All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
गान्तवर्गः · गतृतीयम्
गतृतीयम् ।
अनङ्गो मन्मथेऽनङ्गमाकाशमनसोर्मतम् ।अङ्गहीनेऽप्यनङ्गः स्यादङ्गभूतविपर्यये ॥ ३१ ॥
3.3.31 · p. 51
अनुष्टुप्
अपाङ्गस्त्वङ्गविकले नेत्रान्ते तिलके पुमान् ।अयोगो विधुरे कूटे विश्लेषे कठिनोद्यमे ॥ ३२ ॥
3.3.32 · p. 52
अनुष्टुप्
आभोगो वारुणच्छत्रे यत्नपूर्णत्वयोरपि ।आयोगो गन्धमाल्यादिव्यसनेऽपि च ढौकने ॥ ३३ ॥
3.3.33 · p. 52
अनुष्टुप्
व्यापाररोधयोश्चाऽऽथ आशुगो बाणवातयोः ।उत्सर्गो वर्जने त्यागे सामान्ये न्यायदानयोः ॥ ३४ ॥
3.3.34 · p. 52
अनुष्टुप्
उद्वेग उद्बाहुलके पुमानुद्वेजनेऽपि च ।भवेदुद्गमने चायमुद्वेगं क्रमुकीफले ॥ ३५ ॥
3.3.35 · p. 52
अनुष्टुप्
कलिङ्गः पूतिकरजे धूम्याटे विषयान्तरे ।नीवृद्भेदे कलिङ्गस्तु त्रिषु दग्धविदग्धयोः ॥ ३६ ॥
3.3.36 · p. 52
अनुष्टुप्
कलिङ्गं कौटजफले कलिङ्गा योषिति स्त्रियाम् ।कलिङ्गो भूमिकूष्माण्डे मतङ्गजभुजङ्गयोः ॥ ३७ ॥
3.3.37 · p. 52
अनुष्टुप्
कालिङ्गी राजकर्कट्यां कालिङ्गस्त्रिषु तद्भवे ।चक्राङ्गी कटुरोहिण्यां चक्राङ्गश्चक्रपक्षिणि ॥ ३८ ॥
3.3.38 · p. 53
अनुष्टुप्
जिह्मगो भुजगे पुंसि मन्दगे त्रिषु जिह्मगः ।तडागः सरसि ख्यातस्तडागो यन्त्रकूटके ॥ ३९ ॥
3.3.39 · p. 53
अनुष्टुप्
तातगुः क्षुद्रताते स्याज्जने पितृहितेऽपि च ।तुरगी त्वश्वगन्धायां तुरगो हयचित्तयोः ॥ ४० ॥
3.3.40 · p. 53
अनुष्टुप्
त्रिवर्गो धर्मकामार्थसंहतौ च कटुत्रिके ।त्रिफलायां सत्त्वरजस्तमसामपि संहतौ ॥ ४१ ॥
3.3.41 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
वृद्धिस्थानक्षयैकोक्तौ धाराङ्गस्त्वसितीर्थयोः ।नरङ्गं तु वरण्डे च वृत्तिकीलकशेफसोः ॥ ४२ ॥
3.3.42 · p. 53
अनुष्टुप्
नागरङ्गेऽपि नारङ्गो नारङ्गो यमजेऽपि च ।विटे जन्तौ च नारङ्गो नारङ्गं पिप्पलीरसे ॥ ४३ ॥
3.3.43 · p. 53
अनुष्टुप्
निषङ्गो बाणधौ सङ्गे निसर्गः शीलसर्गयोः ।नीलङ्गुः कृमिकीटे स्याद् भंभराल्यामुशीरके ॥ ४४ ॥
3.3.44 · p. 54
अनुष्टुप्
पतङ्गः शलभे सूर्ये खगे शाल्यन्तरेऽपि च ।रसे पतङ्गे पत्राङ्गं रक्तचन्दनभूर्जयोः ॥ ४५ ॥
3.3.45 · p. 54
अनुष्टुप्
पद्मके चाथ सर्पेऽपि पद्मकाष्ठेऽपि पन्नगः ।परागः पुष्परजसि स्नानीयादौ रजस्यपि ॥ ४६ ॥
3.3.46 · p. 54
अनुष्टुप्
विख्यातावुपरागेऽपि चन्दने पर्वतान्तरे ।पुन्नागः पुरुषश्रेष्ठे वृक्षभेदे सितोत्पले ॥ ४७ ॥
3.3.47 · p. 54
अनुष्टुप्
जातीफलेऽपि पुन्नागः पाण्डुनागे च दृश्यते ।प्रयागस्तीर्थभेदे स्याद्यज्ञे वाहे विडौजसि ॥ ४८ ॥
3.3.48 · p. 54
अनुष्टुप्
प्रयोगः कार्मणे पुंसि प्रयुक्तौ च निदर्शने ।प्रियङ्गुः फलिनीकङ्गूराजिकापिप्पलीष्वियम् ॥ ४९ ॥
3.3.49 · p. 54
अनुष्टुप्
प्लवगो वानरे भेके तीक्ष्णदीधितिसारथौ ।भुजङ्गो भुजगे षिड्गे मातङ्गः श्वपचे गजे ॥ ५० ॥
3.3.50 · p. 55
अनुष्टुप्
मृदङ्गः पटहे घोषे रक्ताङ्गा जीविकौषधौ ।रक्ताङ्गो मङ्गले क्लीबं धीरकाम्पिल्यविद्रुमे ॥ ५१ ॥
3.3.51 · p. 55
अनुष्टुप्
रथाङ्गमद्वयोश्चक्रे रथाङ्गश्चक्रपक्षिणि ।वराङ्गं मस्तके योनौ गुडत्वचि गजे स्त्रियाम् ॥ ५२ ॥
3.3.52 · p. 55
अनुष्टुप्
वातिगस्तु दशापाके वार्ताकीधातुवादिनोः ।विडङ्गोऽस्त्री कृमिघ्ने स्याद् विडङ्गो नागरेऽन्यवत् ॥ ५३ ॥
3.3.53 · p. 55
अनुष्टुप्
विहगस्तु विहङ्गे स्यादग्रगे विहगस्त्रिषु ।विसर्गस्तु भवे दाने त्यागे च मलनिर्गमे ॥ ५४ ॥
3.3.54 · p. 55
अनुष्टुप्
विसर्जनीये मुक्तौ च भास्वतश्चायनान्तरे ।रते भोगे च सम्भोगः सम्भोगो जिनशासने ॥ ५५ ॥
3.3.55 · p. 55
अनुष्टुप्
सर्वगं सलिले क्लीबं सर्वगः शङ्करे विभौ ।सारङ्गो मृगमातङ्गचातकेषु खगान्तरे ॥ ५६ ॥
3.3.56 · p. 56
अनुष्टुप्
भृङ्गे त्रिषु तु किर्मीरे हेमाङ्गस्तार्क्ष्यवेधसोः ।
3.3.27 · p. 56