कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

अव्ययानि · नान्तानि

न०

अनु त्वनुक्रमे हीने पश्चादर्थसहार्थयोः ।आयामेऽपि समीपार्थे सादृश्ये लक्षणादिषु ॥ ३८ ॥
36.10.38 · p. 412
अनुष्टुप्
किन्नु प्रश्ने वितर्के च ननु प्रश्नावधारणे ।नन्वनुज्ञावितर्कायमन्त्रेष्वनुनये ननु ॥ ३९ ॥
36.10.39 · p. 412
अनुष्टुप्
नाना विनार्थेऽपि मतं नानाऽनेकोभयार्थयोः ।निः स्यान्नित्यभृशाश्चर्यविन्यासक्षेपराशिषु ॥ ४० ॥
36.10.40 · p. 412
अनुष्टुप्
अन्तर्भावेऽप्यधोभावे दर्शने दानकर्म्मणि ।बन्धोपरमसामीप्यमोक्षकौशलसंयमे ॥ ४१ ॥
36.10.41 · p. 413
अनुष्टुप्
निवेशेऽप्यथ नु प्रश्नेऽतीतेऽनुनयवार्थयोः ।स्थाने तु युक्तसादृश्यकारणार्थेषु दृश्यते ॥ ४२ ॥
36.10.42 · p. 413
अनुष्टुप्