कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

तान्तवर्गः · तपञ्चमम्

तपंचमम् ।

स्यादध्यवसिंत ज्ञाते गते क्रुद्धेऽपि वेष्टिते ।पुंसि श्रीकण्ठवैकुण्ठयज्ञभेदेऽपराजितः ॥ २४६ ॥
17.5.246 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सिं (wrong syllable)
जयन्तीपार्वतीविष्णुकान्तासु त्वपराजिता ।वाच्यलिङ्गः पिपतिषन्पतनेच्छौ खगे पुमान् ॥ २४७ ॥
17.5.247 · p. 160
अनुष्टुप्
दृष्टेऽवलोकितं ख्यातं लोकनाथेऽवलोकितः ।उपधूपित आसन्नमरणे परिधूपिते ॥ २४८ ॥
17.5.248 · p. 160
अनुष्टुप्
गणाधिपतिरित्येष पिनाकिनि विनायके ।श्वेतायामप्यसौ वाच्यलिङ्गस्तु स्यादनिर्जिते ॥ २४९ ॥
17.5.249 · p. 161
अनुष्टुप्
सर्वमुक्तेऽभिनिर्मुक्तः सुप्ते यत्रास्तगो रविः ।पृथिवीपतिरित्युक्तो भूपाले ऋषभौषधे ॥ २५० ॥
17.5.250 · p. 161
अनुष्टुप्
मूर्धाभिषिक्तः क्ष्मापाले मन्त्रिणि क्षत्रियेऽपि च ।यादसांपतिरम्भोधौ वरुणे यादसांपतिः ॥ २५१ ॥
17.5.251 · p. 161
अनुष्टुप्
वसन्तदूतश्चूतेऽसौ पिकपञ्चमरागयोः ।वसन्तदूतीशव्दस्तु पाटलावतिमुक्तके ॥ २५२ ॥
17.5.252 · p. 161
अनुष्टुप्