कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

अव्ययानि · चान्तानि

च०

चः पादपूरणे पक्षान्तरे चापि समुच्चये ।अन्वाचये समाहारेऽप्यन्योन्यार्थेऽवधारणे ॥ १२ ॥
36.4.12 · p. 407
अनुष्टुप्
किञ्चारम्भेऽपि साकल्ये वस्तुहेतौ विनिश्चये ।तिर्यक्तिरोर्थे च कुले विहगादिष्वनव्ययम् ॥ १३ ॥
36.4.13 · p. 408
अनुष्टुप्
ननुच प्रश्नदुष्टोक्त्योः प्राक् स्यादिग्देशकालतः ।प्रागग्रातीतपूर्वेषु प्रभाते चाप्यनन्तरे ॥ १४ ॥
36.4.14 · p. 408
अनुष्टुप्
सम्यग्बाढे प्रशंसायां हिरुग्मध्यविनार्थयोः ।
36.4.4 · p. 408