कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

भान्तवर्गः · भद्वितीयम्

भद्वितीयम् ।

-कुम्भो राश्यन्तरे घटे ॥ २ ॥
25.2.2 · p. 237
समाधौ गजमूर्द्ध्वांशे कुम्भकर्णसुते विटे ।कुम्भी स्यात्पाटला वारिपर्णी पिठरकट्फले ॥ ३ ॥
25.2.3 · p. 237
अनुष्टुप्
कुम्भं गुग्गुलुवृक्षे स्यात्त्रिवृतायां च न द्वयोः ।गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके ॥ ४ ॥
25.2.4 · p. 237
अनुष्टुप्
जम्भो दन्तेऽपि जम्बीरे दैत्यभेदेऽपि भक्षणे ।जृम्भो विकासे पुंस्येव जृम्भस्तु त्रिषु जृम्भणे ॥ ५ ॥
25.2.5 · p. 237
अनुष्टुप्
डिम्भस्तु बालिशे पोते दम्भः कैतवकल्कयोः ।दृन्भूः सूर्ये पवौ नाभिर्ना क्षत्रे चक्रवर्त्तिनि ॥ ६ ॥
25.2.6 · p. 237
अनुष्टुप्
द्वयोः प्रधानचक्रान्तःप्राण्यङ्गेषु मदे स्त्रियाम् ।निभस्तु सदृशे व्याजे संपूर्वः स्तुल्य एव सः ॥ ७ ॥
25.2.7 · p. 237
अनुष्टुप्
रम्भा कदल्यप्सरसो रम्भो वैणवदण्डके ।परिपूर्वस्तु संश्लेषे विभुर्नित्ये शिवे प्रभौ ॥ ८ ॥
25.2.8 · p. 238
अनुष्टुप्
शुम्भः स्याद्ब्रह्मशिवयोरर्हत्यपि च केशवे ।योगे शुभः शुभं क्षेमे शोभा कान्तीच्छयोर्मता ॥ ९ ॥
25.2.9 · p. 238
अनुष्टुप्
सभा सामाजिके गोष्ठ्यां धूनमन्दिरयोः सभा ।स्तम्भो जडत्वे स्थूणायां स्वभूर्गोविन्दवेधसोः ॥ १० ॥
25.2.10 · p. 238
अनुष्टुप्