All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
षान्तवर्गः · पचतुर्थम्
पचतुर्थम् ।
अनुकर्षो रथस्याधोदारुण्यप्यनुकर्षणे ।अनुतर्षः सुरापानपात्रे तृष्णाभिलाषयोः ॥ ३२ ॥
32.4.32 · p. 383
अनुष्टुप्
सुरे मत्स्येऽप्यनिमिषः सुरे मत्स्येऽनिमेषवत् ।अम्बरीषो रणे भ्राष्ट्रेऽम्बरीषो भूभृदन्तरे ॥ ३३ ॥
32.4.33 · p. 384
अनुष्टुप्
मार्त्तण्डे खण्डपरशौ कपीतनकिशोरयोः ।अलम्बुषः पुमानेव मतश्छर्दनपादपे ॥ ३४ ॥
32.4.34 · p. 384
अनुष्टुप्
अलम्बुषा तु मुण्डीरीस्वर्गवेश्याप्रभेदयोः ।तुरङ्गवदने लोकभेदे किंपुरुषः पुमान् ॥ ३५ ॥
32.4.35 · p. 384
अनुष्टुप्
नन्दिघोषः पार्थरथे स्तुतिपाठकघोषणे ।परिघोषस्त्ववाच्ये स्यान्निनादे वारिदध्वनौ ॥ ३६ ॥
32.4.36 · p. 384
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
पलङ्कषा गौक्षुरके लाक्षागुग्गुलकिंशुके ।मुण्डीरीरास्नयोश्चैव राक्षसे तु पलङ्कषः ॥ ३७ ॥
32.4.37 · p. 384
अनुष्टुप्
शृङ्गीभेदे महाघोषा पुंसि हट्टेऽतिघोषयोः ।वातरूपस्तु वातूलेऽप्युत्कोचे शक्रकार्मुके ॥ ३८ ॥
32.4.38 · p. 384
अनुष्टुप्