कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

अव्ययानि · रान्तानि

र०

अन्तरा तु विनार्थे स्यान्मध्यार्थनिकटार्थयोः ॥ ६२ ॥
36.16.62 · p. 416
अन्तः प्रान्तार्थमध्यार्थस्वीकारार्थे तु वर्जने ।उरर्युरुरीवदूरी विस्तारेऽङ्गीकृतौ त्रयम् ॥ ६३ ॥
36.16.63 · p. 417
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रु (wrong syllable)
दुर्निषेधेऽपि कष्टेऽपि गताद्यर्थाऽप्रकर्षयोः ।निर्निःशेषे निषेधे च क्रान्ताद्यर्थे च निश्चये ॥ ६४ ॥
36.16.64 · p. 417
अनुष्टुप्
परा गतौ वधे प्रातिलोम्यप्राधान्यघर्षणे ।आभिमुख्ये विमोक्षे च भृशार्थे विक्रमेऽपि च ॥ ६५ ॥
36.16.65 · p. 417
अनुष्टुप्
परि स्यात्सर्वतोभावे वीप्सायां लक्षणादिषु ।आलिङ्गने निरसने व्यापने व्याधिशोकयोः ॥ ६६ ॥
36.16.66 · p. 417
अनुष्टुप्
पूजोपरमभूषासु दोषाख्यानेऽपि वर्जने ।पुनर्भिदाऽप्रथमयोः पुरा भाविपुराणयोः ॥ ६७ ॥
36.16.67 · p. 417
अनुष्टुप्
प्रबन्धे निकटेऽतीते स्वः स्वर्गपरलोकयोः ।
36.16.7 · p. 417