कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

टान्तवर्गः · टैकम्

इति विश्वलोचने ञान्तवर्गः ।

अथ टान्तवर्गः ।

टैकम् ।

टा पृथिव्यां ध्वनौ टः स्यात्करङ्के टं नपुंसकम् ॥ १ ॥
12.1.1 · p. 73
अट्टं गुहान्तरे क्षौमे शुष्के चात्यल्पभक्तयोः ।इष्टो ना यागसंस्कारयोगयोः क्रतुकर्म्मणि ॥ २ ॥
12.1.2 · p. 74
अनुष्टुप्
क्लीबं त्रिषु प्रियतमे पूज्येप्याशंसितेपि च ।इष्टिर्यागार्च्चनेच्छासु संग्रहश्लोकसूर्ययोः ॥ ३ ॥
12.1.3 · p. 74
अनुष्टुप्
कटुः पुंसि रसे क्लीबं कटु कार्येपि दूषणे ।प्रियङ्गुराजिकाऽशोकरोहिणीकटुकासु च ॥ ४ ॥
12.1.4 · p. 74
अनुष्टुप्
स्त्रियां कटु त्रिष्वप्रिये ना सुगन्धौ मत्सरेऽपि च ।कटः श्रोणौ शवेत्यल्पे किलिञ्जगजगण्डयोः ॥ ५ ॥
12.1.5 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
श्मशानेऽपि क्रियाकारेऽप्यद्भुतेपि कटाऽव्ययम् ।कटी स्यात्कटिमागध्योः कष्टं गहनकृच्छ्रयोः ॥ ६ ॥
12.1.6 · p. 74
अनुष्टुप्
कुटो घटे शिलाकुट्टे कुटी वेश्मनि तु द्वयोः ।कुटी तु स्यात्पयोदास्यां सुरायां चित्रगुच्छके ॥ ७ ॥
12.1.7 · p. 74
अनुष्टुप्
कूटोऽस्त्री राशिपूर्द्वारदम्भमायाऽनृतेष्वपि ।तुच्छेऽद्रिशृङ्गे सीराङ्गे यन्त्रायोघननिश्चले ॥ ८ ॥
12.1.8 · p. 75
अनुष्टुप्
कृष्टिर्वृधे ना कर्षेऽस्त्री कोटिः संङ्ख्यान्तराग्रयोः ।अत्युत्कर्षप्रकर्षाश्रिकार्मुकाग्रेषु च स्त्रियाम् ॥ ९ ॥
12.1.9 · p. 75
अनुष्टुप्
ष्टं तु रोदने रावे कृष्टिः स्यात्कृशसेवयोः ।खटोऽन्धकूपे टङ्के च खटः श्लेष्मचपेटयोः ॥ १० ॥
12.1.10 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
खाटिः स्त्रियां शवरथे खाटिरेकग्रहे किणे ।खेटस्तु निन्दिते ग्रामभेदेऽपि वसुनन्दके ॥ ११ ॥
12.1.11 · p. 75
अनुष्टुप्
गृष्टिरेकप्रसवगोवराहक्रान्तयोः स्त्रियाम् ।विष्णुक्रान्तौषधौ घृष्टिर्घोण्टा वदरपूगयोः ॥ १२ ॥
12.1.12 · p. 75
अनुष्टुप्
चटुश्चाटौ पिचिण्डे च व्रतिनामासने चटुः ।चाटश्चाटे च धूर्ते च मूलमांसिकयोर्जटा ॥ १३ ॥
12.1.13 · p. 75
अनुष्टुप्
झाटो निकुञ्जे कान्तारे व्रणसम्मार्जने वने ।त्रुटिस्त्वपचये लेशे सूक्ष्मैलायां च संशये ॥ १४ ॥
12.1.14 · p. 76
अनुष्टुप्
कालमानेऽप्यथ त्रोटिः स्त्री चञ्चुमीनकट्फले ।त्वष्टा वर्द्धकिगीर्वाणशिल्पिनोस्तिग्मधामनि ॥ १५ ॥
12.1.15 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ञ्चु (wrong syllable)
दिष्टिर्मुदि परीमाणे दिष्टः कालोपदिष्टयोः ।दिष्टं भाग्येथ दृष्टिः स्यान्नेत्रदर्शनबुद्धिषु ॥ १६ ॥
12.1.16 · p. 76
अनुष्टुप्
धटः शुद्धितुलायां स्याद् धटी खण्डे च वाससः ।नटी हट्टविलासिन्यां नटः शैलूषशोणयोः ॥ १७ ॥
12.1.17 · p. 76
अनुष्टुप्
पटः शोभनचेले स्यात्पुरस्कारपियालयोः ।पटुर्वाग्मिनि नीरोगे तीक्ष्णे दक्षे स्फुटे त्रिषु ॥ १८ ॥
12.1.18 · p. 76
अनुष्टुप्
पटुः पुंसि पटोले स्त्री छत्रायां लवणे पटु ।पट्टः पेषणपाषाणे फलकेऽपि चतुष्पथे ॥ १९ ॥
12.1.19 · p. 76
अनुष्टुप्
व्रणादिबन्धराजादिशासनासनभेदयोः ।पट्टी भालविभूषायां पट्टी लाक्षाप्रसादने ॥ २० ॥
12.1.20 · p. 77
अनुष्टुप्
पट्टिः पटविभेदे स्याद् वल्गुलौ कुम्भिकाद्रुमे ।पुष्टिः स्यात्पोषणे वृद्धौ फटा तु फणदम्भयोः ॥ २१ ॥
12.1.21 · p. 77
अनुष्टुप्
तटेऽश्रमकृते फाण्टं वटस्तु स्याद्गुणे त्रिषु ।वटो वराटन्यग्रोधे वर्त्तिकायां वटी मता ॥ २२ ॥
12.1.22 · p. 77
अनुष्टुप्
वीरे पामरभेदे ना भटः स्त्री प्रगमे भटिः ।भृष्टिस्तु भर्जने शून्यवाटिकायामपि स्त्रियाम् ॥ २३ ॥
12.1.23 · p. 77
अनुष्टुप्
मुष्टिर्बद्धकरे पुंसि स्त्रियामपि तथा पले ।म्लिष्टं स्याद्वाच्यवन्म्लाने म्लिष्टमव्यक्तभाषणे ॥ २४ ॥
12.1.24 · p. 77
अनुष्टुप्
यष्टिः शस्त्रान्तरे हारे हारे हारात्परेऽपि च ।भार्ङ्ग्या च मधुपर्ण्यां च ध्वजदण्डे तु पुंस्ययम् ॥ २५ ॥
12.1.25 · p. 77
अनुष्टुप्
रिष्टं क्षेमे मृत्युचिह्ने विनाशे ना तु सायके ।रिष्टस्तु रिष्टिवत्खड्गे समृद्धौ पुंस्त्रियोः क्रमात् ॥ २६ ॥
12.1.26 · p. 78
अनुष्टुप्
लटो दोषेपि वाग्दोषे लाटस्त्वंशुकदेशयोः ।वाटस्तु वर्त्मनि वृतौ वाटी स्याद्गृहनिष्कुटे ॥ २७ ॥
12.1.27 · p. 78
अनुष्टुप्
विटस्तु खिड्गलवणशङ्खाखुखदिराद्रिषु ।विष्टिः कर्म्मकरे भद्रे वेतने प्रेषणे स्त्रियाम् ॥ २८ ॥
12.1.28 · p. 78
अनुष्टुप्
व्युष्टं दिने प्रभाते च फले पर्युषिते त्रिषु ।व्युष्टिः समृद्धौ विहिता नियमादिफलेऽपि च ॥ २९ ॥
12.1.29 · p. 78
अनुष्टुप्
सटा जटाकेसरयोः सृष्टिर्निर्म्माणसर्ग्गयोः ।सृष्टं तु निर्मिते त्यक्ते त्रिषु प्राज्येऽपि निश्चिते ॥ ३० ॥
12.1.30 · p. 78
अनुष्टुप्
स्फुटो व्यक्ते प्रफुल्ले च व्याप्तवत्त्रिष्वपि त्रिषु ।स्फुटिः स्फुटिककर्कट्यां पादस्फोटेऽपि च स्फुटिः ॥ ३१ ॥
12.1.31 · p. 78
अनुष्टुप्
हृष्टो रोमाञ्चिते जातहर्षे प्रहसिते स्मृते ।
12.1.32 · p. 79