कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

मान्तवर्गः · मतृतीयम्

मतृतीयम् ।

अधमः कुत्सिते न्यूनेऽप्यागमः शास्त्र आगतौ ॥ ४२ ॥
26.3.42 · p. 248
आश्रमो ब्रह्मचर्यादौ मुनिस्थाने मठे स्त्रियाम् ।उत्तमा दुग्धिकायां स्यादुत्कृष्टे तु त्रिषूत्तमम् ॥ ४३ ॥
26.3.43 · p. 248
अनुष्टुप्
कलमः शालिलेखन्योश्चौरे लाक्षारसेऽपि च ।कुसुमं पुष्पफलयोरार्त्तवे लोचनामये ॥ ४४ ॥
26.3.44 · p. 248
अनुष्टुप्
कृत्रिमं लवणे पुंसि सिह्लके कृतके त्रिषु ।गुडार्मः स्याद्गुडक्षोदे क्षीरदारुणि च स्मृतः ॥ ४५ ॥
26.3.45 · p. 248
अनुष्टुप्
गोधूमो व्रीहिभेदे स्यान्नारङ्गे भेषजान्तरे ।गोलोमी श्वेतदूर्वायां वारस्त्रीवचयोरपि ॥ ४६ ॥
26.3.46 · p. 249
अनुष्टुप्
गौतमः शाक्यसिंहेऽपि मुनिभेदेऽपि गौतमः ।गौतमी चण्डिकायां च रोचन्यामपि गौतमी ॥ ४७ ॥
26.3.47 · p. 249
अनुष्टुप्
तलिमं कुट्टिमे तल्पे विताने यावकेऽपि च ।दाडिमः पुंसि दाडिम्ब एलायामपि दाडिमः ॥ ४८ ॥
26.3.48 · p. 249
अनुष्टुप्
निगमो हट्टपूर्वेदकटलुण्डीषु वाणिजे ।नियमो निश्चये बन्धे यन्त्रणे संविदि व्रते ॥ ४९ ॥
26.3.49 · p. 249
अनुष्टुप्
निष्क्रमो निर्गमे बुद्धिसम्पत्तौ दुष्कुलेऽपि च ।नैगमः क्षुरिवेदान्तवणिग्वाणिज्यनागरे ॥ ५० ॥
26.3.50 · p. 249
अनुष्टुप्
पञ्चमो रागभेदे स्यात्पञ्चानां पूरणे त्रिषु ।त्रिषु दक्षिणमेघेऽपि पञ्चमी पाण्डवस्त्रियाम् ॥ ५१ ॥
26.3.51 · p. 249
अनुष्टुप्
परमस्तु त्रिषूत्कृष्टे प्रधानाद्योश्च पुंसि तु ।ओंकारे परमं तु स्यादनुज्ञायामसंज्ञकम् ॥ ५२ ॥
26.3.52 · p. 250
अनुष्टुप्
प्रक्रमोऽवसरे चानुक्रमे चापक्रमे क्रमे ।प्रतिमाऽनुकृतौ दन्तबन्धनेऽपि च दन्तिनाम् ॥ ५३ ॥
26.3.53 · p. 250
अनुष्टुप्
आदावपि प्रधानेऽपि प्रथमं वाच्यलिङ्गकम् ।प्रहर्म्मः सौधकूटस्थकलशाद्रिनितम्बयोः ॥ ५४ ॥
26.3.54 · p. 250
अनुष्टुप्
मध्यमो मध्यदेशे स्यात्स्वरे मध्येऽथ मध्यमा ।त्रिषु दृष्टरजोनारीराकयोर्मध्यमा स्त्रियाम् ॥ ५५ ॥
26.3.55 · p. 250
अनुष्टुप्
कर्णिकात्र्यक्षरच्छन्दकरमध्याङ्गुलीषु च ।विक्रमस्तूद्यमक्रान्तौ क्षमायां शक्तिसंपदि ॥ ५६ ॥
26.3.56 · p. 250
अनुष्टुप्
विद्रुमो रत्नवृक्षेऽपि प्रवाले नवपल्लवे ।विभ्रमस्तु विलासे स्याद् विभ्रमो भ्रान्तिहावयोः ॥ ५७ ॥
26.3.57 · p. 250
अनुष्टुप्
विलोमो विपरीतेऽपि भुजङ्गेङ्गुलिरोमनि ।विलोमी तु व्यवस्थायां विलोममरघट्टके ॥ ५८ ॥
26.3.58 · p. 251
अनुष्टुप्
व्यायामो दुर्गसंचारे वियामे पौरुषे श्रमे ।सङ्क्रमः सङ्कमणेऽस्त्री तु वारिसंचारयन्त्रके ॥ ५९ ॥
26.3.59 · p. 251
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
त्रिषूत्तमे पूज्यतमे साधीयसि च सत्तमः ।सम्भ्रमस्त्वादरे पुंसि संवेगे साध्वसेऽपि च ॥ ६० ॥
26.3.60 · p. 251
अनुष्टुप्
सुषमं चारुसमयोस्त्रिषु स्यात्सुषमा द्युतौ ।अतिद्युतौ च सुषमा सुषीमः पन्नगान्तरे ॥ ६१ ॥
26.3.61 · p. 251
अनुष्टुप्
सुषीमं शिशिरे क्लीबं चारुशीतलयोस्त्रिषु ।
26.3.21 · p. 251