कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

टान्तवर्गः · टचतुर्थम्

टचतुर्थम् ।

पुमानुच्चिङ्गटे मीनभेदे कोपनपूरुषे ॥ ६१ ॥
12.3.61 · p. 84
करहाटोऽब्जकन्देऽपि शल्यद्रौ कुसुमान्तरे ।कामकूटस्तु गणिकाविभ्रमे गणिकाप्रिये ॥ ६२ ॥
12.3.62 · p. 84
अनुष्टुप्
त्रिषु कार्यपुटो ह्रीके प्रमत्ताऽनर्थकारिणोः ।कुटन्नटस्तु कैवर्त्तिमुस्तके शोणके पुमान् ॥ ६३ ॥
12.3.63 · p. 84
अनुष्टुप्
कुण्डकीटस्तु चार्वाकवाण्यभिज्ञेपि पुंश्चले ।जारजे ब्राह्मणीपुत्रदासीकामुकयोरपि ॥ ६४ ॥
12.3.64 · p. 84
अनुष्टुप्
खङ्गरीटस्तु फलकासिधाराव्रतचारिणोः ।गाढमुष्टिस्तु कृपणे कृपाणछुरिकादिषु ॥ ६५ ॥
12.3.65 · p. 84
अनुष्टुप्
चक्रवाटः क्रियारोहे पर्यन्ते च शिखातरौ ।चतुःषष्टिस्तु संख्यायां बह्वृचेऽपि कलास्वपि ॥ ६६ ॥
12.3.66 · p. 84
अनुष्टुप्
नारकीटोऽश्मकीटे स्यात्स्वदन्ताशाविहन्तरि ।परपुष्टः परभृते परपुष्टाऽपणस्त्रियाम् ॥ ६७ ॥
12.3.67 · p. 84
अनुष्टुप्
प्रतिकृष्टं मतं गुह्ये द्विरावृत्त्यवकर्षिते ।प्रतिशिष्टः प्रतिहते दन्ते ख्याते च वाच्यवत् ॥ ६८ ॥
12.3.68 · p. 85
अनुष्टुप्
प्रतिसृष्टं भवेत्प्रत्याख्यातप्रोषितयोस्त्रिषु ।बर्कराटः कटाक्षेऽपि तरुणादित्यदीधितौ ॥ ६९ ॥
12.3.69 · p. 85
अनुष्टुप्
नारीपयोधरोत्सङ्गकान्तदन्तनखक्षते ।शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे ॥ ७० ॥
12.3.70 · p. 85
अनुष्टुप्
प्राञ्चलोहे श्रुतिकटः प्रायश्चित्ते भुजङ्गमे ।सिंहच्छटा तु पुन्नागकेसरे नागकेसरे ॥ ७१ ॥
12.3.71 · p. 85
अनुष्टुप्