कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

डान्तवर्गः · डतृतीयम्

डतृतीयम् ।

कारण्डो मधुकोषाऽसिकारण्डवदलाढके ।कूष्माण्डो गणभेदे स्यात्कर्कारुभ्रूणयोरपि ॥ २८ ॥
14.3.28 · p. 94
अनुष्टुप्
कूष्माण्डी चण्डिकायां स्यादपि स्यादौषधीभिदि ।कोदण्डो देशदेऽपि कोदण्डः कार्मुके भ्रुवि ॥ २९ ॥
14.3.29 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गारुडं स्यान्मरकते विषशास्त्रेऽपि गारुडम् ।गारुडं गारुडभवे तरण्डो भेलके पुमान् ॥ ३० ॥
14.3.30 · p. 95
अनुष्टुप्
वडिशीसूत्रसंबद्धतरद्वस्तुनि नावि च ।तित्तिडो दैत्यभेदे स्यात् तित्तिडो यमचेटके ॥ ३१ ॥
14.3.31 · p. 95
अनुष्टुप्
वृक्षभेदेऽपि वृक्षाम्लबिंबयोरपि तिन्तिडी ।द्राविडो वेधमुख्ये स्यान्नीवृदन्तरसङ्ख्ययोः ॥ ३२ ॥
14.3.32 · p. 95
अनुष्टुप्
निर्गुण्डीन्द्राणिकानीलशेफाल्योः करहाटके ।पिचण्डः पुंसि जठरे पशोरवयवेपि च ॥ ३३ ॥
14.3.33 · p. 95
अनुष्टुप्
पूत्यण्डः श्वाविद्गन्धमृगयोर्गन्धकीटके ।प्रकाण्डोस्त्री तरुस्कन्धे प्रशस्ते विटपेऽपि च ॥ ३४ ॥
14.3.34 · p. 95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्वा (syllables merged)
प्रचण्डो दुर्वहे श्वेतकरवीरे प्रतापिनि ।वरण्डो मुखरोगे स्यादंतरावेदिवृन्दयोः ॥ ३५ ॥
14.3.35 · p. 95
अनुष्टुप्
मतो दुष्ठिणि वार्तण्डो वार्तण्डः स्याद्विहङ्गमे ।वारुण्डी द्वारपिण्ड्यां स्याद् वारुण्डः कर्णदृङ्मले ॥ ३६ ॥
14.3.36 · p. 96
अनुष्टुप्
फणिराजेऽथ वारुण्डः सेकपात्रेऽपि मुद्गरे ।भेरुण्डा यक्षिणीदेवीभेदयोस्त्रिषु भीषणे ॥ ३७ ॥
14.3.37 · p. 96
अनुष्टुप्
मार्त्तण्डस्तु मतश्चण्डकिरणक्रोडयोरयम् ।मारण्डस्तु भुजङ्गाण्डे पथि गोमयमण्डले ॥ ३८ ॥
14.3.38 · p. 96
अनुष्टुप्
वरण्डा सारिकाखड्गधेनुवर्त्तिषु वर्तते ।वितण्डा वादभेदे स्यात् करवीर्यां शिलाह्वये ॥ ३९ ॥
14.3.39 · p. 96
अनुष्टुप्
कच्छीशाके च सा ज्ञेया शिखण्डो बर्हिचूडयोः ।सपिण्डः पुंसि दायादे सपिण्डस्तनयेऽपि च ।सरण्डः सरटे धूर्त्ते सरण्डो भूषणान्तरे ॥ ४० ॥
14.3.40 · p. 96
अनुष्टुप्