कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

पान्तवर्गः · पद्वितीयम्

पद्वितीयम् ।

कल्पो ब्राह्मदिने न्याये प्रलये विधिशान्तयोः ।कूपोऽन्धुगर्त्तमृन्मानकूपके गुणवृक्षके ॥ २ ॥
22.2.2 · p. 227
अनुष्टुप्
कृपा दयायां व्यासे तु कृपो भारतपूरुषे ।खष्पः क्रोधे बलात्कारे गोपो गोपालभूपयोः ॥ ३ ॥
22.2.3 · p. 227
अनुष्टुप्
गोपो ग्रामौघगोष्ठाधिकारिणोश्च क्वचित्करौ ।छुपः क्षुपे स्पर्शनेपि सन्ताने मारुते जुपः ॥ ४ ॥
22.2.4 · p. 228
अनुष्टुप्
तप्लं कलत्रे शय्यायां तल्पमट्टेऽपि न द्वयोः ।सन्तापे दवथौ तापस्तापी तु सरिदन्तरे ॥ ५ ॥
22.2.5 · p. 228
अनुष्टुप्
त्रपा लज्जाकुलटयोस्त्रपु सीसकरङ्गयोः ।दर्प्पो भवेदहङ्कारे दर्प्पो मृगमदेऽपि च ॥ ६ ॥
22.2.6 · p. 228
अनुष्टुप्
निपो वलिकदंबे स्यान्नीलवञ्जुलबन्धने ।पुष्पं रजसि नारीणां विकासे कुसुमेऽपि च ॥ ७ ॥
22.2.7 · p. 228
अनुष्टुप्
रूपमाकारसौन्दर्यस्वभावश्लोकनाणके ।नाटकादौ मृगे ग्रन्थावृत्तौ च पशुशब्दयोः ॥ ८ ॥
22.2.8 · p. 228
अनुष्टुप्
रेपः स्यान्निन्दिते क्रूरे रोपो बाणेऽपि रोपणे ।लेपस्तु लेपने ख्यातः सुधाजेमनयोरपि ॥ ९ ॥
22.2.9 · p. 228
अनुष्टुप्
वपा तु विवरे भेदे वाष्पो नेत्रजलोष्मणोः ।शष्पं बालतृणं क्लीबं शष्पस्तु प्रतिभाक्षये ॥ १० ॥
22.2.10 · p. 229
अनुष्टुप्
शपथाक्रोशयोः शापः शिष्पं कृत्योचित श्रुवे ।सूपो व्यञ्जनभेदेऽपि सूपकारेऽपि च स्मृतः ॥ ११ ॥
22.2.11 · p. 229
अनुष्टुप्
स्वापस्तु शयनाऽज्ञाननिद्रास्पर्शज्ञतार्थकः ।क्षेपो विलम्बे हेलायां गर्हाप्रेरणलेपने ॥ १२ ॥
22.2.12 · p. 229
अनुष्टुप्