थिपर्णयोः ।गोसः प्रभाते पुंस्येव गोसो गन्धरसेऽपि च ॥ ३ ॥
33.2.3 · p. 385
अनुष्टुप्
चासः सुवर्णचूडे स्यात्प्रभेद इक्षुपर्वणः ।मणिदोषे भये त्रासो दासो भृत्येऽपि धीवरे ॥ ४ ॥
33.2.4 · p. 385
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
शूद्रेऽपि दानपात्रेऽपि चेटीसिंनकयोः स्त्रियाम् ।नासा तु नासिकायां स्यान्नासा द्वारोर्द्ध्वदारुणि ॥ ५ ॥
33.2.5 · p. 385
अनुष्टुप्
प्रसूर्मातरि कन्दल्यामश्वायां पुंसि वीरुधि ।वसुर्ना देवभेदे च योक्त्रे वह्नौ युधे त्रिषु ।वसु वृद्ध्यौषधे रत्नेऽपि श्यामे हट्टके घने ॥ ६ ॥
33.2.6 · p. 386
अनुष्टुप्
वाच्यवन्मधुरेऽपि स्याद्भाः प्रभावे रुचि स्त्रियाम् ।भासस्तु भासि गृध्रे च गोष्ठकुक्कुटकेऽपि च ॥ ७ ॥
33.2.7 · p. 386
अनुष्टुप्
मांसं स्यादामिषे मांसी कक्कोलीजटयोः स्त्रियाम् ।माः सुधीदीधितौ मासे चन्द्रे चन्द्रात्परोऽपि सः ॥ ८ ॥
33.2.8 · p. 386
अनुष्टुप्
मिसिः स्त्री मधुरीमांस्योः शतपुष्पाजमोदयोः ।प्रसस्तु मुहिमूहे स्यान्मूसो मास्यामपि स्मृतः ॥ ९ ॥
33.2.9 · p. 386
अनुष्टुप्
रसः स्वादेऽपि तिक्तादौ शृङ्गारादौ द्रवे विषे ।पारदे धातुवीर्याम्बुरागे गन्धरसे तनौ ॥ १० ॥
33.2.10 · p. 386
अनुष्टुप्
रसो घृतादावाहारपरिणामोद्भवेऽपि च ।रसा जिह्वास्रुवापाठाशल्लकीकङ्गुषु स्त्रियाम् ॥ ११ ॥
33.2.11 · p. 386
अनुष्टुप्
रासस्तु गोपक्रीडायां भाषाशृङ्खलके ध्वनौ ।पुत्रादौ तर्णके वर्षे वत्सो वत्सं तु वक्षसि ॥ १२ ॥
33.2.12 · p. 387
अनुष्टुप्
वासो गृहेऽप्यवस्थाने वासा स्यादाटरूषके ।मुनिविस्तारयोर्व्यासः शंसा वचनवाञ्छयोः ॥ १३ ॥
33.2.13 · p. 387
अनुष्टुप्
हिंसा चौर्यादिवधयोः हंसः सूर्यमरालयोः ।कृष्णेङ्गवाते निर्ल्लोभनृपतौ परमात्मनि ॥ १४ ॥
33.2.14 · p. 387
अनुष्टुप्
योगमन्त्रादिभेदे च मत्सरे तुरगान्तरे ।
33.2.14 · p. 387